SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (7) सप्तमः पदार्थः शय्या' अस्ति। शय्या नाम वसतिः, उपाश्रय इति भावः। अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति। * यस्मिन्गृहे गृहस्था वसन्ति, तस्मिन्निवासः कृतः। * यस्मिन्नुपाश्रये स्त्रीरुपशब्दादिसम्पर्को भवति, तत्र निवासः कृतः। * धनराशिं संगृह्य स्वोपाश्रयः क्रीतः, तत्रान्येषां संयमिनां निवासो निषिद्धः। * प्रमार्जनं न कृतं, अविधिना वा कृतं, 'उपाश्रयः शुध्दो रक्षितव्य' इति विधिः। * उपाश्रये सुखशीलतार्थं द्वारादिकारापणम्। * उपाश्रये कर्मकरद्वारा प्रमार्जनं, जलेन शुद्धिः' इत्यादिक्रियायाः कारापणम्। तत्र च कीटिकादिजीवानां सचित्तजलस्य च वधोऽवश्यमेव स्यात्। स एव च तत्र दोषः। एवमादयो बहवो दोषा उपाश्रयविषये सम्भवन्ति। (8) अष्टमः पदार्थः 'कायिका' अस्ति। कायिका नाम लघुनीतिः, लघुशंका इत्यर्थः। साधुलोके मात्रु' इतिनाम्ना प्रसिद्धा। * मात्रके कायिकां कृत्वा मुहूर्तात्प्राग् न परिष्ठापितम्।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy