________________
* 'शयनं सोत्तरपट्टकं कृत्वैव भूमौ आस्तरणीयं इति विधिः, परन्तु प्रथमं शयनं आस्तीर्य पश्चात्तदुपरि
उत्तरपट्टकोऽऽस्तृतः।
* उत्तरपट्टकं अनास्तीर्यैव शयने शयनं कृतम् ।
* दिवसकाले शयनं समास्तृतं, तत्र च शयनं कृतम् ।
* रात्रौ उचितसमये 'संथारा पोरिसी' विधिं कृत्वैव शयनमास्तरणीयं, परन्तु तमकृत्वैव शयनमास्तृतम्। यदि
वोचितसमयात्प्राक्पश्चाद् वा शयनमास्तृतम्।
* शास्त्रोक्तप्रमाणादधिकमूनं वा शयनं रक्षितम् (धृतम् ) ।
* अन्यसाधोः शयनं गृहीतं, तस्य चोपयोगः कृतः ।
* रत्नाधिकस्य अन्यस्य वा शयने पादादिस्पर्शोऽभवत् ।
* एवमादयो बहवोऽतिचाराः शयनविषये स्वयमपि विचारणीयाः ।
* 'शयनं नाम स्वापोपयोगी संस्तारकनामक उपकरणविशेष' इति न विस्मरणीयम् ।
(2) द्वितीयः पदार्थः 'आसन' मस्ति ।
आसनं नाम उपवेशनोपयोगी काष्ठोर्णादिमय उपकरणविशेषः । तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं
संभवति ।