SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अत्र उत्तरगुणेषु मूलगुणेषु वाऽतिचारं यावन्न प्रायश्चित्तव्यवहारः, अनाचार एव प्रायश्चित्तव्यवहारः। तत्राऽपि उत्तरगुणेऽनाचारो न चारित्रं हन्ति, केवलं मलिनीकरोति। मूलगुणेऽनाचारश्चारित्रं हन्ति। द्वितीयविवक्षायां यौ अतिचारानाचारौ, तयोर्मध्ये यद्यतिचारो भवेत्, तर्हि चारित्रं मलिनीभवति, यदि चानाचारो भवति, तर्हि चारित्रं विनश्यति। प्रथमविवक्षानुसारेणोत्तरगुणे योऽनाचारः, स द्वितीयविवक्षानुसारेणातिचार एव। अर्थाद् आधाकर्मभक्षणं प्रथमविवक्षायामानाचारः, तदेव च द्वितीय विवक्षायामतिचारः, चारित्रमलिनीकरणात्। प्रथमविवक्षानुसारेण मूलगुणे येऽतिक्रमव्यतिक्रमातिचाराः, ते सर्वेऽपि द्वितीयविवक्षानुसारेणातिचार एव, अर्थाद वह्निकरणस्वीकरणं, तदर्थं गमनं, काष्ठादिस्थापनं चेति अतिचार एव, चारित्रमलिनीकरणात्। प्रथमविवक्षानुसारेण मूलगुणे योऽनाचारः, स द्वितीयविवक्षानुसारेणानाचार एव, अर्थाद् वह्निप्रज्वालनमनाचार एव, चारित्रविनाशकरणात्। एवं तावत्संक्षेपत उक्तम्। प्रश्नः ‘सयणासणन्न' इति गाथायां अतिचारस्यैवोल्लेखः कृतः, तत्किं अतिचारस्यैवालोचना कर्त्तव्या? अनाचारस्य न कर्त्तव्या? उत्तरं अनाचारस्यापि आलोचना कर्त्तव्या। यदिवाऽनाचारोऽप्यतिचार एव, केवलं एतावान्भेदो यदुत
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy