________________ 66 . अभिधर्मदीपे [111 कायेद्रियसहगस्त्वष्टाभिश्चक्षुरादिसहिता(तो) नवभिः / / [111] एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम् / रूपधातो बहिर्गतः पञ्चद्रव्याविनिर्भागी गन्धरसौ हित्वा। फायसहगतस्तु षड्भिश्चक्षुरादिषु सप्तभिरविनि गिभिः। यदा पुनस्सशब्दका स संघातो' जायते, तदा सर्वत्र यथोक्तेषु शब्दोऽधिको गणयितव्यः / अत्र पुनर्महाभूतानि सर्वोपादायरूपाश्रयभावप्राधान्याच्चतस्रो द्रव्या जातयो विवक्ष्यन्ते / उपादाय रूपधातुचतुष्टयं तु घटादिद्रव्यप्रज्ञप्तिनिमित्तत्वादायतनगणनया गण्यत इति विवक्षितापरिज्ञानानास्ति चोद्यावकाशः॥ d'etre scindee a nouveau, s'appelle paramanu. C'est-a-dire : le parama nu n'est pas susceptible d'etre divise en plusieurs par un autre rupa, par la pensee. C'est ce qu'on dit etre le plus petit rupa; comme il n'a pas de parties, on lui donne nom de 'plus petit.' De meme un kshana est nomme le plus petit temps et ne peut etre divise en demi-kshanas. (iii. 86). LVPAK. II. p. 144, n, 3. Also cf. यत्पुनरुच्यते रूपसमुदाय इति तत्र निःशरीरः परमाणुर्वेदितव्यः / बुद्ध्या पर्यन्तप्रभेदतस्तु परमाणुव्यवस्थानं पिण्डसंज्ञाविभावनतामुपादाय रूपे द्रव्यापरिनिष्पत्तिप्रवेशतां चोपादाय | Asm. pp. 41-2. On the Buddhist theory of Atoms and Molecules, See W. M. Mc Govern ; A Manual of Buddhist Philosophy, vol. I. pp. 125--128; S.Z. Aung: Compendium of Philosophy, pp. 268-273. and Th. Stcherbatsky: The Central Conception of Buddhism, pp. 11-14. 1 The Kosakara deals here with one more topic:-'कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा / Akb. II. 22d. 2 Cf. किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् / किञ्चातः यदि द्रव्यमेव द्रव्यं गृह्यते, अत्यल्पमिदमुच्यते 'अष्टद्रव्यको नवदशद्रव्यक' इति / अवश्यं हि तद्रव्यसंस्थानेनापि भवितव्यम् / तस्यापि परमाणुसंचितत्वात् / अथाप्यायतनद्रव्यं गृह्यते, अतिबह्विदमुच्यते-अष्टद्रव्यक इति / चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् / किञ्चिवत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् / अत्र पुनर्जातिद्रव्यं गृह्यते / भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् / कः पुनर्यत्स एवं विकल्पेन वक्तुम् / च्छन्दतोऽपि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः | Akb. II. 22cd. . .."मुख्यवृत्त्या यद् द्रव्यं यस्य स्वलक्षणमस्ति तद् द्रव्यं गृह्यते / 'आहोस्विदायतनम्' द्रव्यमित्यधिकृतम् / आयतनमपि हि द्रव्यमिति शक्यते वक्तुं सामान्यविशेषलक्षणसद्धावात् /