SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ * कुत्रचित्स्थाने नमस्कारसहितायां संखड्यां इष्टमन्नं ज्ञात्वा एकाशनकं विहाय द्वयशनकं कृतम्। एवं सायंकालसंखड्यां इष्टमन्नं ज्ञात्वा तत्कालेऽन्नं भक्षितम्। तदर्थं च एकाशनकं त्यक्तम्। तदर्थं च ग्लान्यादिरुपं किमपि कपटं कृतम्। * गोचरीचर्या न कृता। उपाश्रय एव गृहस्थैः आनीतमन्नं गृहीतम्। * आसक्तिपरवशताकारणाद् भक्ष्याभक्ष्यविवेकः सचित्ताचित्तविवेकः स्वगच्छसामाचारीविवेकश्च न कृतः। अर्थाद् अभक्ष्यमपि सचित्तमपि स्वगच्छसामाचारीविपरीतमपि च गृहीतं भक्षितं च। ____ अधुना तु 'बुंदीलाडु, चुरमालाडु' इत्यादिपदार्थाः प्रायोऽभक्ष्या एव भवन्ति। एवं उपधान-संघ-तपश्चर्या प्रभृतिप्रसंगेषु या संखडि भवति, तस्यां यदि रात्रौ एव भोजनं पच्यते, तदा भृशमयतनासद्भावात्तत्र गोचरीग्रहणमनुचितमेवेति। एवं दिवससमये पाककरणेऽपि अधुना प्रायः कर्मकरा एव संखड्यां पाकं कुर्वन्ति, ते च प्रायो यतनाज्ञानरहिताः, अथवा यतनाज्ञानसत्त्वेऽपि वेतनमात्रासक्ता यतनां नैव कुर्वन्तीति तत्राऽपि प्रभूतायतनासद्भावाद् गोचरीग्रहणमनुचितमेवेति। एवमादयो बहवोऽतिचारा अन्नविषये सम्भवन्ति। 4) चतुर्थः पदार्थः ‘पानं' अस्ति।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy