SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ किंच रात्रौ रजोहरणेनोपरितनभागस्य प्रमार्जने क्रियमाणे तत्संस्कारवशात् कदाचिद्दिवसेऽपि लोकसंमुखं अपि तद् भवेत्, ततश्च लोके शासनहीलना संभवेत्, यदुत 'जुगुप्सितं वस्तु एते साधवः शरीरोपरितने भागे स्पर्शयन्ति, धिगेतान्' इत्यादि । प्रश्नः शरीरचालनरूपोऽयं दोषः किं संस्तारक एव, अन्यत्रापि वा ? उत्तरः संस्तारके तु उद्वर्तनपरिवर्तनसंकोचनप्रसारणरूपाणि शरीरचालनानि प्रदर्शितान्येव, संस्तारकाद् बहिःस्थानेऽपि यानि कानिचिच्चालनानि तानि अनेन ज्ञातव्यानि । ततश्च रात्रौ 'मात्रु अणपूज्य लीधुं, अणपूंजी भूमिकाओ परठत्युं । परठवता अणुजाणह जस्सुग्गहो न कीधो, परठव्या पुंठे वार त्रण वोसिरे वोसिरे न कीधुं' इति। कायिकापरिष्ठापनसम्बन्धी विधिरत्र प्रतिपादितोऽस्ति । प्रमार्जनमकृत्वैव कायिका गृहीता, भूमिमप्रमृज्यैव कायिका परिष्ठापिता। परिष्ठापनक्रियायाः प्राग् 'अणुजाणह जस्सुग्गहो' इति नोच्चारितम् । परिष्ठापनक्रियायाः पश्चात् त्रिकृत्वो 'वोसिरे' इतिपदं नोच्चारितम् । इत्थं चात्र चत्वारो दोषाः प्रदर्शिताः । प्रश्नः प्रथमेऽतिचारे कायिकायाः प्रमार्जनपूर्वकं ग्रहणं उक्तं, परन्तु तदसम्भवि । द्रवरुपायाः कायिकायाः
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy