Book Title: Sutra Rahasyam
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
Catalog link: https://jainqq.org/explore/032145/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ अहँ नमः॥ ।। नमोऽस्तु तस्मै जिनशासनाय।। सूत्ररहस्यम् युगप्रधानाचार्यसम य.पू.चन्द्रशेखर वि.म.सा. || ‘सयणासणन्नपाणे... गाथारहस्यम्।। । रात्रिक-अतिचारसूत्ररहस्यम् ।।। ।। दैवसिकातिचारसूत्ररहस्थम्।। Page #2 -------------------------------------------------------------------------- ________________ loniela pe - ते ते जैन शासनना सकल प्रतिभाशाली गणधरो, ....आचार्यो, महापुरुषोने - जेमणे पोतानी शक्ति होवा प्रता, स्वशक्तिने गौण करीने, पोतानी अफाट करुणा नो धोध बहेवडाची ने अबुधअल्पक्षयोपशमी-आत्माओने लक्ष्य मां राखी सरल-सुगमसाचा ग्रन्थोनी रचना करी... मु.गुणहंस वि. Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना क्यारे विचार्यु छे ??? के? * आपणा सिद्धान्तो प्राकृतमां केम लखाया? * महामेधावी 14 पूर्वधर शय्यंभवसूरिजीओ नवमां पूर्वनी त्रीजी वस्तुमांथी दशवैकालिकने निर्युढ केम कर्यु? * प्रकांड विद्वान 14 पूर्वधर भद्रबाहुसूरिजी ओ ओघनियुक्ति ने पूर्व ना महासागर मांथी उध्दृत करीने नूतनोने पहेला ज दिवसे आपवानु विधान केम कर्यु? * ते-ते परमोपकारी महापुरुषोओ दशविधचक्रवाल सामाचारी अने छेदग्रन्थना पदार्थोनो उपक्रम केम कर्यो? * दर कल्पमां पृथकत्व अनुयोग केम कराय छ ? * सरस्वतीलब्धप्रासाद पूज्य अत्यद्भूतटीकाकार मलयगिरिजी म.सा. ओआटली सरल टीकाओ केम सर्जी? * ते-ते-द्रव्य-क्षेत्र-काल-भावानुसारे ते-ते प्रतिभाशाली आचार्योओ ते-ते आगमो उपर सरल टीकाओटिप्पणो केम सर्जी? Page #4 -------------------------------------------------------------------------- ________________ इतिहासना पानाओने उलेचीने जोशो, तो आना 2 उत्तर तमोने जडशे1. Useful बनाववा माटे 2.Understandable बनाववा माटे..... जेम जेम काल वहे, तेम तेम ते-ते कालना प्रवाहने अनुसारे "Old Wine In New Bottle"नी अंग्रेजी कहेवतानुसार अने ओज शास्त्रीय पदार्थोने नव॒स्वरुप अने सरल स्वरुप आपqअति आवयश्यक छ। तोज ओ पदार्थो ग्राह्य बने छ। बस, ओज विचार ने अनुसरीने मैं आप्रयास आदर्यो छ। 'ज्ञान बिना जन मूढा' 'ज्ञान रहित क्रिया निष्फल' ओवी तो सेंकडो ज्ञानमाहात्म्य प्रतिपादक वाक्यो तमने अने मने आवडे छ। परंतु शुंआपणो प्रतिक्रमणादिक्रियाओमां उपयोग रहे छे ? के फक्त शुष्कता नो मोठो समंदर ज नजरे चढे छ ? शुष्कतानुं मूल शोधशो तो ख्याल आवशे के अर्थ न आलंबन आपणी पासे नथी अने अटले ज आपणी क्रियाओ बस पूरी करवा माटे ज थई रही छे Page #5 -------------------------------------------------------------------------- ________________ नूतनोनी ओ परिस्थिति न थाय अने आपणी पण शुष्कता दूर थई भगवाननी आज्ञा अने पदार्थो आपणा रोमरोममां स्पर्श अना माटेनु आ प्रयास छ। 'सयणा....' गाथा, दैवसिकातिचार, रात्रिकतिचाररुप आवश्यकसूत्रो जे आपणने नित-उपयोगमां आवे छे अना उपर सरल अने स्पष्ट भाषामां आनवी टीकाओरची छे। मोक्षकलक्षी आत्माओने मोक्षनी साधनामां आ मारी टीका मोक्षोपयोगी थाय अने मोक्षनी गतिमां वेग आपनारी बने ओवी मोक्षप्राप्त आत्माओने प्रार्थना करी प्रस्तावना नो मोक्ष करने छु.... युगप्रधानाचार्यसम प.पू.पं.चन्द्रशेखरवि.म.सा. ना शिष्य मु.गुणहंस वि. मा.व.7, एस.पी.आर. चेन्नई Page #6 -------------------------------------------------------------------------- ________________ प्रथम आवृत्ति : संवत 2074, नकल : 2000 * टीकाकार : मु.गुणहंसवि.म.सा. * प्राप्ति स्थल* मुम्बई सुरत अहमदाबाद हितेशभाई गला आशीषभाई मेहता दीपेशभाई दीक्षित B1/302, Shayam Kamal Building, Royal Harritage, 1st Floor, Flat No. 101, B-2Amar Flat, Opp. Divine Life Agarwal Market, Tejpal road, Near Shargam Shoping Centre School, Baraje Road, Vasna VileParle (E) Mumbai-400057. Parle Point, Umra, Surat-395007 Ahmedabad-380007. Cell : 9820928457 Cell: 9374512259 Cell : 9428608279 * प्रकाशक* कमल प्रकाशन ट्रस्ट 102-ए, चन्दनबाला कोम्पलेक्स, आनंद नगर, पोस्ट ऑफिस के सामने, भठ्ठा, पालडी, अहमदाबाद - 7. Design and Printed by: Divyam imagination alive Chennai. Ph: 044-42140317/9884232891/8148836497 Page #7 -------------------------------------------------------------------------- ________________ ।। अह नमः।। ॥ नमोऽस्तु तस्मै जिनशासनाय।। । 'सयणासणन्नपाणे...' गाथारहस्यम्।। PRIMARY शयनाधतिचारेषु, कर्तव्यालोचना सदा। आलोचनापदानां तद्, वर्णना लघु क्रियते।। Page #8 -------------------------------------------------------------------------- ________________ साधवः प्रातःकाले रात्रिकप्रतिक्रमणे रात्रिदोषान् गुरुं कथयन्ति, सायंकाले च दैवसिकप्रतिक्रमणे दिवसदोषान् गुरुं कथयन्ति। एतत्कथनमेव 'आलोचना' इति कथ्यते। एतदालोचनाकरणार्थमेव च ‘राइअं आलोउं' 'देवसिअंआलोउं,' इति आदेशं साधवो गुरुसमीपे याचन्ते। तत्र 'राइअं आलोउं' इति वाक्यस्यायमर्थो यदुत 'हे गुरो! भवान् अनुजानातु, अहं रात्रिकदोषान् आलोचयामि' इति। तथा 'देवसिअं आलोउं' इति वाक्यस्यायमर्थो यदत हे गुरो! भवान् अनुजानातु, अहं दिवसदोषान् आलोचयामि' इति। तत्पश्चाद् यदि गुरुरनुजानीयात्, तर्हि साधवो दोषान् कथयन्ति। __परन्तु साधवो यदि न जानन्ति यदत 'रात्रौ दिवसे वा मया के दोषाः सेविताः?' तर्हि ते तान् दोषान् कथं कथयेयुः? यदि च साधवः तदैव दोषान् स्मृत्वा स्मृत्वा कथयेयुः, तर्हि महान् कालविलम्बो भवेत्। एतच्च नोचितम्। तस्मादालोचनायाः प्रागेव साधवः कायोत्सर्गे स्थित्वा रात्रिदोषान् दिवसदोषांश्च चिन्तयन्ति, मनसि धारयन्ति च, येन तदनन्तरं आलोचानाकालेऽविलम्बमेवालोचनां कर्तुं शक्येत। परन्तु अनाभोगादिकारणवशाद् रात्रिदोषा दिवसदोषाश्च स्मर्तुं न सुकराः। जीवा हि अल्पक्षयोपशमादिकारणाद् विस्मरणशीलाः, ततश्च 'दोषानां स्मरणं सुकरं स्याद्' इत्येतदर्थं एका संग्रहगाथा कृता। येषु येषु पदार्थेषु दोषानां संभवः, तेषां तेषां पदार्थानां अस्यां गाथायां संग्रहः कृतः, येन साधवस्तान् तान् पदार्थान् Page #9 -------------------------------------------------------------------------- ________________ आश्रित्य सुखेनैव दोषान् स्मरेयुः । सा च गाथा इयम्। सयणासणन्नपाणे, चेइअजइसिज्जकायउच्चारे। समिभावणागुत्ती, वितहायरणंमि अइयारो ।। अस्या गाथायाः प्रथमं भावार्थ: प्रतिपाद्यते । 1 शयनं, 2 आसनं, 3अन्नं, 4पानं, 5 चैत्यं, 6 यतिः, 7 शय्या, 8कायिका, 9उच्चारः, 10समिति, 11भावना, 12गुप्तिश्च इति द्वादश पदार्थाः । एतेषु पदार्थेषु यद् वितथाचरणं, तद् अतिचारो भवति। वितथाचरणं नाम विपरीतमाचरणम्। एतेषु यत् कर्त्तव्यं तन्न कृतं यच्च न कर्त्तव्यं तत्कृतं, तद् वितथाचरणं, तदेव चातिचार इति । अधुना विस्तरार्थः प्रतिपाद्यते । (1) तत्र प्रथमः पदार्थः 'शयनम्' । * शयनं नाम संस्तारकः, तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं संभवति। * शयनं न प्रतिलेखितं, अविधिना वा प्रतिलेखितम्। * शयनभूमिमप्रमृज्यैव शयनमास्तृतम्। Page #10 -------------------------------------------------------------------------- ________________ * 'शयनं सोत्तरपट्टकं कृत्वैव भूमौ आस्तरणीयं इति विधिः, परन्तु प्रथमं शयनं आस्तीर्य पश्चात्तदुपरि उत्तरपट्टकोऽऽस्तृतः। * उत्तरपट्टकं अनास्तीर्यैव शयने शयनं कृतम् । * दिवसकाले शयनं समास्तृतं, तत्र च शयनं कृतम् । * रात्रौ उचितसमये 'संथारा पोरिसी' विधिं कृत्वैव शयनमास्तरणीयं, परन्तु तमकृत्वैव शयनमास्तृतम्। यदि वोचितसमयात्प्राक्पश्चाद् वा शयनमास्तृतम्। * शास्त्रोक्तप्रमाणादधिकमूनं वा शयनं रक्षितम् (धृतम् ) । * अन्यसाधोः शयनं गृहीतं, तस्य चोपयोगः कृतः । * रत्नाधिकस्य अन्यस्य वा शयने पादादिस्पर्शोऽभवत् । * एवमादयो बहवोऽतिचाराः शयनविषये स्वयमपि विचारणीयाः । * 'शयनं नाम स्वापोपयोगी संस्तारकनामक उपकरणविशेष' इति न विस्मरणीयम् । (2) द्वितीयः पदार्थः 'आसन' मस्ति । आसनं नाम उपवेशनोपयोगी काष्ठोर्णादिमय उपकरणविशेषः । तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं संभवति । Page #11 -------------------------------------------------------------------------- ________________ * भूमिमप्रमृज्यैवासनस्यास्तरणं कृतं, अविधिना वा प्रमृज्य कृतम्। * आसनस्य प्रतिलेखनं न कृतम्। * रत्नाधिकस्यान्यस्य वाऽऽसने पादादिस्पर्शोऽभवत्। * रत्नाधिकेभ्यः सकाशाद् अधिकमूल्यं आकर्षकं अधिकमृदु वा आसनं धृतम्। * कार्यार्थं आसनादुत्थाय कुत्रचिद् गत्वा, कार्यं कृत्वा पश्चादागम्यऽऽसनं उत्थाप्य निरीक्ष्य च भूमिं प्रमृज्य च पुनरासनं तत्र आस्तरणीयम्' इति विधिः। स न कृतः। एवमादयो बहवोऽतिचारा आसनविषये सम्भवन्ति। अधुना तु प्रायः सर्वत्र प्लास्टीकधातुनिर्मितं 'खुरशी' नामकं आसनं दृश्यते, तच्च सिंहासनसदृशं साधूनां अनुचितमिति बोध्यम्। ततश्च तदुपयोगोऽप्यतिचार एव। वृद्धत्वग्लानिप्रभृतिकारणवशाद् यदि तस्योपयोगोऽऽवश्यकः स्यात्, तदाऽपि रत्नाधिकस्याग्रे तदुपयोग 'उच्चासन' नामकातिचारस्य कारणमिति पुष्टालम्बने सति तथैव तदुपयोगः कर्तव्यो यथा रत्नाधिकस्याविनयो न भवेत्। तदर्थं तु यत्र रत्नाधिकस्य दृष्टिपातो न भवेत्, तत्र तदुपयोगः कर्त्तव्यः, यदा तु तत्स्थानाद् गमनागमनकाले रत्नाधिकस्य दृष्टिरापतेत्, तदा शीघ्रमभ्युत्थानं कर्त्तव्यम्। Page #12 -------------------------------------------------------------------------- ________________ एवं 'पाटनामकस्योपकरणस्यापि शेषकाले चातुर्मासे च उपयोगो वर्जनीय एव, केवलं चातुर्मासे रात्रौ स्वापायैव तदुपयोगः कर्त्तव्यः' इति। (3) तृतीयः पदार्थः 'अन्नं' अस्ति। अन्नं अत्र अशनखादिमस्वादिमरुपं बोध्यम्। तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं सम्भवति। * अन्नं अधिकमात्रया भक्षितम् । * अन्नं आधाकर्माद्यन्यतरदोषयुक्तं भक्षितम्। * अन्नं रागादिदोषेण भक्षितम्। * इष्टस्यान्नस्य प्राप्त्यर्थं अषाढाभूतिवत्कपटमाचरितम्। * अनिष्टस्यान्नस्य निन्दा गर्दा च कृता। निन्दा मनसा, गर्दा वाचा।' * अनिष्टस्यान्नस्य परिष्ठापनं कृतम्। * भोजनमंडल्यांग्लान्यादिकारणं आलम्ब्येष्टमन्नं गृहितं, अनिष्टं च निषिद्धम्। तच्च कारणं यदि वास्तविकं, तर्हि न दोषः, अन्यथा तु मायाचारः। * स्वादोत्पादनार्थं दुग्धशर्करयोः मण्डकघृतयोः स्वयं संयोजनं कृतं, अन्येन वा कारितं, केनचित्कृतं वानुमोदितम्। एवमन्येष्वपि पदार्थेषु बोध्यम्। Page #13 -------------------------------------------------------------------------- ________________ * कुत्रचित्स्थाने नमस्कारसहितायां संखड्यां इष्टमन्नं ज्ञात्वा एकाशनकं विहाय द्वयशनकं कृतम्। एवं सायंकालसंखड्यां इष्टमन्नं ज्ञात्वा तत्कालेऽन्नं भक्षितम्। तदर्थं च एकाशनकं त्यक्तम्। तदर्थं च ग्लान्यादिरुपं किमपि कपटं कृतम्। * गोचरीचर्या न कृता। उपाश्रय एव गृहस्थैः आनीतमन्नं गृहीतम्। * आसक्तिपरवशताकारणाद् भक्ष्याभक्ष्यविवेकः सचित्ताचित्तविवेकः स्वगच्छसामाचारीविवेकश्च न कृतः। अर्थाद् अभक्ष्यमपि सचित्तमपि स्वगच्छसामाचारीविपरीतमपि च गृहीतं भक्षितं च। ____ अधुना तु 'बुंदीलाडु, चुरमालाडु' इत्यादिपदार्थाः प्रायोऽभक्ष्या एव भवन्ति। एवं उपधान-संघ-तपश्चर्या प्रभृतिप्रसंगेषु या संखडि भवति, तस्यां यदि रात्रौ एव भोजनं पच्यते, तदा भृशमयतनासद्भावात्तत्र गोचरीग्रहणमनुचितमेवेति। एवं दिवससमये पाककरणेऽपि अधुना प्रायः कर्मकरा एव संखड्यां पाकं कुर्वन्ति, ते च प्रायो यतनाज्ञानरहिताः, अथवा यतनाज्ञानसत्त्वेऽपि वेतनमात्रासक्ता यतनां नैव कुर्वन्तीति तत्राऽपि प्रभूतायतनासद्भावाद् गोचरीग्रहणमनुचितमेवेति। एवमादयो बहवोऽतिचारा अन्नविषये सम्भवन्ति। 4) चतुर्थः पदार्थः ‘पानं' अस्ति। Page #14 -------------------------------------------------------------------------- ________________ पान नामाचितजलादि। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * जलं विधिपूर्वकमुत्कालितं न वा?' इति पृच्छामकृत्वैव जलं गहीतम्। यदि हि जलं उष्णमात्रं कृतं, किन्तु बुबुदा नागताः, तर्हि तन्मिश्रमेव भवति। तादृशं च जलं न कल्पते। * 'वस्त्रप्रक्षालन उष्णमात्रमपि जलं कल्पते, उत्कालिकत्रयस्यावश्यक्ता नास्ति' इति मिथ्यामतेन सम्यगनुत्कालितमपि जलं गृहीत्वा वस्त्रप्रक्षालनं कृतम्। आधाकर्मिकादिदोषदुष्टं जलं गृहीतम्। * जलानयनाय सूर्योदयात्प्रागेव घटादिप्रतिलेखनं कृतम्। * सूर्योदयात्प्राग् जलं गृहीतम्। * जलानयनाद्यर्थं तच्छीतीकरणार्थं च अहम्मदाबादादिषु निष्पन्ना आधाकर्मिकादिदोषदुष्टा मृन्मया घटा गृहीताः। * कर्मकरद्वारेण मुमुक्षुद्वारेण वा जलं उपाश्रये आनीतम्। * 'A.C, पंखा' इत्याद्याधुनिकसाधनैः जलं शीतीकृतम्। * 'वस्त्रप्रक्षालनं प्रायः आधाकर्मिकजलेनैव सम्भवति' इति ज्ञात्वाऽपि विभूषार्थं निष्ठुरतां प्रमादं । वाऽवलम्ब्य प्रतिसप्ताहं प्रतिपक्ष प्रतिमासं वा वस्त्रप्रक्षालनं कृतम्। * मलपरिषहसहनं न कृतम्। Page #15 -------------------------------------------------------------------------- ________________ * वस्त्रप्रक्षालनानन्तरं मलिनं जलमविधिना अयतनया वा परिष्ठापितम्। तत्र च पिपीलिकादयो जीवा मृताः। * जलयुक्तं लघु बादरं वा पात्रं अन्यपात्रादिना न स्थगितम्। ततश्च तस्मिन्पात्रे मक्षिकादयो जीवा पतिताः। * उत्कालितजलशीतीकरणार्थं 'परात-तास' इत्यादिनामकं भाजनं गृहीतं, तत्र च जलं शीतलीकृतम्। 'जलशीतीभवनकालं यावत् तस्मिन्जलयुक्त भाजने कोऽपि जीवो न पतेद्' इत्येतदर्थं प्रयत्नो न कृतः। * भोजनकालं मुक्त्वाऽन्यस्मिन्काले हस्तप्रक्षालनं कृतम्। * मुखपादादिशरीरावयवानां प्रक्षालनं कृतम्। * उच्चारादिषु प्रमाणातिरिक्तस्य जलस्योपयोगः कृतः। हस्तद्वयमध्ये यावज्जलं तिष्ठति, तावज्जलं चुलुकप्रमाणमुच्यते। एतादृशानि त्रीणि चुलुकानि उच्चार-शुध्दयर्थं उपयोक्तुं कल्पन्त इति हि सामाचारी। तस्याः पालनं न कृतमिति भावः। एवमादयो बहवोऽतिचाराः पानविषये सम्भवन्ति। (5) पंचमः पदार्थः 'चैत्यं' अस्ति। चैत्यं नाम जिनमंदीरं जिनप्रतिमा च। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * चैत्यप्रवेशे निसीहि' पदं निर्गमने च 'आवस्सहि' पदं नोच्चारितम्। * दीपादिप्रकाशे स्पष्टं दृश्यमानेऽपि तत्र चैत्यवन्दनादिकं कृतम्। तेन च तेजस्कायविराधना कृता। 'कम्बलं Page #16 -------------------------------------------------------------------------- ________________ प्रावृत्यापि तत्र भक्ति।चिता' इति तु मुग्धतावशान्न स्मृतम्। * सूर्यास्तमनानन्तरं चैत्ये गमनं कृतम्। * प्रतिमाप्रक्षालजलं भक्तिभावेन संगृहीतं, शिरसि चक्षुषि च धारितम्। एतादृशो द्रव्यस्तवः श्रमणानां नोचित' इति सम्यग्ज्ञानं न प्राप्तम्। प्राप्याऽपि च तदुपयोगो न कृतः। * संयमयात्रामुपेक्ष्य शजयशंखेश्वरगिरनारादितीर्थयात्रा कृता। अयं भावः, 'डोली- व्हीलचेअर' आदिनामकेन वाहनविशेषेण विहारं कृत्वा यात्रा कृता, विहारे च भिक्षादोषाः सेविताः, स्वाध्यायादिव्याघातश्च संजातः, उपध्यादिवाहकेन गृहस्थेन सह विहारकरणे महानसंयमः संजातः, असंयमसेवनेन श्रीचन्द्रप्रभस्वामितीर्थयात्रा कर्तृणां, अत एव दीर्घसंसारगामिनां महानिशीथोक्तानां एकोनपंचाशत-साधूनां दृष्टान्तो न स्मृतः। एतादृग्यात्रायां सेव्यमानानां दोषाणां पश्चात्तापो न संजातः, निष्ठुरतावशात्संयमपक्षपातोऽपि अपगतः। सम्यग्मार्गदर्शकानां तु निन्दा कृता यदुत 'तीर्थयात्रानिषेधकारिण एते स्थानकवासिसदृशा' इति। परन्तु तन्निषेधस्य तात्पर्य न ज्ञातम्। न हि यात्रानिषेधे तात्पर्यं, किन्तु यात्रायां यदि असंयमः सम्भवेत्, तर्हि तस्यैव निषेधे तात्पर्यम्' इति न ज्ञातम्। * प्रतिमास्पर्शः कृतः। * उपयोगं विनैव चैत्यवन्दनं कृतम्। Page #17 -------------------------------------------------------------------------- ________________ * सूत्रोच्चारो न शुद्धः कृतः, चैत्यवन्दने योगमुद्रादिविधिः सम्यग् न पालितः। *चैत्यवन्दनकाले प्रतिमां विनाऽन्यवस्तुनिरीक्षणे दृष्टिः पातिता। * नूतनतीर्थनिर्माणं कृतं, तदर्थं च धनराशिर्याचितः। * कस्मिंश्चिदपि तीर्थे चैत्यवासिसदृशं स्वाधिपत्यं स्थापितम्। * श्रावकेभ्यः 'स्वद्रव्येणैव जिनपूजा कार्या, अविधिश्च परिहर्तव्य' इत्यादिरुप उत्सर्गमार्गो नोपदिष्टः। * मन्दीरप्रतिमानां सुरक्षा न कारिता। एवमादयो बहवोऽतिचाराश्चैत्यविषये सम्भवन्ति। (6) षष्ठः पदार्थोः 'यतिः' अस्ति। यति म जैनमुनिः, अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * अन्धकारे जाते सति साधूनां वन्दनं कृतम्। यदि वा न कृतमेव। * कस्यचित्साधोः प्रशंसां श्रुत्वा मनसि दाहः संजातः। * साधौ विद्यमाना अपि दोषा अन्यस्याग्रे प्रकटीकृताः, निन्दाकृता इति भावः। * गच्छान्तरीयसाधूनामुन्नतिं दृष्ट्वा मात्सर्यं कृतं, तदुन्नतिनिरोधाय विचारः प्रयासश्च कृतः। अत एव तेषामसन्तोऽपि दोषाः कुतर्केण समुद्भाविताः। Page #18 -------------------------------------------------------------------------- ________________ * लघुसाधुना प्रमादाऽनाभोगवशात् काचित् क्षतिः कृता, तां दृष्ट्वा तदुपरि क्रोधः कृतः, तदपमानं च कृतम्। * रत्नाधिकस्याल्पज्ञानादिकं दृष्ट्वा तं प्रति मनसि उपेक्षाभावस्तिरस्कारभावश्च समुत्पादितः। * प्रतिलेखन-वस्त्रप्रक्षालन-गोचरीपानकादीनिवैयावृत्त्यकार्याणि न कृतानि, अविधिना वा कृतानि, अन्येभ्यो वा प्रदत्तानि, स्वकर्तव्यं न पालितं, ग्लानवृद्धबालनूतनदीक्षितादीनां कार्येषु उपेक्षा कृता। * वैरभाववशेन साधुना सहालापसंलापादिकं त्यक्तम्। * साधुना कस्मिंश्चित्प्रश्ने कृते सति सम्यक्समाधानं न दत्तम्। एवमादयो बहवो दोषा यतिविषये सम्भवन्ति। अत्र यति' पदेन साध्व्यपि सूचिताऽवगन्तव्या, तद्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * गुर्वनुज्ञामगृहीत्वैव साध्व्या सह वार्तालापः कृतः। * सूर्योदयात्प्राक् सूर्यास्तमनानन्तरं चसाध्व्या उपाश्रयप्रवेशो न निवारितः, प्रत्युत अनुमतिः प्रदत्ता। * साध्वी प्रति अनुचितभावना भाविता। * साध्वीं तुच्छस्वभावां मत्वाऽवज्ञा कृता। Page #19 -------------------------------------------------------------------------- ________________ (7) सप्तमः पदार्थः शय्या' अस्ति। शय्या नाम वसतिः, उपाश्रय इति भावः। अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * यस्मिन्गृहे गृहस्था वसन्ति, तस्मिन्निवासः कृतः। * यस्मिन्नुपाश्रये स्त्रीरुपशब्दादिसम्पर्को भवति, तत्र निवासः कृतः। * धनराशिं संगृह्य स्वोपाश्रयः क्रीतः, तत्रान्येषां संयमिनां निवासो निषिद्धः। * प्रमार्जनं न कृतं, अविधिना वा कृतं, 'उपाश्रयः शुध्दो रक्षितव्य' इति विधिः। * उपाश्रये सुखशीलतार्थं द्वारादिकारापणम्। * उपाश्रये कर्मकरद्वारा प्रमार्जनं, जलेन शुद्धिः' इत्यादिक्रियायाः कारापणम्। तत्र च कीटिकादिजीवानां सचित्तजलस्य च वधोऽवश्यमेव स्यात्। स एव च तत्र दोषः। एवमादयो बहवो दोषा उपाश्रयविषये सम्भवन्ति। (8) अष्टमः पदार्थः 'कायिका' अस्ति। कायिका नाम लघुनीतिः, लघुशंका इत्यर्थः। साधुलोके मात्रु' इतिनाम्ना प्रसिद्धा। * मात्रके कायिकां कृत्वा मुहूर्तात्प्राग् न परिष्ठापितम्। Page #20 -------------------------------------------------------------------------- ________________ * कायिकायुक्तं मात्रकं न स्थगितम्(छादितं)। * कायिकां परिष्ठाप्य मात्रकं वस्त्रादिना शुष्कं न कृतम्। * भूमिमात्रकयोर्मध्ये अंगुलचतुष्कादधिकमन्तरं कृत्वा कायिका परिष्ठापिता। * भूमौ मुहूर्तात्प्राक् कायिका शुष्का भवेत्, तथा न परिष्ठापिता। * सायंकाले कायिकापरिष्ठापनभूमिः सम्यग्न निरीक्षिता। * कायिकापरिष्ठापनानन्तरं ईर्यापथिकीक्रिया न कृता, अविधिना वा कृता। सर्वाऽपि क्रिया अप्रमत्तेनैव कर्तव्या, न तु उपवेशनादिप्रमादेन, किन्तु प्रमादः कृतः। एवमादयो बहवोऽतिचाराः कायिकाविषये सम्भवन्ति। इदमत्र बोध्यम्। कायिकापरिष्ठापनं कुर्वन्तं साधुं दृष्ट्वा यदि गृहस्थानां जुगुप्सा भवेत्, यथा धिग् नीचकुलोचितं कार्यं कुर्वत एतान् साध्वधमान्' इति तदा ते दुर्लभबोधीभवन्ति। तन्निमत्तीभूताश्च साधवोऽपि मिथ्यात्वं भजन्ति, तस्मात् केषामपि जुगुप्सा न भवेत्, शासनस्य अपभ्राजना न भवेत्, तथैव कायिका परिष्ठापनीया। शासनहीलनानिवारणार्थ सेव्यमानाः केऽपि दोषाः परमार्थतो न दोषा इति कदापि न विस्मरणीयम्। प्रत्युत अन्यदोषाणां निवारणे यदिशासनहीलना स्यात्, तर्हि महान् संसारो भवेदिति। Page #21 -------------------------------------------------------------------------- ________________ (9) नवमः पदार्थः 'उच्चारो'ऽस्ति। उच्चारो नाम मलः, वडीनीति' इति तस्य अन्यन्नाम। तस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * उच्चारे कृमयो निर्गताः, तासां च मुहूर्तं यावद् यतना न कृता। यतना नाम आतपात्तासां रक्षणम्। * सचित्ततृणादौ उच्चारः परिष्ठापितः। * 'वाडो' इति नाम्ना प्रसिद्धस्थान उच्चारः परिष्ठापितः। * 'संडास' इति नाम्ना प्रसिध्दे प्रचुरजीवहिंसास्थान उच्चारः परिष्ठापितः। * सम्यग्ज्ञानाभावात्तथा परिष्ठापितं, यथा महती शासनहीलना समुद्भूता। * ग्लानादीनां उच्चारपरिष्ठापने प्रमादो जुगुप्सा वा कृता। * अन्यसाधूनामुच्चारं दृष्ट्वा जुगुप्सा कृता, तद्गन्धेन वा जुगुप्सा कृता। एवमादयो बहवोऽतिचारा उच्चारविषये सम्भवन्ति। (10) दशमः पदार्थः ‘समिति' रस्ति। समितिः पंचप्रकाराऽस्ति, तथाहि- 1 ईर्यासमितिः, 2 भाषासमितिः, 3 एषणासमितिः, 4 आदानभाण्डमाऋनिक्षेपणासमितिः, 5.पारिष्ठापनिका समितिश्च। Page #22 -------------------------------------------------------------------------- ________________ आसां स्वरूपमुत्तराध्ययनयोगशास्त्रप्रभृतिग्रन्थेभ्योऽवसेयम् । तथाऽपि संक्षेपेणात्र तासां स्वरुपं प्रतिपाद्यते । - रविप्रकाशयुक्ते मार्गेऽधो दृष्ट्वा गमनमिर्यासमितिः । - प्रियं हितकारि सत्यं च वचनं भाषासमितिः । - द्विचत्वारिंशद् दोषरहिता भिक्षा एषणासमितिः । कस्यापि वस्तुन: चक्षुषा प्रतिलेख्य रजोहरणादिना प्रमार्ण्य च ग्रहणं मोचनं च आदानभाण्डमात्रकनिक्षेपणासमितिः । - कायिकोच्चारादीनामशुचीनां निर्दोषभूमौ परित्यजनं पारिष्ठापनिकासमितिः। - अस्यां समितौ अनेन प्रकारेण बहवो दोषाः सम्भवन्ति । * रविप्रकाशात्पूर्वं विहारः कृतः । * दिवसेऽपि उपाश्रये तमोयुक्ते तथाविधे स्थाने दंडासनेन प्रमार्जनमकृत्वैव गमनादिकं कृतम्। * रात्रौ दंडासनस्योपयोगमकृत्वैव अविधिना वोपयोगं कृत्वा गमनादिकं कृतम्। * विहारे परस्परं आलापसंलापविकथादयो दोषाः सेविताः । Page #23 -------------------------------------------------------------------------- ________________ * मुखवस्त्रिकां विनैव भाषणं कृतम् । * सत्यमपि क्रोधादिना भाषितम् । * संसारकार्याणि ज्योतिषादिविज्ञानेन प्रदर्शितानि । * आधाकर्मादयो भिक्षादोषाः सेविताः । * कस्यापि वस्तुनो ग्रहणे मोचने वा चक्षुषा प्रतिलेखनं रजोहरणादिना प्रमार्जनं च न कृतं, अविधिना वा कृतम्। * कर्णगतो नासिकागतश्चक्षुर्गतो मुखगतो नाभिगतोऽन्यो वा कोऽपि शरीरमलो यत्र तत्र परिष्ठापितः, रक्षादिषु न मिश्रितः । एवमादयो बहवोऽतिचाराः समितिविषये सम्भवन्ति। (11) एकादशः पदार्थः 'भावना' ऽस्ति । मनसा सम्यग्भावानां चिन्तनं नाम भावना । सा चानेकप्रकारेण प्रतिपाद्यते । तथाहि - भावना द्वादशप्रकाराऽस्ति- 1. अनित्यत्वस्य, 2. अशरणस्य, 3. संसारस्य, 4. एकत्वस्य, 5. अन्यत्वस्य, 6. अशौचस्य, 7. आश्रवस्य, 8. संवस्य, 9. लोकस्य 10. बोधिदुर्लभत्वस्य, 11. तपसः, 12. धर्मस्य च भावना । Page #24 -------------------------------------------------------------------------- ________________ तथा भावना चतुष्प्रकाराऽप्यस्ति - 1. मैत्रीभावना, 2. प्रमोदभावना, 3. करुणाभावना, 4. माध्यस्थ्य भावना तथा भावना पंचविंशतिप्रकाराऽपि अस्ति । तथाहि - महाव्रतानि पंच सन्ति । प्रत्येकं पंच पंच भावनाः सन्ति। तत्र द्वादशभावनानां चतुर्भावनानां च स्वरुपं शान्तसुधारसग्रंथतोऽवसेयम् । पंचविंशतिभावनास्वरुपं योगशास्त्रादिग्रन्थेभ्योऽवसेयम् । अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति । * भावना उचितकाले सम्यक्प्रकारेण न भाविताः । च। (12) द्वादशः पदार्थः 'गुप्ति' रस्ति । गुप्तिर्नाम अशुभानां मनोवाक्काययोगानां निरोधः, शुभानां योगानां निरोधः, कारणे सति शुभानां योगानां प्रवर्तनं चेति । अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति । * कारणं विना मनोवाक्कायानां काऽपि प्रवृत्तिः कृता । * कारणे सति अपि उचिता प्रवृतिर्न कृता । Page #25 -------------------------------------------------------------------------- ________________ * साधुना उच्चारभूमिगमनमार्गः पृष्टः, किन्तु मम मौनमस्ति' इति विचिन्त्य उत्तरं न दत्तम्। * ग्लानादीनां औषध्यानयनादिकं अत्यावश्यकं कार्यं समापतितं, तच्च शीघ्रं करणीयं, किन्तु नामस्तवशतकायोत्सर्गात्मकं कायनिरोधं कृत्वा तत्कार्यं न कृतम्। एवमादयो बहवोऽतिचारा गुप्तिविषये सम्भवन्ति। एवं तावदेषा 'सयणासणन्न' गाथा संक्षेपतो व्याख्याता। प्रश्नः ‘अतिचारः' शब्दस्य कोऽर्थः? । उत्तरः संज्वलनकषायोदयाद् विपरीतं वर्तनमतिचारः। अत्र संज्वलनोदयो निश्चयतोऽतिचारः, विपरीतं वर्तनं व्यवहारतोऽतिचारः। यदा केवलं संज्वलनोदयो भवति, किन्तु विपरीतमाचरणं न भवति, तदाऽतिचारस्य व्यवहारो न क्रियते, यदुत अनेनातिचारः सेवित' इति। यदा तुग्लान्यादिकारणवशात् स्थापनादिदोषदुष्टभिक्षारुपं विपरीतमाचरणं भवति, संज्वलनोदयश्च न भवति, तदा यद्यपि तत्र अतिचारस्य व्यवहारः क्रियते यदुत अनेनातिचारः सेवितः, स्थापनादोषः सेवित' इति, परन्तु स व्यवहारः पारमार्थिको न गण्यते। यस्मान्निश्चययुक्त एव व्यवहारः शुद्धव्यवहारः, निश्चयरहितस्त, व्यवहारोऽशद्धव्यवहारः। यदा तु प्रमादस्य जनकः संज्वलनोदयोऽप्यस्ति, तेन कारणेन स्थापनादिदोषसेवनमप्यस्ति, तदा योऽतिचारस्य Page #26 -------------------------------------------------------------------------- ________________ व्यवहारः क्रियते यदुत 'अनेन स्थापनादोषः सेवित' इत्यादि, स शुद्धो व्यवहारः, यस्मात् तत्र निश्चययुक्तो व्यवहारोऽस्ति। प्रश्नः यदा केवलं संज्वलनोदयो भवति, विपरीतमाचरणं न भवति, अर्थात् केवलं मनोदोषो विद्यते, न तु वचःकायदोषः, तदा किं कर्मबन्धो भवति न वा? उत्तरंः अवश्यं भवति, यस्मात्कर्मबन्धोऽध्यवसायाधीन एव, न तु बाह्यक्रियाधीन इति। प्रश्नः यदा संज्वलनोदयो न भवति, केवलं विपरीतमाचरणं भवति तदा यदि तद् अतिचारो न गण्यते, तर्हि किंगण्यते? उत्तरः अपवादो गण्यते। 'पुष्टकारणवशाद् यतनापूर्वकं उत्सर्गविपरीतमाचरणं हि अपवाद' इति अपवादव्याख्या। ग्लान्यादिकं पुष्टकारणं, तत्र आधाकर्मिकादीनां महतां दोषानामनासेवनं स्थापनादिरुपस्याल्पस्यैव दोषस्य सेवनं यतना, निर्दोषभिक्षात्मकस्योत्सर्गस्य त्यागं कृत्वा तद् विपरीतं स्थापनादोषाचरणं उत्सर्गविपरीतमाचरणम्' इति अयमपवादो भवति। प्रश्नः अत्रापवादे कर्मबन्धो भवति न वा? उत्तरं : न भवति, यस्मात्पापकर्मबन्धोऽशुभभावाधीनः, अत्र तु अशुभभावो नास्ति। Page #27 -------------------------------------------------------------------------- ________________ प्रमादादिरुपोऽशुभभावो हि संज्वलनोदयेन भवति, स उदयोऽत्र नास्ति। प्रश्नः यदि अपवादे कर्मबन्धो न भवति, तर्हि अपवादस्य गुरुसमीपे आलोचना करणीया न वा? उत्तरः करणीयैव, यद्यपि संज्वलनोदयस्याभावाद् अतिचारो नास्ति, तथाऽपि अनाभोगप्रभृतिकारणवशात् सूक्ष्मोऽपि दोषस्तत्र भवति, तर्हि तन्निवारणार्थं आलोचनैव औषधम्। ___अयं भावः-संज्वलनोदये तु दोषः स्फुट एव यदुत 'मम रागादिभावः संजातः, ततश्च तत्र तु आलोचना कर्तव्यैव। परन्तु पुष्टकारणवशाद् यतनापूर्वकं दोषस्य सेवने यद्यपि निश्चयदोषः स्फुटो नास्त्येव, तथाऽपि तत्र संभावना विद्यते यदुत अनाभोगवशात् स्पष्टमज्ञायमानः सूक्ष्मो निश्चयदोषस्तत्र समुद्भूतो भवेत्।' ततश्च तस्यापि निवारणार्थं आलोचना कर्तव्यैव भवति। 'मम रागादिदोषः संजात' इति अनुभवकाले तु संज्वलनोदयस्य निश्चयं कृत्वा स्फुटदोषनिवारणार्थं आलोचना क्रियते। 'मम रागादिदोषः संजात' इति अनुभवाभावकाले तु छद्मस्थताजन्यस्य संज्वलनोदयस्य संभावनामात्रं कृत्वाऽस्फुट-दोषनिवारणार्थं आलोचना क्रियते-इति निष्कर्षः। प्रश्नः केवलं संज्वलनोदयो भवेत्, न तू विपरीतमाचरणं तदा किं आलोचना करणीया न वा? Page #28 -------------------------------------------------------------------------- ________________ उत्तरंः अर्थात् केवलं रागादिरुपो मनोदोषोऽस्ति, न तु वाचिकः कायिको वा, तत्रापि अवश्यमालोचना करणीयैव। यस्मात्तत्र कर्मबन्धो भवत्येव, तत्क्षयार्थं च आलोचनैव प्रायश्चित्तम्। प्रश्नः द्वयोः साधोः संज्वलनोदयः समानः, परन्तु एकेन स्थापनादिरुपो बाह्यदोषः सेवितः, एकेन तु न। तत्र किं द्वयोः कर्मबन्धः समानो न वा ? । उत्तरंः यदि द्वयोः सर्वथा समान एव संज्वलनोदयः, तर्हि द्वयोः कर्मबन्धः समान एव। यथाहि पंचेन्द्रियवधादिबाह्यदोषसहितस्य तीव्ररोद्रध्यानवतः सप्तमीनरकायुर्बन्धो भवति, तथैव तादृशबाह्यदोषरहितस्यापि तीव्ररौद्रध्यानवतः तन्दुलमत्स्यादेः सप्तमीनरकायुर्बन्धो भवत्येव। प्रश्नः तर्हि किं द्वयोः प्रायश्चितं समानमेव? न वा? उत्तरः प्रायश्चितं तु विषमं भवति। बाह्यदोषरहितस्य संज्वलनोदयवत आलोचनैव प्रायश्चित्तं, स्थापनादिबाह्यदोषसहितस्य संज्वलनोदयवत आलोचना, यथोचितं तपःप्रभृतिकं च प्रायश्चित्तम्। प्रश्नः यदि द्वयोः कर्मबन्धः समानः, तर्हि एकस्य कर्म आलोचनामात्रेण कथं विनाशमाप्नुयात् ? यस्माद् द्वितीयस्य तु कर्म आलोचनया तपसा च विनाशमाप्नोति।। उत्तरंः यथा कर्मबन्धे भाव एव कारणं, तथैव कर्मक्षयेऽपि भाव एव कारणम्। आलोचनातपःप्रभृतिकं तु तत्र गौणम्। तद्धि व्यवहारत एव कारणमुच्यते। तथा च 'जिनाज्ञया गुर्वाज्ञया चालोचना मया कर्तव्या, येन मम कर्मक्षयः Page #29 -------------------------------------------------------------------------- ________________ स्याद्' इति शुभभाववतस्तपःप्रभृतिकं विनाऽपि कर्मक्षयो भवत्येव। एवं जिनाज्ञया गुर्वाज्ञया चालोचना तपश्च द्वे अपि मया करणीये' इति शुभभाववतः ताभ्यां द्वाभ्यां कर्मक्षयो भवत्येव। प्रश्नः बाह्यदोषरहितस्य केवलं संज्वलनोदयवतः तपःप्रायश्चित्तं किमर्थं न दीयते? उत्तरः संज्वलनोदयो दिवसमध्येऽवश्यमनेकशो भवत्येव, तत्प्रायश्चित्तं सम्पूर्णेनाऽपि जीवनेन कर्तुमशक्यमेव स्यात्। ततश्च तस्य अकरणस्य मनसि उद्वेगः स्याद् यदत 'अहो मम प्रायश्चित्तं न संपूर्ण संजातं, अतो मम पापानां क्षयोऽपि न संजात' इति। एवं चोत्साहभङ्गो भवति। तस्मात् संज्वलनोदयमात्रस्य प्रायश्चित्तं आलोचनैव दीयते, न तु तपः, अशक्यत्वात्। प्रश्नः एवं बाह्यदोषसहितस्यापि संज्वलनोदयवतः तपःप्रायश्चित्तं न दातव्यं, द्वयो:समानं एव प्रायश्चित्तं दातव्यम्। उत्तरंः संज्वलनोदयो दिवसमध्येऽनेकशो भवन्निरोद्धमशक्य एव, किन्तु बाह्यदोषस्तु निरोधुं शक्य एव। यदि बाह्यदोषवतः तपःप्रायश्चित्तं न दीयेत, तर्हि क्रमशः स बाह्यदोषसेवने निष्ठुर एव भवेत्। तस्मात्स अनेकशो बाह्यदोषमपि सेवेत। तन्निरोधार्थं तस्य तपःप्रायश्चित्तदानं युक्तं, येन स शक्यं बाह्यदोषनिरोधं कुर्यात्। तथा चायं सारः संज्वलनोदयोऽनेकशो भवन्निरोधुमशक्य एव, ततश्च तस्य तपःप्रायश्चित्तमपि तावदापद्येत्त, Page #30 -------------------------------------------------------------------------- ________________ यावत्प्रायश्चित्तं वोढुमशक्यमेव, ततश्चाशक्यं तन्न दीयेत। किन्तु बाह्यदोषोऽनेकशो भवन्निरोधुं शक्य एव, ततश्च यदि तस्य तपःप्रायश्चित्तं न दीयेत, तर्हि अनेकशो भवन्तं निरोधुं शक्यमपि बाह्यदोषं स प्रमादनिष्ठुरतादिपरवशो भूत्वा न सिन्ध्यात्। यदि तु तपः प्रायश्चित्तं दीयेत, तर्हि स वोढुं शक्यं तत्प्रायश्चित्तं कुर्यात्, तत्करणे च निष्ठुरतादिदोषप्राप्त्यभावात् स अनेकशो भवन्तं निरोधुं शक्यं बाह्यदोषं निरुन्ध्यादेवेति। तस्मात् तपःप्रायश्चित्तदान एष भेदः कृत इति। प्रश्नः बाह्यदोषरहितस्य संज्वलनोदयवतः तपःप्रायश्चित्तं नैव दीयत इति किं एकान्तोऽस्ति? उत्तरं : एकान्तो नास्ति। गीतार्थगुरुः शिष्यस्य भूमिका परीक्ष्य कदाचित् संज्वलनोदयमात्रेऽपि तपःप्रायश्चित्तं प्रयच्छति। तत्र कारणानि त्विमानि। 1. यदि मन्दवैराग्यवान् शिष्यो भवेत्, तर्हि तपोऽभावे बाह्यदोषानपि सेवितुमारभे, तन्निवारणार्थ गीतार्थगुरुः तपो दद्यात्। ___ 2. यदि अधिकवैराग्यवत अगीतार्थस्य शिष्यस्य आलोचनामात्रेण सन्तोषो न भवेत्, तर्हि गुरुः तत्सन्तोषार्थमपि तपो दद्यात्। 3.यदि अन्येऽपि साधवस्तस्य शिष्यस्य संज्वलनोदयमानं जानन्ति, तर्हि तस्यालोचनामात्रस्य प्रायश्चित्तस्य दाने संज्वलनोदयस्य भयं अन्यसाधुभ्योऽपगच्छेत्, ततश्च ते निष्ठुरा भवेयुः। तन्निवारणार्थं संज्वलनोदयमात्रस्यापि Page #31 -------------------------------------------------------------------------- ________________ तपःप्रायश्यित्तं गीतार्थगुरुः दद्यात्। एवं चायमत्र सारः, अपवादमार्गे तपःप्रायश्चित्तं न भवति, संज्वलनोदयाभावात्। बाह्यदोषरहितस्य संज्वलनोदयमात्ररुपस्य मनोदोषस्याऽपि तपःप्रायश्चित्तं न भवति, तपःप्रायश्चित्तकरणस्याशक्यत्वात्। उभयत्रालोचना तु अस्त्येव, तथोभयत्र गीतार्थगुरुः कारणवशात् तपःप्रायश्चित्तमपि दद्यादिति । प्रश्नः संज्वलनोदयस्तु दशमगुणस्थानं यावद् भवत्येव, तर्हि किं दशमगुणस्थानं यावद् अतिचारो भवति? उत्तरंः न भवति। यदि भवेत्, तर्हि प्रतिसमयं संज्वलनोदयस्य सद्भावात् प्रतिसमयं अतिचारो भवेत्। तथा च दशमगुणस्थानं यावत् सर्वेऽपि साधवः सातिचारा एव भवेयुः, न तु निरतिचाराः। एवं च सति तीर्थकरा अपि छद्मस्थकाले साधुदशायां सातिचारा एव मन्तव्या भवेयुः, न चैतदुचितम्। प्रश्नः तर्हि संज्वलनोदयादतिचारो भवति' इति अस्य किं रहस्यम् ? शास्त्रपाठस्तु अयमेव यदुत सव्वे वि य अइयारा संजलणाणं उदयओ हुँति' इति। अस्यायमर्थो यदुत सर्वेऽपि चातिचाराः संज्वलनानामुदयाद् भवन्ति। उत्तरः संज्वलनानामेवोदयाद् अतिचारा भवन्ति' इति सत्यम्। परन्तु 'संज्वलनाना उदयाद् अतिचारा भवन्त्येव' इति तु न मन्तव्यम्।। सामान्यरागद्वेषजनकात् संज्वलनोदयाद् अतिचारा न भवन्ति, विशिष्टरागद्वेषजनकात् संज्वलनोदयाद् अतिचारा भवन्ति। Page #32 -------------------------------------------------------------------------- ________________ 'यः संज्वलनोदयोऽशुभं रागद्वेषं जनयति, तत्संज्वलनोदयाद् अतिचारा गण्यन्ते। यः संज्वलनोदयः शुभं रागद्वेषं जनयति, तत्संज्वलनोदयाद् अतिचारा न गण्यन्ते' इति संक्षेपार्थः। प्रभुभक्तौ गुरुवैयावच्चे शासनप्रभावनायां चैवमादिषु कार्येषु शुभौ रागद्वेषौ भवतः, ततश्च तत्र संज्वलनोदयादतिचारा न गण्यन्ते। अधिकनिद्रायां मिष्टान्नादिभक्षणे विकथायां चैवमादिषु कार्येषु अशुभौ रागद्वेषौ भवतः, ततश्च तत्र संज्वलनोदयादतिचारा गण्यन्ते। प्रश्नः अतिचारे सति चारित्रं विद्यते न वा? अर्थात् षष्ठं गुणस्थानं विद्यते न वा? उत्तरः अतिचारो हि संज्वलनोदयादेव भवति, न त्वन्यकषायोदयात्। संज्वलनोदये चावश्यं षष्ठादिगुणस्थानमेव भवति, न तु तदधो गुणस्थानानि। प्रश्नः संज्वलनभिन्नानां कषायाणां उदयः संजात' इति तु कथं ज्ञायते? उत्तरः परमार्थतो विशिष्टज्ञानिन एव जानन्ति यदुत ‘अस्यानन्तानुबन्ध्यादिकषायस्योदयो जातः, अस्य च संज्वलनस्य' इत्यादि। किन्तु व्यवहारतश्छद्मस्था अपि साधवः शास्त्रानुसारेण जानन्ति। तथाहि- यदि मूलगुणभंगो भवेत्, तर्हि ज्ञायेत यदुत संज्वलनभिन्नानां कषायाणामुदयो जातः'। यदि तूत्तरगुणभंगो भवेत्, तर्हि ज्ञायेत यदुत 'संज्वलनोदयो जातः । तत्राऽपि यदि निष्ठुरता दृश्येत, तर्हि संज्वलनभिन्नानामेवोदयोऽनुमीयते। Page #33 -------------------------------------------------------------------------- ________________ प्रश्नः शास्त्रे तु अतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारश्चेति चत्वारो भेदा दृश्यन्ते । अत्र गाथायान्तु अतिचार एव किमर्थं गृहीतः ? उत्तरः अत्र द्वे विवक्षे स्तः, अतिक्रमादीनां चतुर्णां भेदानां निरुपणमेका विवक्षा, अतिचारानाचारयोः द्वयोर्निरुपणं द्वितीया विवक्षा । तत्र प्रथमविवक्षायां 'केन प्रकारेण दोषा वर्धन्ते ?' इति प्रतिपाद्यते । द्वितीयविवक्षायान्तु 'साधुता विद्यते न वा ? ' इति निर्णयप्रतिपादनम्। तथाहि-केनचिद् गृहस्थेनाधाकर्मनिमन्त्रणं कृतम् । तच्च साधुना स्वीकृतमिति अयं अतिक्रमः । तदनु आधाकर्मग्रहणाय पात्रकादिग्रहणं, गमनं, आधाकर्मग्रहणोत्सुक्तेति च व्यतिक्रमः । तदनु पात्र ग्रहणं, उपाश्रये प्रत्यागमनं, आधाकर्मभक्षणायोपवेशनमित्यादि चातिचारः । तदनु आधाकर्मभक्षणमनाचार इति । अत्र 'दोषवृद्धिः केन प्रकारेण भवति ?' इति स्पष्टं ज्ञायते । अत्र च विवक्षायां अतिक्रमव्यतिक्रमातिचारेषु न प्रायश्चित्तं, अनाचार एव च प्रायश्चित्तम् । यथा ऽऽधाकर्मात्मके उत्तरगुणेऽतिक्रमादिचतुष्कं प्रतिपादितं, तथैव हिंसादिषु मूलगुणेष्वपि तत्प्रतिपादनीयम्। शीतापनोदाय वह्निकरणशिक्षा केनचित्प्रदत्ता, तत्र च तथा करिष्यामि इति स्वीकृतं, अयं चातिक्रमः । तदर्थं काष्ठाद्यानयनस्य गमनं व्यतिक्रमः । काष्ठाद्यानीयैकत्र स्थापनं अतिचारः । काष्ठादिज्वालनमनाचारः । Page #34 -------------------------------------------------------------------------- ________________ अत्र उत्तरगुणेषु मूलगुणेषु वाऽतिचारं यावन्न प्रायश्चित्तव्यवहारः, अनाचार एव प्रायश्चित्तव्यवहारः। तत्राऽपि उत्तरगुणेऽनाचारो न चारित्रं हन्ति, केवलं मलिनीकरोति। मूलगुणेऽनाचारश्चारित्रं हन्ति। द्वितीयविवक्षायां यौ अतिचारानाचारौ, तयोर्मध्ये यद्यतिचारो भवेत्, तर्हि चारित्रं मलिनीभवति, यदि चानाचारो भवति, तर्हि चारित्रं विनश्यति। प्रथमविवक्षानुसारेणोत्तरगुणे योऽनाचारः, स द्वितीयविवक्षानुसारेणातिचार एव। अर्थाद् आधाकर्मभक्षणं प्रथमविवक्षायामानाचारः, तदेव च द्वितीय विवक्षायामतिचारः, चारित्रमलिनीकरणात्। प्रथमविवक्षानुसारेण मूलगुणे येऽतिक्रमव्यतिक्रमातिचाराः, ते सर्वेऽपि द्वितीयविवक्षानुसारेणातिचार एव, अर्थाद वह्निकरणस्वीकरणं, तदर्थं गमनं, काष्ठादिस्थापनं चेति अतिचार एव, चारित्रमलिनीकरणात्। प्रथमविवक्षानुसारेण मूलगुणे योऽनाचारः, स द्वितीयविवक्षानुसारेणानाचार एव, अर्थाद् वह्निप्रज्वालनमनाचार एव, चारित्रविनाशकरणात्। एवं तावत्संक्षेपत उक्तम्। प्रश्नः ‘सयणासणन्न' इति गाथायां अतिचारस्यैवोल्लेखः कृतः, तत्किं अतिचारस्यैवालोचना कर्त्तव्या? अनाचारस्य न कर्त्तव्या? उत्तरं अनाचारस्यापि आलोचना कर्त्तव्या। यदिवाऽनाचारोऽप्यतिचार एव, केवलं एतावान्भेदो यदुत Page #35 -------------------------------------------------------------------------- ________________ चारित्रस्य मलिनतायाः कारणीभूतोऽतिचारोऽतिचार एव, चारित्रस्य विनाशस्य कारणीभूतो ऽतिचारोऽनाचार इति । ततश्च गाथोक्तेन ‘अतिचार'पदेन अतिचारानाचारौ द्वौ अपि गृह्यते । प्रश्नः आलोचनायाः किं फलम् ? उत्तर : अतिचारात्मकस्यातिचारस्यालोचनया मलिनं चारित्रं पुनः निर्मलं भवति, अनाचारात्मकस्यातिचारस्यालोचनया तु विनष्टं चारित्रं पुनरुज्जीवतीति फलमिति दिक्। अधिकं तु संविग्नगीतार्थगुरुसमर्पणेन ज्ञातव्यम्। ॥ अतिचारगाथाविवरणं सम्पूर्णम् ।। यदीयसम्यकत्वबलात्प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ।। ॥ नमोऽस्तु तस्मै जिनशासनाय ॥ Page #36 -------------------------------------------------------------------------- ________________ ॥ अहँ नमः॥ ॥ नमोऽस्तु तस्मै जिनशासनाय।। ॥ रात्रिक-अतिचारसूत्ररहस्यम् । प रात्रावासेवितं पापं, क्षालनीयं मनीषिभिः। शुद्धिरेव हि धर्मस्य, प्राणभूता यतः खलु।। Page #37 -------------------------------------------------------------------------- ________________ संथारा उलट्टणकी, परिअट्टणकी, आउंटणकी पसारणकी, छप्पइयसंघट्टणकी, अचक्युविषय हुओ। संथारो उत्तरपट्टो टलतो अधिको उपकरण वावों। शरीर अणपडिलेडं हलाव्युं। मानु अणपूंज्यु लीधुं, अणपूंजी भूमिका परठव्यु। परठवता अणुजाणह जस्सुग्गहो न कीधो, परठव्या पुंठे वार त्रण बोसिरे वोसिरे न कीर्छ। संथारा पोरिसी भणाव्या विना सूता। कुस्वप्न लाध्यु, सपनान्तरमांहि शियल तणी विराधना हुइ। मन आहट्ट दोहट्ट चिंतव्यु। संकल्प विकल्प कीघो। रात्रिसंबंधी जे कोई अतिचार लाग्यो होय, ते सवि हुँ मन-वचन-काया करी मिच्छामि दुक्कडं। साम्प्रतं इदमतिचारसूत्रमुच्चार्यते। तत्र संथारा उव्वट्टणकी' इत्यस्मात्पदादारभ्य 'छप्पइयसंघट्टणकी' इति पदं यावत् प्राकृता भाषाऽस्ति। 'अचक्खुविषय' इत्यादि सर्वं तु गुर्जरभाषानिबद्धमस्ति। धर्मसंग्रहग्रन्थे तु अस्मिन्सूत्रे कियद्भेदोऽस्ति। तथाहि-तत्र 'संथारा उव्वट्टण किअ, परिअट्टण किअ, आउंटण किअ, पसारण किअ, संघट्टण किअ', इत्येतादृशः पाठो विद्यते। अर्थात् 'उव्वट्टणकी' इति नास्ति, किन्तु उवट्टण किअ' इत्यस्ति। तट्टीकायामपि 'उद्वर्तना कृता' इत्याद्येव लिखितमस्ति। अर्थात् किअपदस्य कृता' इत्यर्थः कृतोऽस्ति। तथा धर्मसंग्रहटीकायान्तु लिखितं यदुत अचक्खुविषय हुओ' इत्येतावत्पर्यन्तं दण्डकसूत्रमुक्त्वा सव्वस्स वि Page #38 -------------------------------------------------------------------------- ________________ राइअ' इत्यादि दण्डकसूत्रं पठनीयम्' इति। तेन च ज्ञायते यदुत तत्काले 'अचक्खुविसय हुओ' इत्येतत्पर्यन्तमेव रात्रिकातिचारसूत्रमासीत्। ततश्च साम्प्रतं यदधिकं दृश्यते, तत्सर्वं संविग्नगीतार्थसमाचीर्णं लक्ष्यते। तथा वर्तमानकाले यानि विभिन्नानि श्रमणोपयोगिआवश्यकसूत्रसमन्वितानि पुस्तकानि दृश्यन्ते, तेष्वपि न समानः पाठ उपलभ्यते। यस्मात् कुत्रचित् 'सुहने स्वप्नान्तर...' इत्यादिकमस्ति, कुत्रचिच्च 'सुहने' इति पदं नास्ति। कुत्रचिद् 'न कीधु' पाठोऽस्ति, कुत्रचिच्च कीधु नहीं' इति पाठोऽस्ति। यद्यपि अमुकेषु पाठभेदेषु अर्थभेदो नानुभूयते, तथापि यदि आवश्यकादिसूत्राणां पाठाभेदो भवेत्, तर्हि सुष्ठ एव। यतः पाठभेदे सति कः पाठः सत्यः?' इति शङ्का, परस्परं संक्लेश इत्यादीनां दोषाणां संभवः। परन्तु यदि पाठस्याभेदः कर्तुं न शक्येत, तर्हि एकतरं पाठं गृहीत्वाऽर्थकरणं अनिवार्यम्। ततश्चात्र यः पाठः समादृतः तस्मादन्यपाठं दृष्ट्वा व्यामोहो न कार्यः। स्वसामाचारीगृहीत एव पाठः समादरणीय इति प्रस्तावना। अधुना रात्रिकातिचारपदानां भावार्थः प्रतिपाद्यते। 'संथारा उबट्टणकी' इति। रात्रौ संस्तारके उद्वर्तना कृता। उद्वर्तना नाम एकपाश्र्वात्पाश्र्वान्तरे भवनम्। दक्षिणपाद्विामपार्वे वामपादिवा दक्षिणपार्वे भवनमिति। 'परिअट्टणकी' इति। संस्तारक एव उद्वर्तनां कृत्वा पुनः मूलपार्वे भवनं परिवर्तना। यदि तत्पश्चात् पुनः मूलपात्पिाश्र्वान्तरे भवनं स्यात्, पाश्र्वान्तराच्च पुनः मूलपार्वे भवनं स्यात्, तर्हि तत्सर्वं परिवर्तनवोच्यते। Page #39 -------------------------------------------------------------------------- ________________ प्रथमं पार्श्वपरिवर्तनं उद्वर्तनं, तत्पश्चाद् यानि पार्श्वपरिवर्तनानि तानि सर्वाणि परिवर्तनेति गर्भार्थः । 'आउंटणकी' इति। संस्तारक एव शीतादिकारणवशात्पादादीनां संकोचनं आकुंचनम्। 'पसारणकी' इति। संस्तारक एव संकोचनजन्यायाः प्रतिकूलताया निवारणार्थं पादादीनां विकास करणं प्रसारणम्। 'छप्पइयसंघट्टणकी' इति। वस्त्रमस्तकत्वचादिषु जायमानानां षट्पदिकानामकजन्तुविशेषाणां संघट्टनमिति। एतदपि संस्तारक एवावगन्तव्यम्। प्रश्नः षट्पदिकासंघट्टनं दोष इति तु स्पष्टमेव, परन्तु उद्वर्तना, परिवर्तना, आकुंचनं, प्रसारणं चेति चत्वारि किमर्थं दुष्टानि ? जीवविराधनाऽभावात्। उत्तरः सत्यं, यदि तानि उद्वर्तनादीनि प्रमार्जनादिरूपं विधिं विनैव क्रियते, तर्हि तानि दुष्टानि, अविध जीवविराधनायाः संभवात्। प्रश्नः अविधौ क्रियामणेऽपि जीवविराधना यदि न स्यात्, तर्हि को दोषः ? तदाऽपि उत्तरः प्रमाद एव महान् दोषः। अत एव विधौ क्रियमाणे यदि केनचित्कारणेन जीवविराधना स्यात्, 'अप्रमाद' इति कृत्वा न कोऽपि दोषः । किंच संलीनतारुपस्य तपस आराधनार्थं उद्वर्तनापरिवर्तनादीनि त्याज्यान्येव ततश्चाप्रमादमार्गप्रवृत्तानां Page #40 -------------------------------------------------------------------------- ________________ साधूनां विधिना उद्वर्तनादीन्यपि सूक्ष्मप्रमादरुपाण्येव। ततश्चोद्वर्तनादीनि दुष्टानि। संलीनता नामांगोपांगानां सङ्कोचनम्। यथावस्थितं धरणमिति भावः। प्रश्नः संस्तारक उद्वर्तनादिषु क्रियमाणेषु यत् षट्पदिकानां संघट्टनं कृतं तदेव दोषः, इति अर्थः किं न क्रियते? किमर्थं उद्वर्तनादीनां स्वतन्त्रदोषत्वं इष्यते? उत्तरं : धर्मसंग्रहे महोपाध्यायमानविजयैः उद्वर्तनादीनि स्वतन्त्रदोषरूपाणि गृहीतानि, तस्माद् अस्माभिरपि तथैव कृतम्। एवं रात्रिकातिचारगतानि प्राकृतपदानि विवृत्याधुना गुर्जरभाषापदानि विव्रीयते। 'अचक्युविषय हुओ' इति। चक्षुरदृष्टे स्थाने प्रश्रवणं (मात्रु) कृतम्। प्रश्नः रात्रौ चक्षुषा स्थानं न दृश्यत एव, तत्रास्माकं को दोषः? नास्माकमत्र विषये प्रमादः। उत्तरंः सत्यम्। रात्रौ यस्मिन्स्थाने कायिका) गन्तव्यं, तत्स्थानं सूर्यास्तात्प्रागेव निरीक्षणीयम्। यदि तत्र कीटिकादिनगरं स्यात्, तर्हि रात्रौ तत्र न गम्यते। कीटिकादिरहितस्थान एव गम्यते। इत्थं च सूर्यास्तात्प्राक् कायिकाभूमेश्चक्षुषाऽनिरीक्षणमेवात्र मुख्यो दोषः। किंच रात्रावपि चन्द्रतारकादिप्रकाशसहायेन किंचिद् द्रष्टं शक्यमस्ति। अतो यथाशक्यं रात्रावपि चक्षुषा निरीक्षणे प्रयत्नः कर्तव्य एव, तदकरणे तु अतिचारः। 'संथारो उत्तरपट्टो टलतो अधिको उपकरण वावों' इति। रात्रौ विश्रामार्थं संस्तारक उत्तरपट्टकश्चेति द्वौ Page #41 -------------------------------------------------------------------------- ________________ एव अनुज्ञातो भगवता । ततश्च तदधिकोपकरणस्योपयोगो यदि क्रियते, तर्हि दोषः स्यात् । प्रश्नः कानि तानि उपकरणानि येषामुपयोगे दोषो गण्यते ? उत्तरः 'पाट' इतिनामकं काष्ठोपकरणं, कोमलस्पर्शार्थं शीतरक्षार्थं वा 'धाबडो' इतिनामकमुपकरणं, क्षुद्रजन्तूपद्रवनिवारणार्थं, 'मच्छरदानी' इतिनामकमुपकरणं, क्षुद्रजन्तुनिवारणार्थं 'नारंगीतेलप्रभृतिनामको लेपविशेषः....' इत्यादीनि यदि व्याप्रियन्ते, तर्हि प्रकृतो दोषो भवेत् । प्रश्नः कोमलस्पर्शादिकरणार्थं अधिकोपकरणोपयोगेऽवश्यं दोषः, परन्तु शीतादिनिवारणार्थं अधिकोपकरणोपयोगे को दोषः ? अपवादो हि मार्गः, न तु दोषः । उत्तरः सत्यम्। यथा सहनशक्तौ सत्यां बुभुक्षायां सत्यामपि भोजनाकरणं, सहनशक्ती असत्यां तु निर्दोषभोजनकरणं, एतौ द्वौ अपि पदार्थों बुभुक्षाविजयो गण्येते, एवं शीतसहनशक्तौ सत्यां अधिकोपकरणं वर्ज्यमेव, असत्यां तु कम्बलादिवस्त्रोपयोगकरणेऽपि न दोषः, अपि तु परिषहजय एव । कम्बलादीनि शीतरक्षार्थं भगवतोक्तान्येव । 'धाबडो' इत्याद्युपकरणं तु गृहस्थसम्बन्धि भवेत्, तस्मात्तदुपयोगे परिषहजयो न गण्यते, परन्तु शीताधिकतायां सहनशीलताऽल्पतायां च तदुपयोगोऽपवादो गण्यते । एवं क्षुद्रजन्तूपद्रवे सति यदि सहनशक्तिर्भवेत्, तर्हि सोढव्यमेव यदि तु न सह्येत, तर्हि 'मच्छरदानी' Page #42 -------------------------------------------------------------------------- ________________ नामकोपकरणोपयोगोऽपवाद इति प्रतिभाति। प्रश्नः मच्छरदानी उचिता, लेपो वोचितः? उत्तरंःमच्छरदानी अधिकोपकरणरुपा भवति, ततश्च यद्यपि परिग्रहदोषो भवति, तथाऽपि 'चश्मा'प्रभृतिउपधिवत् साऽपि औपग्रहिकोपधिरुपा गणयितुं शक्यते। लेपस्तु क्रीतेनाभ्यहृतेन स्थापनादोषेण दुष्टो भवति। तथा एते सर्वेऽपि दोषा वारंवारं सेवनीया भवन्ति, यस्माद् लेपस्तु भोगयोग्यः पदार्थ एकवारमेवोपयुज्यते, न तु मच्छरदानीवत् पंचादिवर्षं यावत् । तथा लेपस्य फलं प्रहरं यावदेव प्राप्यते, तदनु तु प्रायः पुनः क्षुद्रजन्तूपद्रवः सम्भवत्येव। ततश्च लेपोपयोगे यथेष्टफलं न भवति। प्रश्नः मच्छरदान्युपयोगे अनवरतं वायुकायविराधनारुपो दोषोऽस्त्येव, ततश्च साऽपि कथं निर्दोषा? उत्तरः सत्यम्। अत एव साऽपि अपवादरुपैव स्यात्, न तु परिषहविजयरुपा। यदि तु शास्त्रोक्तस्य कम्बलस्य सूत्रमयकल्पद्वयस्य वोपयोगेनैव क्षुद्रजन्तुनिवारणं क्रियते, तर्हि स परिषहविजय एव। इत्थं च त्रयः पदार्थाः प्रसिद्धाः, (1) परिषहसहनं श्रेष्ठः परिषहविजयः (2) निर्दोषप्रकारेण परिषहनिवारणं सामान्यः परिषहजयः (3) कारणे सति यतनापूर्वकं किंचिद्दोषयुक्तं परिषहनिवारणं अपवादः। एतेषु दोषो नास्ति। यदि तु कारणं विना दोषयुक्तं परिषहनिवारणं, तर्हि महान् दोषः। यदि तु कारणे सत्यपि यतनारहितं दोषयुक्तं Page #43 -------------------------------------------------------------------------- ________________ तत्, तर्हि अतिचार इति संक्षेपः। 'शरीर अणपडिला हलाव्यु' इति। प्रतिलेखनमकृत्वैव शरीरं चालितमिति। प्रश्नः प्रतिलेखनं नाम चक्षुषा निरीक्षणं, तच्च रात्रौ असम्भवि, ततश्च कथमेष दोषः? उत्तरः सत्यम्। प्रतिलेखनपदेन प्रमार्जनं ग्राह्यम्। तथा च रात्रौ शरीरस्य तदवयवस्य वा चालनायावश्यं प्राग् रजोहरणेन प्रमार्जनं कार्यम्। प्रश्नः किं केवलं रजोहरणेनैव कार्यम् ? उत्तरं न, नाभेरुपरितनो भागो मुखवस्त्रिकया, अधस्तनस्तु भागोरजोहरणेनेति। प्रश्नः एतस्य किं कारणम्? उत्तरंः यदधोभाग उपयुज्यते, तल्लोके जुगुप्सितं गण्यते। ततश्च लोके तादृशेन वस्तुना उपरितनभागस्य । स्पर्शो न क्रियते। न हि उपानत् केनचिन्मस्तकादिषु धार्यते, स्पृश्यते वा। तथा चाधोभाग उपयुज्यमानं रजोहरणं न शरीरस्योपरितने भागे व्याप्रियते। ततश्चोपरितनो भागो मुखवस्त्रिकया प्रमार्जनीय इति। प्रश्नः रात्रौ न कश्चिल्लोकोऽस्मान्पश्यति, ततश्च रात्रौ रजोहरणेनोपरितनभागप्रमार्जने को दोषः? उत्तरंः रजोहरणेनाधोभागं एव प्रमार्जनीय इति हि सामाचारी निर्णीता, ततश्च रात्रौ लोकाऽभावेऽपि रजोहरणेनोपरितनभागप्रमार्जने सामाचारीभङ्गरुपो दोषो दुर्निवार इति। Page #44 -------------------------------------------------------------------------- ________________ किंच रात्रौ रजोहरणेनोपरितनभागस्य प्रमार्जने क्रियमाणे तत्संस्कारवशात् कदाचिद्दिवसेऽपि लोकसंमुखं अपि तद् भवेत्, ततश्च लोके शासनहीलना संभवेत्, यदुत 'जुगुप्सितं वस्तु एते साधवः शरीरोपरितने भागे स्पर्शयन्ति, धिगेतान्' इत्यादि । प्रश्नः शरीरचालनरूपोऽयं दोषः किं संस्तारक एव, अन्यत्रापि वा ? उत्तरः संस्तारके तु उद्वर्तनपरिवर्तनसंकोचनप्रसारणरूपाणि शरीरचालनानि प्रदर्शितान्येव, संस्तारकाद् बहिःस्थानेऽपि यानि कानिचिच्चालनानि तानि अनेन ज्ञातव्यानि । ततश्च रात्रौ 'मात्रु अणपूज्य लीधुं, अणपूंजी भूमिकाओ परठत्युं । परठवता अणुजाणह जस्सुग्गहो न कीधो, परठव्या पुंठे वार त्रण वोसिरे वोसिरे न कीधुं' इति। कायिकापरिष्ठापनसम्बन्धी विधिरत्र प्रतिपादितोऽस्ति । प्रमार्जनमकृत्वैव कायिका गृहीता, भूमिमप्रमृज्यैव कायिका परिष्ठापिता। परिष्ठापनक्रियायाः प्राग् 'अणुजाणह जस्सुग्गहो' इति नोच्चारितम् । परिष्ठापनक्रियायाः पश्चात् त्रिकृत्वो 'वोसिरे' इतिपदं नोच्चारितम् । इत्थं चात्र चत्वारो दोषाः प्रदर्शिताः । प्रश्नः प्रथमेऽतिचारे कायिकायाः प्रमार्जनपूर्वकं ग्रहणं उक्तं, परन्तु तदसम्भवि । द्रवरुपायाः कायिकायाः Page #45 -------------------------------------------------------------------------- ________________ प्रमार्जनपूर्वकग्रहणस्यासङ्गतत्वात्। ____ उत्तरंः सत्यम्। 'प्यालो'नामके यस्मिन्वस्तुविशेषे कायिका क्रियते, तदपेक्षया प्रमार्जनपूर्वकग्रहणं कर्तव्यम्। अर्थात् कायिकाकरणात्प्राक् तन्मात्रकं (प्यालो) प्रमार्जनीयम्। यदि हि न प्रमाय॑ते, तर्हि तदन्तर्गता जीवाः कायिकया उपहता भवन्ति। तथा सर्पवृश्चिकादिभिर्दशनादिकमपि स्यात्, ततश्च कदाचिन्मरणमपि भवेत्। प्रश्नः मात्रके कायिका किमर्थं क्रियते? उत्तरंः यदि कायिकायाः शीघ्रशङ्का स्यात्, ततश्च कायिकाभूमिं यावद् गत्वा तत्करणं अशक्यं स्यात्, तर्हि मात्रके कायिका क्रियते। यदि वा कायिकाभूमिस्थाने गृहस्थाःस्युः, ततश्च तत्र कायिकाकरणमशक्यं स्यात्, ततश्च मात्रके कायिका क्रियते, तदनन्तरं च गृहस्थाभावस्थाने उचितरीत्या परिष्ठाप्यते । ___ प्रश्नः कायिकाभूमेः प्रमार्जनाकरणं द्वितीयोऽतिचार उक्तः। किं कायिकाभूमेः रजोहरणेन प्रमार्जनमुचितम् ? रजोहरणं हि पवित्रतमं उपकरणं, कायिकाभूमिश्चात्यन्तमपवित्रेति। उत्तरंः रजोहरणं यदि जीवरक्षार्थमुपयोगि भवेत्, तदैव पवित्रतममुपकरणम्। अन्यथा तु तदधिकरणमेव। ततश्च यदि कायिकाभूमिमपवित्रां मत्वा रजोहरणेन न प्रमार्जनं क्रियते, तर्हि संयम एवापवित्रो भवति। यदि तु सा भूमिः स्निग्धा, तदा तत्र न प्रमार्जनीयम्। अन्यत्र गत्वा शुष्कभूमिं प्रमार्ण्य परिष्ठापनीयम्। प्रश्नः अणुजाणह जस्सुग्गहो' इति वाक्यस्य कोऽर्थः? एतच्च वाक्यं कथं कदा च उच्चारणीयमिति? Page #46 -------------------------------------------------------------------------- ________________ उत्तरंः 'अयमवग्रहो यस्यास्ति स मां अनुजानीहि,येनाहं अत्र कायिकां परिष्ठापयामि' इति हि प्रकृतवाक्यस्यार्थः। अवग्रहो नाम भूमिरेव। प्रश्नः किमर्थमिदं वाक्यमुच्चार्यते? उत्तरंः अवग्रहस्य स्वामिनं अननुज्ञाप्य तत्र कायिकापरिष्ठापने स्वाम्यदत्तादानरुपो दोषो भवति, ततश्च तृतीयमहाव्रतं मलिनं भवति। एतद्दोषनिवारणार्थं इदं वाक्यं उच्चार्यते। प्रश्नः अवग्रहस्य स्वामी यो गृहस्थः तत्पावें गत्वैवावग्रहोऽनुज्ञाप्यः। कायिकापरिष्ठापनकाले प्रस्तुतवाक्योच्चारणेन किं प्रयोजनम् ? उत्तरंः सत्यम्। अवग्रहस्य स्वामी द्विविधः संभवति, प्रत्यक्षः परोक्षश्च। तत्र प्रत्यक्षो मनुष्यः, परोक्षस्तु मनुष्यो देवश्च। यदि प्रत्यक्षः स्वामी अस्ति, तर्हि प्रथमं तत्पा— एवावग्रहोऽनुज्ञातव्यः। यदि तु 'अवग्रहस्य स्वामी मनुष्यो कोऽस्ति?' इति न ज्ञायते, ज्ञाने वा स बहिर्गतो भवेत्, तदा प्रस्तुतवाक्योच्चारणेन तदनुज्ञा गृह्यते। तथा देवस्तु प्रायः परोक्ष एव, ततश्च तदनुज्ञा त्वावश्यक्येव, तत एतद् वाक्यमुच्चार्यते। प्रश्नः एतदनुच्चारणे को दोषः? उत्तरंः अदत्तादानं प्रथमो दोषः। देवस्तु अनुज्ञाग्रहणाऽभावे कदाचित्कुप्येत्, कुपितश्च शरीरे प्रविशेत्, देवाविष्टश्च साधुः संयमादिविनाशं प्राप्नुयात्। अत एव प्रतिक्रमणे 'जिसे खित्ते' इति यस्याः क्षेत्रं' इति Page #47 -------------------------------------------------------------------------- ________________ 'ज्ञानादिगुणयुतानां' इति वा स्तुतिः उच्चार्यते। तथा यदि वयं जानीमो यदुतास्या भूमेः स्वामी अस्यां भूमौ कायिकापरिष्ठापनार्थं नानुज्ञां दद्यात्, ततस्तदनुज्ञां अगृहीत्वैव अन्धकाराद्यालम्बनं गृहीत्वा कायिका परिष्ठापयामः, तर्हि तत्रापि अदत्तादानदोषो ध्रुवः। पश्चात्स्वामिना ज्ञाते सति कलहसंभवः, वसतेर्निष्काशनं, शासननिन्दा, भविष्यत्कालेऽन्येषां साधूनामपि वसतिदाननिषेध इत्यादयो बहवो दोषाः सम्भवन्ति। ततश्च गूढरीत्या स्वामिना सह कपटं कृत्वा कायिकापरिष्ठापनं अत्यन्तमनुचितं, दुर्लभबोधितादिकारणं च। उच्चारपरिष्ठापनायामपि एतत्सर्वं विचारणीयमेव। तथा षोडशकप्रकरणे हरिभद्रसूरिभिः 'गुरुदोषारम्भितया' इत्यादिगाथायां उक्तमस्ति यदुत 'अल्पदोषनिवारणार्थं गुरुदोषसेवनं मिथ्यात्वस्य चिह्नम्' इति। प्रकृते च षट्कायरक्षार्थं निर्दोषभूमौ परिष्ठापनेऽल्पदोषनिवारणं भवत्येव, परन्तु यदि तदर्थं स्वाम्यदत्तकलहशासनहीलनावसतिविच्छेद-दुर्लभबोधितादयो गुरुदोषा भवेयुः, तर्हि स संयमी परमार्थतो मिथ्यात्व्येव संभवति। तस्मात् सर्वेणाऽपि संयमिना अस्मिन्विषये विवेकोऽत्यन्तं समादरणीयः। तथा चायं निष्कर्षः- भूमेः स्वामी यदि अनुज्ञापयितुं शक्येत, तर्हि प्रथमं साक्षादेवानुज्ञाग्रहणं कर्तव्यम्। तदशक्यतायां प्रस्तुतवाक्योच्चारणं कर्तव्यम्। यदि वा तच्छक्यतायामपि अदृश्यस्वामिभूतदेवानुज्ञाग्रहणार्थमपि Page #48 -------------------------------------------------------------------------- ________________ तद्वाक्यमुच्चारणीयम्। प्रश्नः तद्वाक्यं मात्रकसहिते हस्ते सति उच्चारणीयम् ? अन्यथा वा? उत्तरंः हस्ते मात्रकसत्त्वे तद्वाक्योच्चारणे ज्ञानाशातना भवति। तस्मात् कायिकामात्रकं प्रथममधस्ताद् निक्षेपणीयं, तत्पश्चाद् वाक्यमुच्चारणीयम्। तत्पश्चात्कायिकामात्रकं गृहीत्वा कायिका परिष्ठापनीया, तत्पश्चात्पुनः तन्मात्रकं अधस्ताद् निक्षेपणीयम्। तत्पश्चाद् ‘वोसिरे वोसिरे वासिरे' इति उच्चारणीयम्। तत्पश्चान्मात्रकं गृहीत्वा वस्त्रेण शुष्क : करणीय इति। प्रश्नः 'वोसिरे' इतिपदस्य कोऽर्थः? । उत्तरंः 'मया कायिका व्युत्सृष्टा' इत्यर्थः। अर्थात्परित्यक्तेति। प्रश्नः एतत्पदस्योच्चारणं किमर्थं ? । उत्तरः कदाचित्पुत्रो व्यापारे धनं विनाशयति, तदा च तत्पिता एवोत्तमणेभ्यो धनं ददाति। यस्मात्पिता पुत्रस्य सम्बन्धी अस्ति। यदि तु पिता प्रथमत एव सर्वान् ज्ञापयेद् यदुत अयमधुना मम पुत्रो न, तेन सह मम सम्बन्धो विनष्टः', ततश्च तत्पश्चात्पुत्रकृतेऽपि धननाशे पिता न दोषभाग्भवति। एवं यदि कायिकया सह सम्बन्धविच्छेदो न क्रियेत, तर्हि पश्चात् तत्र वर्षादिद्वारा सचित्तजलादिजीवानां कायिकासम्पर्केण विनाशे सति साधुरपि दोषभाग्भवेत्, कायिकया सह तस्य सम्बन्धात्। यदि तु वोसिरे' पदेन Page #49 -------------------------------------------------------------------------- ________________ कायिकया सह सम्बन्धस्य विच्छेदः प्रकटीक्रियेत, तर्हि पश्चात्कस्यांश्चिद् विराधनायामपि साधुर्न दोषभाग्भवति, सम्बन्धस्य विच्छेदात्। एवं तावद् व्यवहारनयेनोक्तम्। निश्चयनयेन तु 'वोसिरे' पदोच्चारणेन साधोः सम्बन्धविच्छेदपरिणामो भवति, तत्परिणामेन च कर्मबन्धो न भवतीति संक्षेपः। 'संथारा पोरिसी भणाव्या विना सूता' इति। रात्रौ पादन्यूनं प्रथमं प्रहरमपगच्छति, तदनन्तरं संथारापोरिसीनामको विधिः कर्तव्यः। स च साधुजने प्रसिद्ध एव । पादोने प्रहरे गते सति यदितं विधिमकृत्वैव निद्रायते, यदिवा निद्रां कृत्वा पश्चाद विलम्बेन स विधिः क्रियते, यदि वा प्रदर्शितकालात्प्रागेव तं विधिं कृत्वा निद्रायते, तर्हि दोषो भवति। एते सर्वेऽपि दोषाः प्रस्तुतेन वाक्येन ग्राह्याः। प्रश्नः वर्तमानकाले यो विधिः प्रसिद्धः, स ओघनिर्युक्त्यादौ न दृश्यते। अधुना 'बाहुवहाणेण' इत्यादि उच्चार्यते, परन्तु पूर्वं तु तदुच्चार्यं नास्ति, अपि तु कर्तव्यमस्ति। अर्थाद् ओघनिर्युक्तौ एतत्प्रतिपादितं यदुत 'एतत्कर्तव्यम्' इति, न तु 'एतद् वक्तव्यम्' इति। अधुना तु तदुच्चार्यते, न तु क्रियते। उत्तरंः अधुना तन्न क्रियते, एतत्तु न वक्तव्यम्। यथाशक्ति क्रियमाणमपि दृश्यत एव। तस्य बाहुल्यं न दृश्यत इति तु सत्यम्। तस्मादेव कारणात् तादृशविधेः विस्मरणं मा भूद्' इत्येतदर्थं स विधिरधुनोच्चार्यते। Page #50 -------------------------------------------------------------------------- ________________ तथा च प्राक्काले संयमिनो गुरुसकाशादेकवारं तं विधिं ज्ञात्वा कुर्युः, न तु प्रतिदिनमुच्चारयेयुः। अधुना तु तादृशविधिकरणाशक्त्यादिकारणवशात् तं यथाशक्त्येव कुर्युः, न तु सर्वं, किन्तु तत्स्मरणार्थं प्रतिदिनमुच्चारयेयुः। इयं च सामाचारी महापुरुषप्रणीतेति न तस्मिन्विषयेऽन्यत्किंचिद् विचार्यते। एवमेव 'चत्तारि मंगलं' इत्यादि सर्वमपि सूत्रं 'सामाचारी' इति निजभाववृद्ध्यर्थं च वक्तव्यमेव, न तु प्राचीनग्रन्थदर्शनेन व्यामोहः कार्यः। सामाचार्याः कालानुसारेण परिवर्तनसम्भवात्। 'कुस्वप्न लाध्यु' इति। निद्रायां कुस्वप्नं प्राप्तं इति। प्रश्न : कुस्वप्नं नाम किं? उत्तरंः स्वप्ने हिंसादीनि मैथुनभिन्नानि सप्तदशपापस्थानानि आचरितानि दृष्टानि, एतदेव कुस्वप्नम्। प्रश्नः तस्य प्रायश्चित्तं किं? | उत्तरंः 'चंदेसु निम्मलयरा' पर्यन्ताः चत्वारो नामस्तवाः कायोत्सर्गे ध्यातव्या इति प्रायश्चित्तम्। प्रश्नः गुरोः समीपे तस्यालोचनं कर्तव्यं न वा? उत्तरंः अवश्यं कर्तव्यम्। थिणद्धिनिद्रादृष्टान्तेषु साधुभिः स्वप्नदृष्टं हिंसादिकं गुरुसकाशे आलोचितं श्रूयत एव। 'सपनामांहि शियल तणी विराधना हुइ' इति।स्वप्ने शीलस्य विराधनाऽभवत्। Page #51 -------------------------------------------------------------------------- ________________ प्रश्नः स्वप्नस्तु निद्रादशायां संभवति, निद्राधमाणश्च जीवः कथं शीलविराधनां कुर्यात् ? जागृतदशायामेव शीलविराधनाकरणसंभवात्।। ___ उत्तरंः अहो मन्दप्रज्ञता भवताम्। अत्र हि एतदेवोक्तं यदुत 'स्वप्ने तेन साधुना एतद् दृष्टं यदुत' मया शीलं विराधितम्' इति। अत एतदेव अत्र तात्पर्यं यदुत रात्रौ साधुना जागृतदशायां शीलविराधना कृता न, किन्तु निद्रादशायां स्वप्ने स्वेन क्रियमाणा शीलविराधना दृष्टा इति। एतच्च दुःस्वप्नं उच्यते। तथा च सप्तदशपापस्थानानां स्वप्ने दर्शनं कुस्वप्नं, मैथुनस्य स्वप्ने दर्शनन्तु दुःस्वप्नं उच्यते। प्रश्नः सप्तदशानां एकस्य च भेदः किमर्थं कृतः? अष्टादशान्येव युगपदेव किमर्थं नोक्तानि? उत्तरः रात्रौ कुसंस्कारवशात्स्वप्ने मैथुनस्य संभव इतरपापापेक्षयाऽधिकः, तथा व्यवहारतो मैथुनमेव इतरपापापेक्षया साधुजीवने महान् दोषः, ततश्चेतरपापेभ्यस्तस्य विभागेन निरुपणं कृतम्। अत एव च तस्य प्रायश्चित्तं सागरवरगंभीरा' पर्यन्ताश्चत्वारो नामस्तवाः सन्ति। अर्थादितरपापापेक्षया तस्य प्रायश्चित्तमधिकं अस्ति। प्रश्नः अस्य निष्कर्षस्त्वेवम्-यदुत यदि कुस्वप्नं दृश्यते, तर्हि 'निम्मलयरा' पर्यन्ताः चत्वारो नामस्तवा गणनीयाः, यदि तु दुःस्वप्नं दृश्यते, तर्हि 'गंभीरा' पर्यन्ताः चत्वारो नामस्तवा गणनीयाः। यदि तु किमपि न दृश्यते, तर्हि किमपि न गणनीयमिति। Page #52 -------------------------------------------------------------------------- ________________ परन्तु एतन्नास्ति। अधुना तु स्वप्नं भवेन्न वा, तथाऽपि सागरवर' पर्यन्ताश्चत्वारो नामस्तवा एव गण्यन्ते, न तु अनन्तरोक्तो विभागो दृश्यते। किमत्र कारणम् ? उत्तरंः गाढनिद्रायां यानि कुस्वप्नानि दुःस्वप्नानि वाऽऽगच्छन्ति, तानि निद्रानाशे साधवः प्रमादादिवशान्न स्मरन्ति, ततश्च यदि कायोत्सर्ग न कुर्यात्, तर्हि तेषां स्वप्नानां प्रायश्चित्तं न स्यात्। तस्मादधुना एषा सामाचारी यदुत 'स्वप्नमागच्छतु मा वा,' तथाऽपि 'सागरवर' पर्यन्ताश्चत्वारो नामस्तवाः परिगणनीया एवेति। प्रश्नः कुस्वप्नादि केन कारणेन भवन्ति? उत्तरंः पूर्वसंस्कारवशात्, वायुप्रकोपवशात्, देवादिवशाद्वा भवन्ति। प्रश्नः कुस्वप्नादिकं विनाऽपि वीर्यनाशो यदि भवेत्, तर्हि तस्य प्रायश्चित्तार्थं कायोत्सर्गः कर्तव्यो न वा? उत्तरंः कायोत्सर्गस्तु कुस्वप्नादिनिमित्तमेव कर्तव्यः, वर्तमानकाले तु कुस्वप्नादिनिर्णयाभावेऽपि सामाचारीवशात् स कर्तव्य एव, वीर्यनाशस्तु वायुप्रकोपजन्यो गुरुसमीपे आलोचनीयः, पश्चाद्गुरवो यत्प्रायश्चित्तं ददति, तत्कर्तव्यम्। 'मन आहट्ट दोहट्ट चिंतव्यु...' इति। रात्रौ मनसि आर्तध्यानं रौद्रध्यानं वा चिन्तितम्। प्रश्नः ध्यानपदस्य कोऽर्थः? उत्तरंः स्थिरोऽध्यवसायो ध्यानम्। दुःखनिवारणादिसम्बन्धि तद् आर्तध्यानम्। हिंसामृषादिसम्बन्धि तद् Page #53 -------------------------------------------------------------------------- ________________ रौद्रध्यानम्। तथाहि-कदा शीतं मन्दं भवेत्'? इति शीतकाले, 'कदा वायुरागच्छेत् ?' इत्यादि तूष्णकाले ध्यानमार्त्तध्यानम्। एवमन्यदपि। मशकादिसत्त्वे तु तन्मारणादिध्यानं रौद्रध्यानम्। 'संकल्पविकल्प हुओं' इति। पापसम्बन्धी निर्णयः संकल्पः, पापसम्बन्धी अनिर्णयात्मको विचारो विकल्प इति। तथाहि- 'कल्येऽहं एतद्भक्षिष्यामि, एतद्वा पास्यामि, अमुकं वा अपशब्दं वदिष्यामि, अमुकां वा स्त्रियं द्रष्टुं तद्गृहे गमिष्यामि' इत्यादिरुपो निर्णयः संकल्पः, सचानुचित इति न करणीयः। प्रश्नः 'कल्येऽहं गुर्वादिवैयावृत्यर्थं अमुकगृहेऽनुकूलवस्त्वानयनार्थं गमिष्यामि' इति संकल्पो न दुष्टः। ततश्च किं सोऽपि न करणीयः? उत्तरंः उचितसंकल्पकरणस्य तु निषेधो नास्ति। अत एव तपःस्वाध्यायादिसम्बन्धी संकल्पो न निषिध्द इति। तथा 'अमुकेन साधुना सह मम कलहोऽभवत्, तत्किं तं साधु तिरस्करोमि न वा?' इति, 'स्वामिवात्सल्ये मिष्टान्नं भविष्यति, तत्किं कल्ये भक्षिष्यामि न वा?' इति। एवमादिरुपो विचारो विकल्पो भण्यते। प्रश्नः एतौ तु संकल्पविकल्पौ आर्तध्यानादिरुपौ एव, ततश्च 'मन आहट्ट' इत्यादिना तौ संगृहीतौ एव, ततश्च किमर्थं तयोर्भेदेन ग्रहणं कृतम् ? Page #54 -------------------------------------------------------------------------- ________________ उत्तरः स्थिरोऽध्यावसायो ध्यानं, अस्थिरोऽध्यवसायस्तु चित्तम्। 'मन आहट्ट' इत्यादिना दुर्ध्यानद्वयं निरुपितम्। 'संकल्प' इत्यादिना तु दुश्चित्तद्वयं निरुपितमिति प्रतिभाति। अथवा 'आहट्ट-' इत्यादि सामान्येन दुर्व्यानवर्णनम्। 'संकल्प...' इत्यादि तु विशेषेण दानवर्णनम्। 'रात्रि सम्बन्धी जे कोई अतिचार लाग्यो होय, ते सवि हं मन-वचन-काया करी मिच्छामि दुलडं' इति। रात्रिसम्बन्धिनो ये केचिदतिचारा अभवन्, तान् सर्वानपि आश्रित्य मनसा वचसा कायेन च 'मिच्छा मि दुक्कडं' ददामि। अर्थात् 'मनोवाक्कायैः तान्निन्दामि, गर्हामि, पुनर्न करिष्यामि' इति नियमं च गृह्णामीति। प्रश्नः 'मिच्छा मि दुक्कडं' इत्यस्य कोऽर्थः? उत्तरः ‘मिथ्या मे दुष्कृतं' इति तस्य संस्कृतछाया। ममेदं पापं निष्कलं भूयात्, दुर्गत्यादिरुपं फलं न स्यात्, इति तु तस्य भावार्थः। तथा च रात्रिकातिचारवृत्तिः समाप्ता, तथाऽपि किंचिदुच्यते। प्रश्नः प्राकृतगुर्जरभाषामिश्रितमेतत् किमर्थम्? उत्तरः प्राक्काले तु 'इच्छाकारेण संदिसह भगवन्! राइअं आलोउं?' इत्यादिसूत्रेण प्राकृतभाषयाऽऽलोचनाऽऽसीत्, परन्तु कालक्रमेण बहूनां साधूनां प्राकृतभाषाज्ञानाभावेन प्रस्तुतालोचनायां Page #55 -------------------------------------------------------------------------- ________________ भावोत्पादो दुष्करोऽभवत्, तस्मात् तत्सूत्रं उच्चायैव प्राकृतगुर्जरभाषाप्रतिबध्दं रात्रिकातिचारसूत्रमपि उच्चारणीयम्' । इति संविग्नगीतार्थनिर्णीतम्। येन साधूनां पश्चात्तापादिभावोत्पादः स्यात्। दैवसिकातिचारसूत्रेऽप्येतदेव विचारणीयम्। अत एव कारणात् श्रावकाणामपि 'सात लाख' सूत्रं पहेले प्राणापिात' सूत्रं उच्चार्यतया निर्णीतमिति सम्भाव्यते। तथा हि श्रावका अपि प्राग् 'राइअं आलोउं' इत्यादि सूत्रानुसारेणैवालोचनामकुर्वन, परन्तु कालातिक्रमेण प्राकृतभाषाज्ञानाभावेन तेषामपि प्रस्तुतसूत्रात्मकालोचनायां भावोत्पादो दुष्करोऽभवत्, ततश्च संविग्नगीताथैः गुर्जरभाषानिबध्दं सूत्रद्वयं तेषामुच्चार्यतया निर्णीतमिति। न केवलमेतावदेव, परन्तु 'पाक्षिकातिचारोऽपि साधूनां श्रावकाणां च गुर्जरभाषानिबध्दं एतदर्थमेव कृत' इति सम्भाव्यते। तथा चायं सारः, प्राक्काले साधूनां श्रावकाणां च आलोचनासूत्रं प्राकृतभाषायामेवासीत्, परन्तु कालानुसारेण तद्भाषाज्ञानाभावकारणेन संविग्नगीताथैः सर्वेषामर्थं रात्रिकप्रतिक्रमणे दैवसिकप्रतिक्रमणे पाक्षिकादिप्रतिक्रमणे च गुर्जरभाषायामालोचनासूत्रं गुम्फितमिति। अत एव दक्षिणभारतादिस्थानेषु गुर्जरभाषाज्ञानाभाववतां श्रावकाणां हितार्थं हिन्दीभाषानिबध्दमपि आलोचनासूत्रमुपलभ्यते, उच्चार्यमाणं च श्रूयत इति। Page #56 -------------------------------------------------------------------------- ________________ आलोचनासूत्रमेवातिचारसूत्रमिति तु न विस्मरणीयम्। एव तावन्मन्दमतिना मया स्वक्षयोपशमानुसारेण रात्रिकातिचारसूत्ररहस्यं निरुपितम्। याश्चात्र क्षतयः ताशोधयन्तु संविग्नगीतार्था इति । ॥ समाप्ता रात्रिकातिचारवृत्तिः ।। यदीयसम्यक्त्वबलात्प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ।। ॥ नमोऽस्तु तस्मै जिनशासनाय ॥ Page #57 -------------------------------------------------------------------------- ________________ ॥ अर्हं नमः ॥ || नमोऽस्तु तस्मै जिनशासनाय ।। ।। दैवसिकातिचारसूत्ररहस्यम् ॥ प्रणम्य परमात्मानं, शैक्षजनसुबोधये । दैवसिकातिचारस्य, वृत्तिलवो विरच्यते ।। Page #58 -------------------------------------------------------------------------- ________________ प्रथमं तावद् दैवसिकातिचारसूत्रं प्रदर्श्यते । ठाणे कम चकमणे आउत्ते अणाउत्ते हरिअकाय संघट्टे बीयकाय संघट्टे तसकाय संघट्टे छप्पईअ संघट्टे ठाणाओ ठाणं संकामिआ । देहरे गोचरी बाहिरभूमि मार्गे जता आवता स्त्रीतिर्यंचतणा संघट्टपरिताप - उपद्रव हुआ | दिवस मांहि चारवार सज्झाय, सातवार चैत्यवंदन कीधा नहि । प्रतिलेखना आघी पाछी भणावी, अस्तव्यस्त कीधी। आर्तध्यान रौद्रध्यान ध्यायां, धर्मध्यान- शुक्लध्यान ध्यायां नहि । गोचरी तणा बेतालीश दोष उपजता जोया नही। पांचदोष मांडली तणा टाल्या नहि । मात्रं अणपूज्यु लीधु, अणपूंजी भूमिकाए परठव्युं । परठवतां अणुजाणह जस्सुग्गहों न कीधो । परठव्या पुंठे वार त्रण वोसिरे वोसिरे न कीधुं । देहरा उपाश्रयमांहि पेसता निसीहि, नीसरतां आवस्सहि कहेवी विसारी। जिनभवने चोराशी आशातना, गुरु प्रत्ये तेन्रीश आशातना (कीधी ) । अनेरो दिवससंबंधी जे कोई पाप - दोष लाग्यो होय, ते सवि हुं मन-वचन-कायाए कटरी मिच्छामि दुक्कडं । अधुनाऽस्य वृत्तिः क्रियते। Page #59 -------------------------------------------------------------------------- ________________ अत्राऽपि 'ठाणे' इतिपदादारभ्य संकामिआ' इतिपदं यावत् प्राकृतभाषाऽस्ति, तदनन्तरं तु दिवसमांहि' इतिपदादारभ्य गुर्जरभाषायामस्ति अतिचारः। धर्मसंग्रहवृत्तौ महोपाध्यायमानविजयैः 'संकामिआ' पदं यावदेव विवृत्तमस्ति, ततश्च ज्ञायते यदुत तत्काले तावत्पर्यन्तमेव दैवसिकातिचारसूत्रमासीत्। पश्चाद् गुर्जरभाषानिबध्दं अधिकं प्रक्षिप्तं संविग्नगीतार्थैरिति। एतच्च रात्रिकातिचारवृत्तौ प्रतिपादितं अस्माभिः। 'ठाणे' इति, उर्ध्वस्थाने, उपवेशनरुपस्थाने, उत्कटुकस्थाने च... 'कमणे' इति, गमनक्रियायां... 'चंकणमे' इति, अभीक्ष्णं भृशं वा क्रमणं चड्.क्रमणं, तस्मिन्, परिभ्रमण इत्यर्थः... 'आउत्ते' इति, उपयोगपूर्वकं कृते... 'अणाउत्ते' इति, उपयोगरहितं कृते... 'हरिअकायसंघट्टे' इति, हरित्कायस्य = वनस्पतिकायस्य संघट्टो भूतः... 'बीयकायसंघट्टे' इति, बीजकायस्य = मुद्गादिरुपस्य संघट्टो भूतः... 'तसकायसंघट्टे' इति, त्रसकायस्य = द्वीन्द्रियादिरुपस्य संघट्टो भूतः... 'थावरकाय संघट्टे' इति, स्थावरकायस्य = पृथ्वीजलाग्निवायुरुपस्य संघट्टो भूतः... 'छप्पईअसंघट्टे' इति, षट्पदिकायाः = त्रसजन्तुविशेषरुपायाः संघट्टो भूतः... Page #60 -------------------------------------------------------------------------- ________________ 'ठाणाओ ठाणं संकामिआ' इति, त्रसजीवा एकस्मात्स्थानात्स्थानान्तरं संक्रामिताः। एष तावत्शब्दार्थः प्रतिपादितः। अन्वयार्थस्त्वयम्उपयोगपूर्वकं अनुपयोगपूर्वकं वा स्थानगमनचङ्क्रमणक्रियासु कृतासु यो वनस्पति-बीज-त्रस-स्थावरषट्पदिकासंघट्टो भूतः, यश्च त्रसानां स्थानात्स्थानान्तरं संजातं, तस्य मिच्छा मि दुक्कडं इति। प्रश्नः हरित्कायो बीजकायश्च स्थावरकाय एव, ततश्च स्थावरकायसंघट्टे तयोः समावेशोऽभूदेव, ततः किमर्थं तयोः पृथग् ग्रहणं कृतम्? उत्तरं : सत्यं, परन्तु स्थानादिषु हरित्कायबीजकायसंघट्टप्रसङ्गस्य सम्भवोऽधिकोऽस्ति, तस्मात्तत्प्राधान्यमाश्रित्य तस्य पृथग्रहणं कृतम् । धान्यापणेषु गृहेषु च बीजानि विकीर्णानि भवन्त्येव, एवं यथासंभवं वनस्पतौ अपि वाच्यम्। तथा बीजमपि हरित्काय एव, ततश्च भवदुक्तरीत्या तु तस्यापि पृथग्ग्रहणं न कर्तव्यमेव, परन्त्वत्रापि बीजस्य तृणादिरुपहरित्कायापेक्षया विशिष्टत्वात्तस्य पृथग्ग्रहणं कृतमिति बोध्यम्। अत एव स्थावरकायेषु पृथ्वीचतुष्कमेव गृहीतमस्माभिः, पंचमस्य वनस्पतिकायस्य पृथग्गृहीतत्वात्। एवमेव षट्पदिका त्रसकाये समाविशति, तथाऽपि तत्संघट्टप्रसङ्गस्य अनेकशः संभवादिरुपात्कारणात् तस्य त्रसकायात्पृथग्ग्रहणं कृतमिति सम्भाव्यते। Page #61 -------------------------------------------------------------------------- ________________ षट्पदिका नाम 'जु' इतिनाम्ना प्रसिध्दो जीवविशेषः। संघट्टो नाम सामान्येन स्पर्शः। 'देहरे गोचरी बाहिरभूमि मार्गे जता आवता स्त्रीतिर्यंचतणा संघट्ट-परिताप-उपद्रव हुआ' इति। जिनचैत्ये गोचर्यां स्थण्डिलभूमौ च यद् मार्गे गमनमागमनं च कृतं, तस्मिन् मनुष्यस्त्रीणां तिरश्चां च संघट्टः परिताप उपद्रवश्च संजातः। अत्र उपाश्रयाच्चैत्यादौ गमनं, चैत्यादिभ्यश्चोपाश्रये आगमनमित्येवं गमनागमनं वाच्यम्। तथा मार्गे' इतिपदं चैत्ये गोचर्यां स्थण्डिलभूमौ च योजितम्। यस्मात्रिष्वपि यद् गमनागमनं भवति, तन्मार्ग एव भवति। यदि वा मार्गे गमनागमनं स्वतन्त्रमेव विहाररुपं गणयितुं शक्यते, न कश्चिद् दोषः। संघट्टो नाम सामान्येन स्पर्शः, परितापो नाम विशेषस्पर्शजन्या अनागाढा पीडा, आगाढा वा पीडा, उपद्रवो नाम मरणम्। एतानि त्रीणि च मनुष्यस्त्रीणां तिरश्चां वा संजातानि गमनागमने। प्रश्नः अत्र स्पर्शः परिताप उपद्रवश्च हिंसात्मको दोषः प्रतिपादयितुमिष्यते, न तु अब्रह्मचर्यसम्बन्धी दोषः।न हि परिताप उपद्रवश्चाब्रह्मचर्यसम्बन्धी दोषो भवितुमर्हति। इत्थं च मनुष्यस्त्रीणां स्पर्शरुपो यो दोषः प्रतिपादितः, सन Page #62 -------------------------------------------------------------------------- ________________ घटते, न हि मनुष्यस्त्रीणांस्पर्शमात्रेण पीडा भवति, येन सा हिंसारुपा प्रतिपादयितुं शक्यते। किंच गमनागमने स्त्रीस्पर्शः संभवति, परन्तु परितापोपद्रवौ तु न कथमपि सङ्गच्छतः, ततश्च मनुष्यस्त्रीणां परितापोपद्रवप्रतिपादनमपि न युक्तम्। तथा यदि मनुष्यस्त्रीणां परितापोपद्रवौ सम्भवतः, तर्हि मनुष्यपुरुषाणामपि तौ सम्भवत एव, तथा च सति, 'मनुष्यतिर्यंच तणा' इत्येव पाठः समुचितः स्यात्, न तु स्त्रीतिर्यंय तणा,' इत्यादि। यदि च 'स्त्रीस्वरुपा ये तिरश्चः, तेषां' इति कर्मधारयसमासः आद्रीयते, तदाऽपि स एव दोषः। यस्मात् स्त्रीतिर्यग्वत् पुरुषतिरश्चामपि परितापोपद्रवौ सम्भवत एव, ततश्च तिर्यंचतणा' इत्येतावदेव वक्तव्यं स्यात्, न त्वधिकमिति। ततश्च केनाऽपि प्रकारेणेदं वाक्यं न घटते। उत्तरं : सत्यम्। यथासम्भवमात्रार्थो विज्ञेयः। तथाहि..., मनुष्यस्त्रीणां तिर्यस्त्रीणां च संघट्टश्चतुर्थव्रतसम्बन्धी दोषः प्रतिपादितः। तिरश्चां च संघट्टपरितापोपद्रवाः प्रथमव्रतसम्बन्धिनो दोषाः प्रतिपादिताः। इत्थंच Page #63 -------------------------------------------------------------------------- ________________ मनुष्यस्त्रीणां यः संघट्टः संजातः, स चतुर्थव्रतसम्बन्धी दोषः, तिरश्चां च यः संघट्टः परिताप उपद्रवश्च संजातः, स प्रथमव्रतसम्बन्धी दोषः, इति प्रकृतवाक्यस्यार्थः। प्रश्नः तिरश्चामपि एते त्रयः कथं संभवन्ति ? उत्तरः तिरश्चां संघट्टस्तु स्पष्ट एव, यौ च परितापोपद्रवौ, तौ अपि मण्डुकप्रभृतीनां संभवत एव। तथा गवादिनां साधुदण्डदर्शनादिना परितापो धावनादौ चोपद्रवः सम्भवति, तत्र निमित्तं तु साधुरिति महतामपि तिरश्चां परितापोपद्रवौ सम्भवतः। एवं मनुष्यस्त्रीणामपि भुकंपवह्निनदीपूरशत्रुनृपादिजन्येन भयेन सर्वत्र सर्वेषां धावनादौ प्रमादादिवशतः साधुनिमित्तं संघट्टपरितापोपद्रवा हिंसात्मकदोषरुपाः सम्भवन्त्येव, परन्तु ते तु मनुष्यपुरुषाणामपि सम्भवन्तीति तेऽत्र न ग्राह्याः, केवलं सम्भावनयाऽत्र प्रदर्शिताः। 'दिवसमांहि चारवार सज्झाय, सातवार चैत्यवंदन कीधा नहिं' इति। 'दिवसमध्ये चतुर्वारं स्वाध्यायः, सप्तवारं च चैत्यवंदनं न कृतम्' इति। अत्र दिवसोऽष्टप्रहररुपोऽवगन्तव्यः, न तु सूर्योदयादारभ्य सूर्यास्तं यावत्। तथा च एकस्मात्सूर्योदयाद् द्वितीयसूर्योदयपर्यन्तः कालोऽत्र दिवसः। ततश्च तस्मिन् दिवसे चतुर्वारं स्वाध्यायः करणीयः, तथाहि, दिनस्य प्रथमे चरमे च प्रहरे रात्रेश्च प्रथम चरमे च प्रहर इति । तथा सप्तवारं चैत्यवंदनमित्थम् - रात्रिकप्रतिक्रमणे 'इच्छाकारेण संदिसह भगवन्! चैत्यवंदन करूं?' Page #64 -------------------------------------------------------------------------- ________________ इत्युक्त्वा यत् 'जगचिन्तामणि' इत्यादि उच्चार्यते, तत्प्रथमम्। विशाललोचनदलसूत्रं द्वितीयम्। भोजनात्प्राक् प्रत्याख्यानपारणविधौ तृतीयम्। भोजनात् पश्चात् चतुर्थम्। दैवसिकप्रतिक्रमणे 'चैत्यवंदन करूं? इत्युक्त्वा यत् 'सकलकुशल' इत्यादि उच्यते, तत्पंचमम्। नमोऽस्तु' सूत्रं षष्ठम्। संथारापोरिसीविधौ तु चउक्कसाय' इत्यादिरुपं तु सप्तमम्। प्रश्नः अधुना तु चतुरिं स्वाध्यायो न दृश्यते। उत्तरः साक्षान्न दृश्यते, स्थापनारुपेण तु क्रियत एव। तथाहि, प्रातः प्रतिलेखनानन्तरं यत् ‘सज्झाय करुं?' इत्याधुच्यते, तत्प्रथमः स्वाध्यायः। चतुर्थप्रहरे प्रतिलेखनविधौ पुनरपि 'सज्झाय करूं?' इत्याधुच्यते, तद् द्वितीयः स्वाध्यायः। सायंकाले प्रतिक्रमणे तु 'देवसिअपायश्छितं' कायोत्सर्गानन्तरं पुनस्तदेवोच्यते तत्तृतीयः स्वाध्यायः। रात्रिकप्रतिक्रमणे तु सज्झाय संदिसाह?' इत्याधुक्त्वा यद् ‘भरहेसरसूत्रं उच्यते, तच्चतुर्थः स्वाध्याय इति।। प्राक्काले हि साधवः प्रहरचतुष्कमध्ये सूत्राध्ययनात्मकं स्वाध्यायं अकुर्वन्। परन्तु कालादिदोषेण तदाचारपालनं व्युच्छिन्नप्रायं संजातं, ततश्च संविग्नगीताथैः इयं अनन्तरोक्ता स्वाध्यायचतुष्ककरुणस्वरुपा सामाचारी समातेति सम्भाव्यते।। प्रश्नः साधवो द्वितीयप्रहरेऽर्थस्वाध्यायं कुर्वन्त्येव, रात्रावपि द्वितीयप्रहरे स्थविरा अर्थस्वाध्यायं कुर्वन्ति। ततश्च दिवसमध्ये षट्कालं स्वाध्यायः सम्भवति, न तु चतुःकालमिमि। Page #65 -------------------------------------------------------------------------- ________________ उत्तरंः सत्यं, किन्तु अत्र स्वाध्यायपदेन सूत्राध्ययनमेव प्रतिपाद्यते, न तु अर्थाध्ययनमिति चतुष्कालमेव स्वाध्यायः सम्भवति। 'प्रतिलेखना आधीपाछी भणावी, अस्तव्यस्त कीधी' इति। प्रतिलेखनं प्राक्पश्चाद् वा कृतं, अविधिसहितं वा कृतम्। __अयं भावः, प्रातःकाले सूर्योदयसमये दण्डकप्रमार्जनं यथा भवेत्, तस्मात्पूर्वं सर्वोपधीनां प्रतिलेखनं समाप्तं भवेत, तथा प्रतिलेखनं प्रारभणीयम्। यदि च तस्मात्पूर्वं पश्चाद् वा प्रतिलेखनं प्रारभ्येत, तर्हि दोषः। एवं सायंकालेऽपि यथाकालं विचार्यम्। तथा शास्त्रोक्तकालेऽपि 'आरभडा सम्मद्दा' इत्यादिदोषैः दुष्टं प्रतिलेखनं न कर्त्तव्यम्। परन्तु यथाविधि करणीयम्। 'आर्तध्यान-रौद्रध्यान ध्याया' इति। आर्तरौद्रध्याने ध्याते। 'धर्मध्यान-शुक्लध्यान ध्याया नहि इति। धर्मध्यानशुक्लध्याने न ध्याते। प्रश्नः शुक्लध्यानं तु क्षपकश्रेण्यामेवाष्टमगुणस्थानादारभ्यैव, ततः कथं तदध्याने दोषः? न हि अशक्यस्याकरणेऽतिचार इति। उत्तरः सत्यं, व्यवहारतः षष्ठगुणस्थानेऽपि शुक्लध्यानसंभव इति तदकरणे अतिचारदोषो भवेदेवेति। 'गोचरीतणा बेतालीश दोष उपजता जोया नहि' इति। गोचरीसम्बन्धिनो ये द्विचत्वारिंशद्दोषा Page #66 -------------------------------------------------------------------------- ________________ गोचरीचर्यायां उत्पद्यमानास्ते दोषा न दृष्टाः । अर्थाद् गोचरीक्रियायां एष उपयोगो न दत्तः, यदुत 'अत्राधाकर्मादयो दोषाः संजाता न वा ? ' किन्तु प्रमादं निष्ठुरतां वाऽवलम्ब्य यथा तथैव गोचरीचर्या कृतेति । द्विचत्वारिंशद्दोषस्वरुपं तु पिंडनिर्युक्त्यागमादवसेयम्। 'पांचदोष मांडलीतणा टाल्या नहि' इति । गोचरी मंडल्यां अड्. गारधूमादयः पंचदोषा न निराकृताः, अर्थाद् रागेण भक्षितं, द्वेषेण वा भक्षितं, वेदनादिकारणं विना भक्षितं, अधिकं वा भक्षितं, रसोत्पादनार्थं संयोजनं कृत्वा भक्षितम्। 'मात्र अणपूज्य लीधुं, अणपूंजी भूमिकाए परठव्युं । परठवता अणुजाणह जस्सुग्गहो न कीधो, परठव्या पूंठे वार त्रण वोसिरे वोसिरे न कीधुं' इति । एतत्सर्वं रात्रिकातिचारवृत्तौ निरुपितमिति ततोऽवसेयम्। 'देहरा उपाश्रयमांहि पेसतां निसीहि, नीसरतां आवस्सहि कहेवी विसारी' इति । जिनचैत्ये उपाश्रये च प्रवेशकाले 'निसीहि' शब्दभणनं, जिनचैत्यादुपाश्रयाच्च निर्गमनकाले 'आवस्सहि' शब्दभणनं विस्मृतम् । जिनचैत्यं देवावग्रहः, उपाश्रयश्च गुर्ववग्रहः । तत्र प्रवेशोऽप्रमत्तेनैव कर्तव्यः, अन्यथा देवगुर्वाशातनाप्रसङ्गः स्यात्। तथा चाप्रमादप्राप्त्यर्थं दृढोपयोगानयनमावश्यकं तदर्थं 'निसीहि' पदेन अवग्रहबाह्यदेशसम्भविनां 1 Page #67 -------------------------------------------------------------------------- ________________ आशातनाकारणत्वसंभववतां योगानां निरोधो ज्ञाप्यते। तथा गोचरीविहारादि-आवश्यककृत्यं विना साधूनां गमनादिकं नोचितमिति कृत्वा यदोपाश्रयाद् बहिर्गम्यते, तदाऽऽवश्यककार्यार्थमेव गम्यते। तदर्थमेव 'आवस्सहि उच्चार्यते। अर्थात् 'अहं आवश्यककार्थमेव उपाश्रयाद् बहिर्गच्छामि, न त्वन्यथैव' इत्यर्थप्रतिपादकं प्रकृतपदमस्ति। चैत्यगृहा बहिर्निर्गमनेऽपि एतदेव बोध्यम्। प्रश्नः श्रावकोऽऽवस्सहिप्रयोगं निसीहिप्रयोगं च कर्तुमर्हति न वा? उत्तरः निसीहिप्रयोगं तावदवश्यं करोतु, यस्माच्छ्रावकोऽपि चैत्यगृहे उपाश्रये च प्रविशन् यथायोग्यं सर्वानशुभयोगांस्त्यजत्येव, आशातनापरिहारपरायणश्च भवत्येव। परन्तु आवस्सहिप्रयोगे तु तस्य भजना। यस्माद् यदि स पौषधिकोऽस्ति, तर्हि तस्योपाश्रयाद् बहिर्गमनं चैत्यवन्दनार्थं स्थण्डिलगमनार्थं एकाशनकरणार्थ उपाश्रयान्तरस्थितसाधुवन्दनार्थं एवमाद्यर्थं भवति, एवमेव तस्य चैत्यगृहाद बहिर्निर्गमनमपि आवश्यकयोगार्थमेव, ततश्च तदा स आवस्सहिप्रयोगं करोति। यदि तु स पौषधिको नास्ति, तर्हि उपाश्राद बहिर्निर्गमनानन्तरं स संसारकार्याणि करोति, तानि च नावश्यकानि गण्यन्ते, धर्मार्थमेवावश्यकस्येष्टत्वात्। ततश्च तदा स उपाश्रयात् चैत्याद्वा बहिर्निर्गमने न आवस्सहिप्रयोगं करोतीति। Page #68 -------------------------------------------------------------------------- ________________ प्रश्न : श्रावक उपाश्रये प्रविशन्यदि निसीहिप्रयोगं करोति, तर्हि तेन के योगाः परित्यक्तव्याः? उत्तरं : धर्मस्थानेऽनुचिताः सर्वेऽपि योगाः परित्यक्तव्याः, तदत्यागे तस्य निसीहिशब्देन गृहीताया 'अहमत्र सावधयोगान् न सेविष्ये' इति प्रतिज्ञाया भङ्गदोषो भवति। तस्मादपाश्रये तेन गृहकृत्यचिन्ता, व्यापारचिन्ता, गृहकृत्यव्यापारसम्बन्धिवार्तालापः, 'मोबाईल' आदियान्त्रिकसाधनोपयोग इत्यादि सर्वं त्याज्यम्। अन्यथा प्रतिज्ञाभङ्गदोषः स्यात्। तथा उपाश्रये आराधनां कुर्वतां साध्वादीनां अन्तरायोऽपि भवेत्, एवं चैत्येऽपि। तदन्तराये च भवान्तरेऽन्तरायकर्तुराराधनाप्राप्तिः दुर्लभैव स्यात्। तस्मात्परलोकभीरुणा धर्मकाङ्क्षिणा श्रावकेण उपाश्रये चैत्ये च प्रवेशे निसीहिप्रयोगोऽवश्यं कर्तव्यः, तदनन्तरं सावधयोगाश्चावश्यं त्यक्तव्या एवेति। 'जिनभवने चोराशी आशातना गुरुप्रत्ये तैत्रीश आशातना (कीधी)' इति। जिनचै त्ये चतुरशीत्याशातनानामन्यतमाऽऽशातना समादृता, गुरुसम्बन्धिनीनां च त्रयस्त्रिंशदाशातानानामन्यतमाऽऽशातना समादृता। आशातनास्वरुपंच ग्रन्थान्तरादेवावसेयम्। विस्तरभयादत्र नोच्यते। 'अनेरो दिवससंबंधी जे कोई पापदोष लाग्यो होय, ते सवि हं मन-वचन-कायाए करी मिच्छा मि दुक्कडं' इति। एवं तावत्केचिद् दोषाः प्रदर्शिताः, एतेभ्योऽन्येऽपि बहवो दोषाः सन्ति। कियन्तो वक्तुं शक्यन्ते? इत्यतः Page #69 -------------------------------------------------------------------------- ________________ संक्षेपत आलोचयति 'अनेरो' इत्यादि। __ प्रतिपादितेभ्योऽतिचारेभ्यो येऽन्ये केचिदपि दिवससम्बन्धिनः पापात्मका दोषाः संजाताः, तेषां सर्वेषामपि मिच्छा मि दक्कडं मनसा वचसा कायेन च ददामीति रात्रिकातिचारोक्तवदवसेयम्। प्रश्नः पापदोष' इतिपदद्वयग्रहणस्य काऽऽवश्यकता? उत्तरं : द्वे अपि पदे समानार्थे, केवलं श्रोतुः स्वप्रज्ञानुसारेणान्यतरेण पदेन बोधः स्यात्, ततश्च बोधसुकरतार्थं पदद्वयं गृहीतम्। यदि वा पापपदं अशुभाध्यवसायप्रतिपादकं, दोषपदं अशुभक्रियाप्रतिपादकं, ततश्च पापेन युक्तो यो दोषः, स पापदोष इत्यर्थः कर्त्तव्यः। न हि केवलं अशुभाध्यवसायरहितोऽशुभक्रियारुपो दोषस्तात्त्विको दोषः, किन्तु अशुभाध्यवसायसहित एवेति सारः। ॥ समाप्ता दैवसिकातिचारवृत्तिः ॥ यदीयसम्यक्त्वबलात्प्रतीमो, मवादृशानां परमस्वभावम्। कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तब शासनाय|| नमोऽस्तु तस्मै जिनशासनाय।। Page #70 --------------------------------------------------------------------------  Page #71 -------------------------------------------------------------------------- ________________ श्रुत Messengers ज्ञानखाता माथी Page #72 -------------------------------------------------------------------------- ________________ - 360 दिवसमां 720 वार चोलाती सयणासण...' गायानो अर्थ शुंतमे जाणो यो? - जाणवा उत्तां अनु चिन्तन तमे कर्युवे? चिन्तन करवा उत्तां | अनु अमलीकरण जीवनमा थयु? - शुं जीवन ते-ते दैवसिक-रात्रिक पापना अतिचारोयी अटकयु नहीं तो उपाडो आ पुस्तक, ओनो अर्थ समझो अने बर्नी जाओ शुद्ध।