SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ * 'शयनं सोत्तरपट्टकं कृत्वैव भूमौ आस्तरणीयं इति विधिः, परन्तु प्रथमं शयनं आस्तीर्य पश्चात्तदुपरि उत्तरपट्टकोऽऽस्तृतः। * उत्तरपट्टकं अनास्तीर्यैव शयने शयनं कृतम् । * दिवसकाले शयनं समास्तृतं, तत्र च शयनं कृतम् । * रात्रौ उचितसमये 'संथारा पोरिसी' विधिं कृत्वैव शयनमास्तरणीयं, परन्तु तमकृत्वैव शयनमास्तृतम्। यदि वोचितसमयात्प्राक्पश्चाद् वा शयनमास्तृतम्। * शास्त्रोक्तप्रमाणादधिकमूनं वा शयनं रक्षितम् (धृतम् ) । * अन्यसाधोः शयनं गृहीतं, तस्य चोपयोगः कृतः । * रत्नाधिकस्य अन्यस्य वा शयने पादादिस्पर्शोऽभवत् । * एवमादयो बहवोऽतिचाराः शयनविषये स्वयमपि विचारणीयाः । * 'शयनं नाम स्वापोपयोगी संस्तारकनामक उपकरणविशेष' इति न विस्मरणीयम् । (2) द्वितीयः पदार्थः 'आसन' मस्ति । आसनं नाम उपवेशनोपयोगी काष्ठोर्णादिमय उपकरणविशेषः । तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं संभवति ।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy