________________
स्याद्' इति शुभभाववतस्तपःप्रभृतिकं विनाऽपि कर्मक्षयो भवत्येव। एवं जिनाज्ञया गुर्वाज्ञया चालोचना तपश्च द्वे अपि मया करणीये' इति शुभभाववतः ताभ्यां द्वाभ्यां कर्मक्षयो भवत्येव।
प्रश्नः बाह्यदोषरहितस्य केवलं संज्वलनोदयवतः तपःप्रायश्चित्तं किमर्थं न दीयते?
उत्तरः संज्वलनोदयो दिवसमध्येऽवश्यमनेकशो भवत्येव, तत्प्रायश्चित्तं सम्पूर्णेनाऽपि जीवनेन कर्तुमशक्यमेव स्यात्। ततश्च तस्य अकरणस्य मनसि उद्वेगः स्याद् यदत 'अहो मम प्रायश्चित्तं न संपूर्ण संजातं, अतो मम पापानां क्षयोऽपि न संजात' इति। एवं चोत्साहभङ्गो भवति।
तस्मात् संज्वलनोदयमात्रस्य प्रायश्चित्तं आलोचनैव दीयते, न तु तपः, अशक्यत्वात्।
प्रश्नः एवं बाह्यदोषसहितस्यापि संज्वलनोदयवतः तपःप्रायश्चित्तं न दातव्यं, द्वयो:समानं एव प्रायश्चित्तं दातव्यम्।
उत्तरंः संज्वलनोदयो दिवसमध्येऽनेकशो भवन्निरोद्धमशक्य एव, किन्तु बाह्यदोषस्तु निरोधुं शक्य एव। यदि बाह्यदोषवतः तपःप्रायश्चित्तं न दीयेत, तर्हि क्रमशः स बाह्यदोषसेवने निष्ठुर एव भवेत्। तस्मात्स अनेकशो बाह्यदोषमपि सेवेत। तन्निरोधार्थं तस्य तपःप्रायश्चित्तदानं युक्तं, येन स शक्यं बाह्यदोषनिरोधं कुर्यात्। तथा चायं सारः
संज्वलनोदयोऽनेकशो भवन्निरोधुमशक्य एव, ततश्च तस्य तपःप्रायश्चित्तमपि तावदापद्येत्त,