SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ साधवः प्रातःकाले रात्रिकप्रतिक्रमणे रात्रिदोषान् गुरुं कथयन्ति, सायंकाले च दैवसिकप्रतिक्रमणे दिवसदोषान् गुरुं कथयन्ति। एतत्कथनमेव 'आलोचना' इति कथ्यते। एतदालोचनाकरणार्थमेव च ‘राइअं आलोउं' 'देवसिअंआलोउं,' इति आदेशं साधवो गुरुसमीपे याचन्ते। तत्र 'राइअं आलोउं' इति वाक्यस्यायमर्थो यदुत 'हे गुरो! भवान् अनुजानातु, अहं रात्रिकदोषान् आलोचयामि' इति। तथा 'देवसिअं आलोउं' इति वाक्यस्यायमर्थो यदत हे गुरो! भवान् अनुजानातु, अहं दिवसदोषान् आलोचयामि' इति। तत्पश्चाद् यदि गुरुरनुजानीयात्, तर्हि साधवो दोषान् कथयन्ति। __परन्तु साधवो यदि न जानन्ति यदत 'रात्रौ दिवसे वा मया के दोषाः सेविताः?' तर्हि ते तान् दोषान् कथं कथयेयुः? यदि च साधवः तदैव दोषान् स्मृत्वा स्मृत्वा कथयेयुः, तर्हि महान् कालविलम्बो भवेत्। एतच्च नोचितम्। तस्मादालोचनायाः प्रागेव साधवः कायोत्सर्गे स्थित्वा रात्रिदोषान् दिवसदोषांश्च चिन्तयन्ति, मनसि धारयन्ति च, येन तदनन्तरं आलोचानाकालेऽविलम्बमेवालोचनां कर्तुं शक्येत। परन्तु अनाभोगादिकारणवशाद् रात्रिदोषा दिवसदोषाश्च स्मर्तुं न सुकराः। जीवा हि अल्पक्षयोपशमादिकारणाद् विस्मरणशीलाः, ततश्च 'दोषानां स्मरणं सुकरं स्याद्' इत्येतदर्थं एका संग्रहगाथा कृता। येषु येषु पदार्थेषु दोषानां संभवः, तेषां तेषां पदार्थानां अस्यां गाथायां संग्रहः कृतः, येन साधवस्तान् तान् पदार्थान्
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy