SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ एव अनुज्ञातो भगवता । ततश्च तदधिकोपकरणस्योपयोगो यदि क्रियते, तर्हि दोषः स्यात् । प्रश्नः कानि तानि उपकरणानि येषामुपयोगे दोषो गण्यते ? उत्तरः 'पाट' इतिनामकं काष्ठोपकरणं, कोमलस्पर्शार्थं शीतरक्षार्थं वा 'धाबडो' इतिनामकमुपकरणं, क्षुद्रजन्तूपद्रवनिवारणार्थं, 'मच्छरदानी' इतिनामकमुपकरणं, क्षुद्रजन्तुनिवारणार्थं 'नारंगीतेलप्रभृतिनामको लेपविशेषः....' इत्यादीनि यदि व्याप्रियन्ते, तर्हि प्रकृतो दोषो भवेत् । प्रश्नः कोमलस्पर्शादिकरणार्थं अधिकोपकरणोपयोगेऽवश्यं दोषः, परन्तु शीतादिनिवारणार्थं अधिकोपकरणोपयोगे को दोषः ? अपवादो हि मार्गः, न तु दोषः । उत्तरः सत्यम्। यथा सहनशक्तौ सत्यां बुभुक्षायां सत्यामपि भोजनाकरणं, सहनशक्ती असत्यां तु निर्दोषभोजनकरणं, एतौ द्वौ अपि पदार्थों बुभुक्षाविजयो गण्येते, एवं शीतसहनशक्तौ सत्यां अधिकोपकरणं वर्ज्यमेव, असत्यां तु कम्बलादिवस्त्रोपयोगकरणेऽपि न दोषः, अपि तु परिषहजय एव । कम्बलादीनि शीतरक्षार्थं भगवतोक्तान्येव । 'धाबडो' इत्याद्युपकरणं तु गृहस्थसम्बन्धि भवेत्, तस्मात्तदुपयोगे परिषहजयो न गण्यते, परन्तु शीताधिकतायां सहनशीलताऽल्पतायां च तदुपयोगोऽपवादो गण्यते । एवं क्षुद्रजन्तूपद्रवे सति यदि सहनशक्तिर्भवेत्, तर्हि सोढव्यमेव यदि तु न सह्येत, तर्हि 'मच्छरदानी'
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy