________________
संथारा उलट्टणकी, परिअट्टणकी, आउंटणकी पसारणकी, छप्पइयसंघट्टणकी, अचक्युविषय हुओ। संथारो उत्तरपट्टो टलतो अधिको उपकरण वावों। शरीर अणपडिलेडं हलाव्युं। मानु अणपूंज्यु लीधुं, अणपूंजी भूमिका परठव्यु। परठवता अणुजाणह जस्सुग्गहो न कीधो, परठव्या पुंठे वार त्रण बोसिरे वोसिरे न कीर्छ। संथारा पोरिसी भणाव्या विना सूता। कुस्वप्न लाध्यु, सपनान्तरमांहि शियल तणी विराधना हुइ। मन आहट्ट दोहट्ट चिंतव्यु। संकल्प विकल्प कीघो। रात्रिसंबंधी जे कोई अतिचार लाग्यो होय, ते सवि हुँ मन-वचन-काया करी मिच्छामि दुक्कडं।
साम्प्रतं इदमतिचारसूत्रमुच्चार्यते। तत्र संथारा उव्वट्टणकी' इत्यस्मात्पदादारभ्य 'छप्पइयसंघट्टणकी' इति पदं यावत् प्राकृता भाषाऽस्ति। 'अचक्खुविषय' इत्यादि सर्वं तु गुर्जरभाषानिबद्धमस्ति। धर्मसंग्रहग्रन्थे तु अस्मिन्सूत्रे कियद्भेदोऽस्ति। तथाहि-तत्र 'संथारा उव्वट्टण किअ, परिअट्टण किअ, आउंटण किअ, पसारण किअ, संघट्टण किअ', इत्येतादृशः पाठो विद्यते। अर्थात् 'उव्वट्टणकी' इति नास्ति, किन्तु उवट्टण किअ' इत्यस्ति। तट्टीकायामपि 'उद्वर्तना कृता' इत्याद्येव लिखितमस्ति। अर्थात् किअपदस्य कृता' इत्यर्थः कृतोऽस्ति।
तथा धर्मसंग्रहटीकायान्तु लिखितं यदुत अचक्खुविषय हुओ' इत्येतावत्पर्यन्तं दण्डकसूत्रमुक्त्वा सव्वस्स वि