SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ यावत्प्रायश्चित्तं वोढुमशक्यमेव, ततश्चाशक्यं तन्न दीयेत। किन्तु बाह्यदोषोऽनेकशो भवन्निरोधुं शक्य एव, ततश्च यदि तस्य तपःप्रायश्चित्तं न दीयेत, तर्हि अनेकशो भवन्तं निरोधुं शक्यमपि बाह्यदोषं स प्रमादनिष्ठुरतादिपरवशो भूत्वा न सिन्ध्यात्। यदि तु तपः प्रायश्चित्तं दीयेत, तर्हि स वोढुं शक्यं तत्प्रायश्चित्तं कुर्यात्, तत्करणे च निष्ठुरतादिदोषप्राप्त्यभावात् स अनेकशो भवन्तं निरोधुं शक्यं बाह्यदोषं निरुन्ध्यादेवेति। तस्मात् तपःप्रायश्चित्तदान एष भेदः कृत इति। प्रश्नः बाह्यदोषरहितस्य संज्वलनोदयवतः तपःप्रायश्चित्तं नैव दीयत इति किं एकान्तोऽस्ति? उत्तरं : एकान्तो नास्ति। गीतार्थगुरुः शिष्यस्य भूमिका परीक्ष्य कदाचित् संज्वलनोदयमात्रेऽपि तपःप्रायश्चित्तं प्रयच्छति। तत्र कारणानि त्विमानि। 1. यदि मन्दवैराग्यवान् शिष्यो भवेत्, तर्हि तपोऽभावे बाह्यदोषानपि सेवितुमारभे, तन्निवारणार्थ गीतार्थगुरुः तपो दद्यात्। ___ 2. यदि अधिकवैराग्यवत अगीतार्थस्य शिष्यस्य आलोचनामात्रेण सन्तोषो न भवेत्, तर्हि गुरुः तत्सन्तोषार्थमपि तपो दद्यात्। 3.यदि अन्येऽपि साधवस्तस्य शिष्यस्य संज्वलनोदयमानं जानन्ति, तर्हि तस्यालोचनामात्रस्य प्रायश्चित्तस्य दाने संज्वलनोदयस्य भयं अन्यसाधुभ्योऽपगच्छेत्, ततश्च ते निष्ठुरा भवेयुः। तन्निवारणार्थं संज्वलनोदयमात्रस्यापि
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy