SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 'यः संज्वलनोदयोऽशुभं रागद्वेषं जनयति, तत्संज्वलनोदयाद् अतिचारा गण्यन्ते। यः संज्वलनोदयः शुभं रागद्वेषं जनयति, तत्संज्वलनोदयाद् अतिचारा न गण्यन्ते' इति संक्षेपार्थः। प्रभुभक्तौ गुरुवैयावच्चे शासनप्रभावनायां चैवमादिषु कार्येषु शुभौ रागद्वेषौ भवतः, ततश्च तत्र संज्वलनोदयादतिचारा न गण्यन्ते। अधिकनिद्रायां मिष्टान्नादिभक्षणे विकथायां चैवमादिषु कार्येषु अशुभौ रागद्वेषौ भवतः, ततश्च तत्र संज्वलनोदयादतिचारा गण्यन्ते। प्रश्नः अतिचारे सति चारित्रं विद्यते न वा? अर्थात् षष्ठं गुणस्थानं विद्यते न वा? उत्तरः अतिचारो हि संज्वलनोदयादेव भवति, न त्वन्यकषायोदयात्। संज्वलनोदये चावश्यं षष्ठादिगुणस्थानमेव भवति, न तु तदधो गुणस्थानानि। प्रश्नः संज्वलनभिन्नानां कषायाणां उदयः संजात' इति तु कथं ज्ञायते? उत्तरः परमार्थतो विशिष्टज्ञानिन एव जानन्ति यदुत ‘अस्यानन्तानुबन्ध्यादिकषायस्योदयो जातः, अस्य च संज्वलनस्य' इत्यादि। किन्तु व्यवहारतश्छद्मस्था अपि साधवः शास्त्रानुसारेण जानन्ति। तथाहि- यदि मूलगुणभंगो भवेत्, तर्हि ज्ञायेत यदुत संज्वलनभिन्नानां कषायाणामुदयो जातः'। यदि तूत्तरगुणभंगो भवेत्, तर्हि ज्ञायेत यदुत 'संज्वलनोदयो जातः । तत्राऽपि यदि निष्ठुरता दृश्येत, तर्हि संज्वलनभिन्नानामेवोदयोऽनुमीयते।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy