SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उत्तरः स्थिरोऽध्यावसायो ध्यानं, अस्थिरोऽध्यवसायस्तु चित्तम्। 'मन आहट्ट' इत्यादिना दुर्ध्यानद्वयं निरुपितम्। 'संकल्प' इत्यादिना तु दुश्चित्तद्वयं निरुपितमिति प्रतिभाति। अथवा 'आहट्ट-' इत्यादि सामान्येन दुर्व्यानवर्णनम्। 'संकल्प...' इत्यादि तु विशेषेण दानवर्णनम्। 'रात्रि सम्बन्धी जे कोई अतिचार लाग्यो होय, ते सवि हं मन-वचन-काया करी मिच्छामि दुलडं' इति। रात्रिसम्बन्धिनो ये केचिदतिचारा अभवन्, तान् सर्वानपि आश्रित्य मनसा वचसा कायेन च 'मिच्छा मि दुक्कडं' ददामि। अर्थात् 'मनोवाक्कायैः तान्निन्दामि, गर्हामि, पुनर्न करिष्यामि' इति नियमं च गृह्णामीति। प्रश्नः 'मिच्छा मि दुक्कडं' इत्यस्य कोऽर्थः? उत्तरः ‘मिथ्या मे दुष्कृतं' इति तस्य संस्कृतछाया। ममेदं पापं निष्कलं भूयात्, दुर्गत्यादिरुपं फलं न स्यात्, इति तु तस्य भावार्थः। तथा च रात्रिकातिचारवृत्तिः समाप्ता, तथाऽपि किंचिदुच्यते। प्रश्नः प्राकृतगुर्जरभाषामिश्रितमेतत् किमर्थम्? उत्तरः प्राक्काले तु 'इच्छाकारेण संदिसह भगवन्! राइअं आलोउं?' इत्यादिसूत्रेण प्राकृतभाषयाऽऽलोचनाऽऽसीत्, परन्तु कालक्रमेण बहूनां साधूनां प्राकृतभाषाज्ञानाभावेन प्रस्तुतालोचनायां
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy