________________
साधूनां विधिना उद्वर्तनादीन्यपि सूक्ष्मप्रमादरुपाण्येव। ततश्चोद्वर्तनादीनि दुष्टानि।
संलीनता नामांगोपांगानां सङ्कोचनम्। यथावस्थितं धरणमिति भावः।
प्रश्नः संस्तारक उद्वर्तनादिषु क्रियमाणेषु यत् षट्पदिकानां संघट्टनं कृतं तदेव दोषः, इति अर्थः किं न क्रियते? किमर्थं उद्वर्तनादीनां स्वतन्त्रदोषत्वं इष्यते?
उत्तरं : धर्मसंग्रहे महोपाध्यायमानविजयैः उद्वर्तनादीनि स्वतन्त्रदोषरूपाणि गृहीतानि, तस्माद् अस्माभिरपि तथैव कृतम्।
एवं रात्रिकातिचारगतानि प्राकृतपदानि विवृत्याधुना गुर्जरभाषापदानि विव्रीयते। 'अचक्युविषय हुओ' इति। चक्षुरदृष्टे स्थाने प्रश्रवणं (मात्रु) कृतम्। प्रश्नः रात्रौ चक्षुषा स्थानं न दृश्यत एव, तत्रास्माकं को दोषः? नास्माकमत्र विषये प्रमादः।
उत्तरंः सत्यम्। रात्रौ यस्मिन्स्थाने कायिका) गन्तव्यं, तत्स्थानं सूर्यास्तात्प्रागेव निरीक्षणीयम्। यदि तत्र कीटिकादिनगरं स्यात्, तर्हि रात्रौ तत्र न गम्यते। कीटिकादिरहितस्थान एव गम्यते। इत्थं च सूर्यास्तात्प्राक् कायिकाभूमेश्चक्षुषाऽनिरीक्षणमेवात्र मुख्यो दोषः। किंच रात्रावपि चन्द्रतारकादिप्रकाशसहायेन किंचिद् द्रष्टं शक्यमस्ति। अतो यथाशक्यं रात्रावपि चक्षुषा निरीक्षणे प्रयत्नः कर्तव्य एव, तदकरणे तु अतिचारः।
'संथारो उत्तरपट्टो टलतो अधिको उपकरण वावों' इति। रात्रौ विश्रामार्थं संस्तारक उत्तरपट्टकश्चेति द्वौ