SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ * कायिकायुक्तं मात्रकं न स्थगितम्(छादितं)। * कायिकां परिष्ठाप्य मात्रकं वस्त्रादिना शुष्कं न कृतम्। * भूमिमात्रकयोर्मध्ये अंगुलचतुष्कादधिकमन्तरं कृत्वा कायिका परिष्ठापिता। * भूमौ मुहूर्तात्प्राक् कायिका शुष्का भवेत्, तथा न परिष्ठापिता। * सायंकाले कायिकापरिष्ठापनभूमिः सम्यग्न निरीक्षिता। * कायिकापरिष्ठापनानन्तरं ईर्यापथिकीक्रिया न कृता, अविधिना वा कृता। सर्वाऽपि क्रिया अप्रमत्तेनैव कर्तव्या, न तु उपवेशनादिप्रमादेन, किन्तु प्रमादः कृतः। एवमादयो बहवोऽतिचाराः कायिकाविषये सम्भवन्ति। इदमत्र बोध्यम्। कायिकापरिष्ठापनं कुर्वन्तं साधुं दृष्ट्वा यदि गृहस्थानां जुगुप्सा भवेत्, यथा धिग् नीचकुलोचितं कार्यं कुर्वत एतान् साध्वधमान्' इति तदा ते दुर्लभबोधीभवन्ति। तन्निमत्तीभूताश्च साधवोऽपि मिथ्यात्वं भजन्ति, तस्मात् केषामपि जुगुप्सा न भवेत्, शासनस्य अपभ्राजना न भवेत्, तथैव कायिका परिष्ठापनीया। शासनहीलनानिवारणार्थ सेव्यमानाः केऽपि दोषाः परमार्थतो न दोषा इति कदापि न विस्मरणीयम्। प्रत्युत अन्यदोषाणां निवारणे यदिशासनहीलना स्यात्, तर्हि महान् संसारो भवेदिति।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy