SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रमार्जनपूर्वकग्रहणस्यासङ्गतत्वात्। ____ उत्तरंः सत्यम्। 'प्यालो'नामके यस्मिन्वस्तुविशेषे कायिका क्रियते, तदपेक्षया प्रमार्जनपूर्वकग्रहणं कर्तव्यम्। अर्थात् कायिकाकरणात्प्राक् तन्मात्रकं (प्यालो) प्रमार्जनीयम्। यदि हि न प्रमाय॑ते, तर्हि तदन्तर्गता जीवाः कायिकया उपहता भवन्ति। तथा सर्पवृश्चिकादिभिर्दशनादिकमपि स्यात्, ततश्च कदाचिन्मरणमपि भवेत्। प्रश्नः मात्रके कायिका किमर्थं क्रियते? उत्तरंः यदि कायिकायाः शीघ्रशङ्का स्यात्, ततश्च कायिकाभूमिं यावद् गत्वा तत्करणं अशक्यं स्यात्, तर्हि मात्रके कायिका क्रियते। यदि वा कायिकाभूमिस्थाने गृहस्थाःस्युः, ततश्च तत्र कायिकाकरणमशक्यं स्यात्, ततश्च मात्रके कायिका क्रियते, तदनन्तरं च गृहस्थाभावस्थाने उचितरीत्या परिष्ठाप्यते । ___ प्रश्नः कायिकाभूमेः प्रमार्जनाकरणं द्वितीयोऽतिचार उक्तः। किं कायिकाभूमेः रजोहरणेन प्रमार्जनमुचितम् ? रजोहरणं हि पवित्रतमं उपकरणं, कायिकाभूमिश्चात्यन्तमपवित्रेति। उत्तरंः रजोहरणं यदि जीवरक्षार्थमुपयोगि भवेत्, तदैव पवित्रतममुपकरणम्। अन्यथा तु तदधिकरणमेव। ततश्च यदि कायिकाभूमिमपवित्रां मत्वा रजोहरणेन न प्रमार्जनं क्रियते, तर्हि संयम एवापवित्रो भवति। यदि तु सा भूमिः स्निग्धा, तदा तत्र न प्रमार्जनीयम्। अन्यत्र गत्वा शुष्कभूमिं प्रमार्ण्य परिष्ठापनीयम्। प्रश्नः अणुजाणह जस्सुग्गहो' इति वाक्यस्य कोऽर्थः? एतच्च वाक्यं कथं कदा च उच्चारणीयमिति?
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy