SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ आश्रित्य सुखेनैव दोषान् स्मरेयुः । सा च गाथा इयम्। सयणासणन्नपाणे, चेइअजइसिज्जकायउच्चारे। समिभावणागुत्ती, वितहायरणंमि अइयारो ।। अस्या गाथायाः प्रथमं भावार्थ: प्रतिपाद्यते । 1 शयनं, 2 आसनं, 3अन्नं, 4पानं, 5 चैत्यं, 6 यतिः, 7 शय्या, 8कायिका, 9उच्चारः, 10समिति, 11भावना, 12गुप्तिश्च इति द्वादश पदार्थाः । एतेषु पदार्थेषु यद् वितथाचरणं, तद् अतिचारो भवति। वितथाचरणं नाम विपरीतमाचरणम्। एतेषु यत् कर्त्तव्यं तन्न कृतं यच्च न कर्त्तव्यं तत्कृतं, तद् वितथाचरणं, तदेव चातिचार इति । अधुना विस्तरार्थः प्रतिपाद्यते । (1) तत्र प्रथमः पदार्थः 'शयनम्' । * शयनं नाम संस्तारकः, तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं संभवति। * शयनं न प्रतिलेखितं, अविधिना वा प्रतिलेखितम्। * शयनभूमिमप्रमृज्यैव शयनमास्तृतम्।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy