SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ एवं 'पाटनामकस्योपकरणस्यापि शेषकाले चातुर्मासे च उपयोगो वर्जनीय एव, केवलं चातुर्मासे रात्रौ स्वापायैव तदुपयोगः कर्त्तव्यः' इति। (3) तृतीयः पदार्थः 'अन्नं' अस्ति। अन्नं अत्र अशनखादिमस्वादिमरुपं बोध्यम्। तस्मिन्विषयेऽनेन प्रकारेण वितथमाचरणं सम्भवति। * अन्नं अधिकमात्रया भक्षितम् । * अन्नं आधाकर्माद्यन्यतरदोषयुक्तं भक्षितम्। * अन्नं रागादिदोषेण भक्षितम्। * इष्टस्यान्नस्य प्राप्त्यर्थं अषाढाभूतिवत्कपटमाचरितम्। * अनिष्टस्यान्नस्य निन्दा गर्दा च कृता। निन्दा मनसा, गर्दा वाचा।' * अनिष्टस्यान्नस्य परिष्ठापनं कृतम्। * भोजनमंडल्यांग्लान्यादिकारणं आलम्ब्येष्टमन्नं गृहितं, अनिष्टं च निषिद्धम्। तच्च कारणं यदि वास्तविकं, तर्हि न दोषः, अन्यथा तु मायाचारः। * स्वादोत्पादनार्थं दुग्धशर्करयोः मण्डकघृतयोः स्वयं संयोजनं कृतं, अन्येन वा कारितं, केनचित्कृतं वानुमोदितम्। एवमन्येष्वपि पदार्थेषु बोध्यम्।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy