SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तथा भावना चतुष्प्रकाराऽप्यस्ति - 1. मैत्रीभावना, 2. प्रमोदभावना, 3. करुणाभावना, 4. माध्यस्थ्य भावना तथा भावना पंचविंशतिप्रकाराऽपि अस्ति । तथाहि - महाव्रतानि पंच सन्ति । प्रत्येकं पंच पंच भावनाः सन्ति। तत्र द्वादशभावनानां चतुर्भावनानां च स्वरुपं शान्तसुधारसग्रंथतोऽवसेयम् । पंचविंशतिभावनास्वरुपं योगशास्त्रादिग्रन्थेभ्योऽवसेयम् । अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति । * भावना उचितकाले सम्यक्प्रकारेण न भाविताः । च। (12) द्वादशः पदार्थः 'गुप्ति' रस्ति । गुप्तिर्नाम अशुभानां मनोवाक्काययोगानां निरोधः, शुभानां योगानां निरोधः, कारणे सति शुभानां योगानां प्रवर्तनं चेति । अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति । * कारणं विना मनोवाक्कायानां काऽपि प्रवृत्तिः कृता । * कारणे सति अपि उचिता प्रवृतिर्न कृता ।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy