________________
तथा भावना चतुष्प्रकाराऽप्यस्ति - 1. मैत्रीभावना, 2. प्रमोदभावना, 3. करुणाभावना, 4. माध्यस्थ्य भावना
तथा भावना पंचविंशतिप्रकाराऽपि अस्ति । तथाहि - महाव्रतानि पंच सन्ति । प्रत्येकं पंच पंच भावनाः सन्ति। तत्र द्वादशभावनानां चतुर्भावनानां च स्वरुपं शान्तसुधारसग्रंथतोऽवसेयम् । पंचविंशतिभावनास्वरुपं योगशास्त्रादिग्रन्थेभ्योऽवसेयम् ।
अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति ।
* भावना उचितकाले सम्यक्प्रकारेण न भाविताः ।
च।
(12) द्वादशः पदार्थः 'गुप्ति' रस्ति ।
गुप्तिर्नाम अशुभानां मनोवाक्काययोगानां निरोधः, शुभानां योगानां निरोधः, कारणे सति शुभानां योगानां प्रवर्तनं चेति ।
अस्मिन्विषयेऽनेन प्रकारेण दोषाः सम्भवन्ति ।
* कारणं विना मनोवाक्कायानां काऽपि प्रवृत्तिः कृता ।
* कारणे सति अपि उचिता प्रवृतिर्न कृता ।