SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ भावोत्पादो दुष्करोऽभवत्, तस्मात् तत्सूत्रं उच्चायैव प्राकृतगुर्जरभाषाप्रतिबध्दं रात्रिकातिचारसूत्रमपि उच्चारणीयम्' । इति संविग्नगीतार्थनिर्णीतम्। येन साधूनां पश्चात्तापादिभावोत्पादः स्यात्। दैवसिकातिचारसूत्रेऽप्येतदेव विचारणीयम्। अत एव कारणात् श्रावकाणामपि 'सात लाख' सूत्रं पहेले प्राणापिात' सूत्रं उच्चार्यतया निर्णीतमिति सम्भाव्यते। तथा हि श्रावका अपि प्राग् 'राइअं आलोउं' इत्यादि सूत्रानुसारेणैवालोचनामकुर्वन, परन्तु कालातिक्रमेण प्राकृतभाषाज्ञानाभावेन तेषामपि प्रस्तुतसूत्रात्मकालोचनायां भावोत्पादो दुष्करोऽभवत्, ततश्च संविग्नगीताथैः गुर्जरभाषानिबध्दं सूत्रद्वयं तेषामुच्चार्यतया निर्णीतमिति। न केवलमेतावदेव, परन्तु 'पाक्षिकातिचारोऽपि साधूनां श्रावकाणां च गुर्जरभाषानिबध्दं एतदर्थमेव कृत' इति सम्भाव्यते। तथा चायं सारः, प्राक्काले साधूनां श्रावकाणां च आलोचनासूत्रं प्राकृतभाषायामेवासीत्, परन्तु कालानुसारेण तद्भाषाज्ञानाभावकारणेन संविग्नगीताथैः सर्वेषामर्थं रात्रिकप्रतिक्रमणे दैवसिकप्रतिक्रमणे पाक्षिकादिप्रतिक्रमणे च गुर्जरभाषायामालोचनासूत्रं गुम्फितमिति। अत एव दक्षिणभारतादिस्थानेषु गुर्जरभाषाज्ञानाभाववतां श्रावकाणां हितार्थं हिन्दीभाषानिबध्दमपि आलोचनासूत्रमुपलभ्यते, उच्चार्यमाणं च श्रूयत इति।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy