________________
आसां स्वरूपमुत्तराध्ययनयोगशास्त्रप्रभृतिग्रन्थेभ्योऽवसेयम् । तथाऽपि संक्षेपेणात्र तासां स्वरुपं
प्रतिपाद्यते ।
- रविप्रकाशयुक्ते मार्गेऽधो दृष्ट्वा गमनमिर्यासमितिः ।
- प्रियं हितकारि सत्यं च वचनं भाषासमितिः ।
- द्विचत्वारिंशद् दोषरहिता भिक्षा एषणासमितिः ।
कस्यापि वस्तुन: चक्षुषा प्रतिलेख्य रजोहरणादिना प्रमार्ण्य च ग्रहणं मोचनं च आदानभाण्डमात्रकनिक्षेपणासमितिः ।
- कायिकोच्चारादीनामशुचीनां निर्दोषभूमौ परित्यजनं पारिष्ठापनिकासमितिः।
-
अस्यां समितौ अनेन प्रकारेण बहवो दोषाः सम्भवन्ति ।
* रविप्रकाशात्पूर्वं विहारः कृतः ।
* दिवसेऽपि उपाश्रये तमोयुक्ते तथाविधे स्थाने दंडासनेन प्रमार्जनमकृत्वैव गमनादिकं कृतम्।
* रात्रौ दंडासनस्योपयोगमकृत्वैव अविधिना वोपयोगं कृत्वा गमनादिकं कृतम्।
* विहारे परस्परं आलापसंलापविकथादयो दोषाः सेविताः ।