SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रश्नः शास्त्रे तु अतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारश्चेति चत्वारो भेदा दृश्यन्ते । अत्र गाथायान्तु अतिचार एव किमर्थं गृहीतः ? उत्तरः अत्र द्वे विवक्षे स्तः, अतिक्रमादीनां चतुर्णां भेदानां निरुपणमेका विवक्षा, अतिचारानाचारयोः द्वयोर्निरुपणं द्वितीया विवक्षा । तत्र प्रथमविवक्षायां 'केन प्रकारेण दोषा वर्धन्ते ?' इति प्रतिपाद्यते । द्वितीयविवक्षायान्तु 'साधुता विद्यते न वा ? ' इति निर्णयप्रतिपादनम्। तथाहि-केनचिद् गृहस्थेनाधाकर्मनिमन्त्रणं कृतम् । तच्च साधुना स्वीकृतमिति अयं अतिक्रमः । तदनु आधाकर्मग्रहणाय पात्रकादिग्रहणं, गमनं, आधाकर्मग्रहणोत्सुक्तेति च व्यतिक्रमः । तदनु पात्र ग्रहणं, उपाश्रये प्रत्यागमनं, आधाकर्मभक्षणायोपवेशनमित्यादि चातिचारः । तदनु आधाकर्मभक्षणमनाचार इति । अत्र 'दोषवृद्धिः केन प्रकारेण भवति ?' इति स्पष्टं ज्ञायते । अत्र च विवक्षायां अतिक्रमव्यतिक्रमातिचारेषु न प्रायश्चित्तं, अनाचार एव च प्रायश्चित्तम् । यथा ऽऽधाकर्मात्मके उत्तरगुणेऽतिक्रमादिचतुष्कं प्रतिपादितं, तथैव हिंसादिषु मूलगुणेष्वपि तत्प्रतिपादनीयम्। शीतापनोदाय वह्निकरणशिक्षा केनचित्प्रदत्ता, तत्र च तथा करिष्यामि इति स्वीकृतं, अयं चातिक्रमः । तदर्थं काष्ठाद्यानयनस्य गमनं व्यतिक्रमः । काष्ठाद्यानीयैकत्र स्थापनं अतिचारः । काष्ठादिज्वालनमनाचारः ।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy