SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ तत्, तर्हि अतिचार इति संक्षेपः। 'शरीर अणपडिला हलाव्यु' इति। प्रतिलेखनमकृत्वैव शरीरं चालितमिति। प्रश्नः प्रतिलेखनं नाम चक्षुषा निरीक्षणं, तच्च रात्रौ असम्भवि, ततश्च कथमेष दोषः? उत्तरः सत्यम्। प्रतिलेखनपदेन प्रमार्जनं ग्राह्यम्। तथा च रात्रौ शरीरस्य तदवयवस्य वा चालनायावश्यं प्राग् रजोहरणेन प्रमार्जनं कार्यम्। प्रश्नः किं केवलं रजोहरणेनैव कार्यम् ? उत्तरं न, नाभेरुपरितनो भागो मुखवस्त्रिकया, अधस्तनस्तु भागोरजोहरणेनेति। प्रश्नः एतस्य किं कारणम्? उत्तरंः यदधोभाग उपयुज्यते, तल्लोके जुगुप्सितं गण्यते। ततश्च लोके तादृशेन वस्तुना उपरितनभागस्य । स्पर्शो न क्रियते। न हि उपानत् केनचिन्मस्तकादिषु धार्यते, स्पृश्यते वा। तथा चाधोभाग उपयुज्यमानं रजोहरणं न शरीरस्योपरितने भागे व्याप्रियते। ततश्चोपरितनो भागो मुखवस्त्रिकया प्रमार्जनीय इति। प्रश्नः रात्रौ न कश्चिल्लोकोऽस्मान्पश्यति, ततश्च रात्रौ रजोहरणेनोपरितनभागप्रमार्जने को दोषः? उत्तरंः रजोहरणेनाधोभागं एव प्रमार्जनीय इति हि सामाचारी निर्णीता, ततश्च रात्रौ लोकाऽभावेऽपि रजोहरणेनोपरितनभागप्रमार्जने सामाचारीभङ्गरुपो दोषो दुर्निवार इति।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy