SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ चारित्रस्य मलिनतायाः कारणीभूतोऽतिचारोऽतिचार एव, चारित्रस्य विनाशस्य कारणीभूतो ऽतिचारोऽनाचार इति । ततश्च गाथोक्तेन ‘अतिचार'पदेन अतिचारानाचारौ द्वौ अपि गृह्यते । प्रश्नः आलोचनायाः किं फलम् ? उत्तर : अतिचारात्मकस्यातिचारस्यालोचनया मलिनं चारित्रं पुनः निर्मलं भवति, अनाचारात्मकस्यातिचारस्यालोचनया तु विनष्टं चारित्रं पुनरुज्जीवतीति फलमिति दिक्। अधिकं तु संविग्नगीतार्थगुरुसमर्पणेन ज्ञातव्यम्। ॥ अतिचारगाथाविवरणं सम्पूर्णम् ।। यदीयसम्यकत्वबलात्प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ।। ॥ नमोऽस्तु तस्मै जिनशासनाय ॥
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy