SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ घटते, न हि मनुष्यस्त्रीणांस्पर्शमात्रेण पीडा भवति, येन सा हिंसारुपा प्रतिपादयितुं शक्यते। किंच गमनागमने स्त्रीस्पर्शः संभवति, परन्तु परितापोपद्रवौ तु न कथमपि सङ्गच्छतः, ततश्च मनुष्यस्त्रीणां परितापोपद्रवप्रतिपादनमपि न युक्तम्। तथा यदि मनुष्यस्त्रीणां परितापोपद्रवौ सम्भवतः, तर्हि मनुष्यपुरुषाणामपि तौ सम्भवत एव, तथा च सति, 'मनुष्यतिर्यंच तणा' इत्येव पाठः समुचितः स्यात्, न तु स्त्रीतिर्यंय तणा,' इत्यादि। यदि च 'स्त्रीस्वरुपा ये तिरश्चः, तेषां' इति कर्मधारयसमासः आद्रीयते, तदाऽपि स एव दोषः। यस्मात् स्त्रीतिर्यग्वत् पुरुषतिरश्चामपि परितापोपद्रवौ सम्भवत एव, ततश्च तिर्यंचतणा' इत्येतावदेव वक्तव्यं स्यात्, न त्वधिकमिति। ततश्च केनाऽपि प्रकारेणेदं वाक्यं न घटते। उत्तरं : सत्यम्। यथासम्भवमात्रार्थो विज्ञेयः। तथाहि..., मनुष्यस्त्रीणां तिर्यस्त्रीणां च संघट्टश्चतुर्थव्रतसम्बन्धी दोषः प्रतिपादितः। तिरश्चां च संघट्टपरितापोपद्रवाः प्रथमव्रतसम्बन्धिनो दोषाः प्रतिपादिताः। इत्थंच
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy