SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ प्रथमं पार्श्वपरिवर्तनं उद्वर्तनं, तत्पश्चाद् यानि पार्श्वपरिवर्तनानि तानि सर्वाणि परिवर्तनेति गर्भार्थः । 'आउंटणकी' इति। संस्तारक एव शीतादिकारणवशात्पादादीनां संकोचनं आकुंचनम्। 'पसारणकी' इति। संस्तारक एव संकोचनजन्यायाः प्रतिकूलताया निवारणार्थं पादादीनां विकास करणं प्रसारणम्। 'छप्पइयसंघट्टणकी' इति। वस्त्रमस्तकत्वचादिषु जायमानानां षट्पदिकानामकजन्तुविशेषाणां संघट्टनमिति। एतदपि संस्तारक एवावगन्तव्यम्। प्रश्नः षट्पदिकासंघट्टनं दोष इति तु स्पष्टमेव, परन्तु उद्वर्तना, परिवर्तना, आकुंचनं, प्रसारणं चेति चत्वारि किमर्थं दुष्टानि ? जीवविराधनाऽभावात्। उत्तरः सत्यं, यदि तानि उद्वर्तनादीनि प्रमार्जनादिरूपं विधिं विनैव क्रियते, तर्हि तानि दुष्टानि, अविध जीवविराधनायाः संभवात्। प्रश्नः अविधौ क्रियामणेऽपि जीवविराधना यदि न स्यात्, तर्हि को दोषः ? तदाऽपि उत्तरः प्रमाद एव महान् दोषः। अत एव विधौ क्रियमाणे यदि केनचित्कारणेन जीवविराधना स्यात्, 'अप्रमाद' इति कृत्वा न कोऽपि दोषः । किंच संलीनतारुपस्य तपस आराधनार्थं उद्वर्तनापरिवर्तनादीनि त्याज्यान्येव ततश्चाप्रमादमार्गप्रवृत्तानां
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy