________________
राइअ' इत्यादि दण्डकसूत्रं पठनीयम्' इति। तेन च ज्ञायते यदुत तत्काले 'अचक्खुविसय हुओ' इत्येतत्पर्यन्तमेव रात्रिकातिचारसूत्रमासीत्। ततश्च साम्प्रतं यदधिकं दृश्यते, तत्सर्वं संविग्नगीतार्थसमाचीर्णं लक्ष्यते।
तथा वर्तमानकाले यानि विभिन्नानि श्रमणोपयोगिआवश्यकसूत्रसमन्वितानि पुस्तकानि दृश्यन्ते, तेष्वपि न समानः पाठ उपलभ्यते। यस्मात् कुत्रचित् 'सुहने स्वप्नान्तर...' इत्यादिकमस्ति, कुत्रचिच्च 'सुहने' इति पदं नास्ति। कुत्रचिद् 'न कीधु' पाठोऽस्ति, कुत्रचिच्च कीधु नहीं' इति पाठोऽस्ति।
यद्यपि अमुकेषु पाठभेदेषु अर्थभेदो नानुभूयते, तथापि यदि आवश्यकादिसूत्राणां पाठाभेदो भवेत्, तर्हि सुष्ठ एव। यतः पाठभेदे सति कः पाठः सत्यः?' इति शङ्का, परस्परं संक्लेश इत्यादीनां दोषाणां संभवः। परन्तु यदि पाठस्याभेदः कर्तुं न शक्येत, तर्हि एकतरं पाठं गृहीत्वाऽर्थकरणं अनिवार्यम्। ततश्चात्र यः पाठः समादृतः तस्मादन्यपाठं दृष्ट्वा व्यामोहो न कार्यः। स्वसामाचारीगृहीत एव पाठः समादरणीय इति प्रस्तावना।
अधुना रात्रिकातिचारपदानां भावार्थः प्रतिपाद्यते।
'संथारा उबट्टणकी' इति। रात्रौ संस्तारके उद्वर्तना कृता। उद्वर्तना नाम एकपाश्र्वात्पाश्र्वान्तरे भवनम्। दक्षिणपाद्विामपार्वे वामपादिवा दक्षिणपार्वे भवनमिति।
'परिअट्टणकी' इति। संस्तारक एव उद्वर्तनां कृत्वा पुनः मूलपार्वे भवनं परिवर्तना। यदि तत्पश्चात् पुनः मूलपात्पिाश्र्वान्तरे भवनं स्यात्, पाश्र्वान्तराच्च पुनः मूलपार्वे भवनं स्यात्, तर्हि तत्सर्वं परिवर्तनवोच्यते।