________________
* मुखवस्त्रिकां विनैव भाषणं कृतम् ।
* सत्यमपि क्रोधादिना भाषितम् ।
* संसारकार्याणि ज्योतिषादिविज्ञानेन प्रदर्शितानि ।
* आधाकर्मादयो भिक्षादोषाः सेविताः ।
* कस्यापि वस्तुनो ग्रहणे मोचने वा चक्षुषा प्रतिलेखनं रजोहरणादिना प्रमार्जनं च न कृतं, अविधिना वा
कृतम्।
* कर्णगतो नासिकागतश्चक्षुर्गतो मुखगतो नाभिगतोऽन्यो वा कोऽपि शरीरमलो यत्र तत्र परिष्ठापितः, रक्षादिषु न मिश्रितः ।
एवमादयो बहवोऽतिचाराः समितिविषये सम्भवन्ति।
(11) एकादशः पदार्थः 'भावना' ऽस्ति ।
मनसा सम्यग्भावानां चिन्तनं नाम भावना । सा चानेकप्रकारेण प्रतिपाद्यते । तथाहि - भावना द्वादशप्रकाराऽस्ति- 1. अनित्यत्वस्य, 2. अशरणस्य, 3. संसारस्य, 4. एकत्वस्य, 5. अन्यत्वस्य, 6. अशौचस्य, 7. आश्रवस्य, 8. संवस्य, 9. लोकस्य 10. बोधिदुर्लभत्वस्य, 11. तपसः, 12. धर्मस्य च भावना ।