SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ * भूमिमप्रमृज्यैवासनस्यास्तरणं कृतं, अविधिना वा प्रमृज्य कृतम्। * आसनस्य प्रतिलेखनं न कृतम्। * रत्नाधिकस्यान्यस्य वाऽऽसने पादादिस्पर्शोऽभवत्। * रत्नाधिकेभ्यः सकाशाद् अधिकमूल्यं आकर्षकं अधिकमृदु वा आसनं धृतम्। * कार्यार्थं आसनादुत्थाय कुत्रचिद् गत्वा, कार्यं कृत्वा पश्चादागम्यऽऽसनं उत्थाप्य निरीक्ष्य च भूमिं प्रमृज्य च पुनरासनं तत्र आस्तरणीयम्' इति विधिः। स न कृतः। एवमादयो बहवोऽतिचारा आसनविषये सम्भवन्ति। अधुना तु प्रायः सर्वत्र प्लास्टीकधातुनिर्मितं 'खुरशी' नामकं आसनं दृश्यते, तच्च सिंहासनसदृशं साधूनां अनुचितमिति बोध्यम्। ततश्च तदुपयोगोऽप्यतिचार एव। वृद्धत्वग्लानिप्रभृतिकारणवशाद् यदि तस्योपयोगोऽऽवश्यकः स्यात्, तदाऽपि रत्नाधिकस्याग्रे तदुपयोग 'उच्चासन' नामकातिचारस्य कारणमिति पुष्टालम्बने सति तथैव तदुपयोगः कर्तव्यो यथा रत्नाधिकस्याविनयो न भवेत्। तदर्थं तु यत्र रत्नाधिकस्य दृष्टिपातो न भवेत्, तत्र तदुपयोगः कर्त्तव्यः, यदा तु तत्स्थानाद् गमनागमनकाले रत्नाधिकस्य दृष्टिरापतेत्, तदा शीघ्रमभ्युत्थानं कर्त्तव्यम्।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy