SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तपःप्रायश्यित्तं गीतार्थगुरुः दद्यात्। एवं चायमत्र सारः, अपवादमार्गे तपःप्रायश्चित्तं न भवति, संज्वलनोदयाभावात्। बाह्यदोषरहितस्य संज्वलनोदयमात्ररुपस्य मनोदोषस्याऽपि तपःप्रायश्चित्तं न भवति, तपःप्रायश्चित्तकरणस्याशक्यत्वात्। उभयत्रालोचना तु अस्त्येव, तथोभयत्र गीतार्थगुरुः कारणवशात् तपःप्रायश्चित्तमपि दद्यादिति । प्रश्नः संज्वलनोदयस्तु दशमगुणस्थानं यावद् भवत्येव, तर्हि किं दशमगुणस्थानं यावद् अतिचारो भवति? उत्तरंः न भवति। यदि भवेत्, तर्हि प्रतिसमयं संज्वलनोदयस्य सद्भावात् प्रतिसमयं अतिचारो भवेत्। तथा च दशमगुणस्थानं यावत् सर्वेऽपि साधवः सातिचारा एव भवेयुः, न तु निरतिचाराः। एवं च सति तीर्थकरा अपि छद्मस्थकाले साधुदशायां सातिचारा एव मन्तव्या भवेयुः, न चैतदुचितम्। प्रश्नः तर्हि संज्वलनोदयादतिचारो भवति' इति अस्य किं रहस्यम् ? शास्त्रपाठस्तु अयमेव यदुत सव्वे वि य अइयारा संजलणाणं उदयओ हुँति' इति। अस्यायमर्थो यदुत सर्वेऽपि चातिचाराः संज्वलनानामुदयाद् भवन्ति। उत्तरः संज्वलनानामेवोदयाद् अतिचारा भवन्ति' इति सत्यम्। परन्तु 'संज्वलनाना उदयाद् अतिचारा भवन्त्येव' इति तु न मन्तव्यम्।। सामान्यरागद्वेषजनकात् संज्वलनोदयाद् अतिचारा न भवन्ति, विशिष्टरागद्वेषजनकात् संज्वलनोदयाद् अतिचारा भवन्ति।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy