SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ नामकोपकरणोपयोगोऽपवाद इति प्रतिभाति। प्रश्नः मच्छरदानी उचिता, लेपो वोचितः? उत्तरंःमच्छरदानी अधिकोपकरणरुपा भवति, ततश्च यद्यपि परिग्रहदोषो भवति, तथाऽपि 'चश्मा'प्रभृतिउपधिवत् साऽपि औपग्रहिकोपधिरुपा गणयितुं शक्यते। लेपस्तु क्रीतेनाभ्यहृतेन स्थापनादोषेण दुष्टो भवति। तथा एते सर्वेऽपि दोषा वारंवारं सेवनीया भवन्ति, यस्माद् लेपस्तु भोगयोग्यः पदार्थ एकवारमेवोपयुज्यते, न तु मच्छरदानीवत् पंचादिवर्षं यावत् । तथा लेपस्य फलं प्रहरं यावदेव प्राप्यते, तदनु तु प्रायः पुनः क्षुद्रजन्तूपद्रवः सम्भवत्येव। ततश्च लेपोपयोगे यथेष्टफलं न भवति। प्रश्नः मच्छरदान्युपयोगे अनवरतं वायुकायविराधनारुपो दोषोऽस्त्येव, ततश्च साऽपि कथं निर्दोषा? उत्तरः सत्यम्। अत एव साऽपि अपवादरुपैव स्यात्, न तु परिषहविजयरुपा। यदि तु शास्त्रोक्तस्य कम्बलस्य सूत्रमयकल्पद्वयस्य वोपयोगेनैव क्षुद्रजन्तुनिवारणं क्रियते, तर्हि स परिषहविजय एव। इत्थं च त्रयः पदार्थाः प्रसिद्धाः, (1) परिषहसहनं श्रेष्ठः परिषहविजयः (2) निर्दोषप्रकारेण परिषहनिवारणं सामान्यः परिषहजयः (3) कारणे सति यतनापूर्वकं किंचिद्दोषयुक्तं परिषहनिवारणं अपवादः। एतेषु दोषो नास्ति। यदि तु कारणं विना दोषयुक्तं परिषहनिवारणं, तर्हि महान् दोषः। यदि तु कारणे सत्यपि यतनारहितं दोषयुक्तं
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy