SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मनुष्यस्त्रीणां यः संघट्टः संजातः, स चतुर्थव्रतसम्बन्धी दोषः, तिरश्चां च यः संघट्टः परिताप उपद्रवश्च संजातः, स प्रथमव्रतसम्बन्धी दोषः, इति प्रकृतवाक्यस्यार्थः। प्रश्नः तिरश्चामपि एते त्रयः कथं संभवन्ति ? उत्तरः तिरश्चां संघट्टस्तु स्पष्ट एव, यौ च परितापोपद्रवौ, तौ अपि मण्डुकप्रभृतीनां संभवत एव। तथा गवादिनां साधुदण्डदर्शनादिना परितापो धावनादौ चोपद्रवः सम्भवति, तत्र निमित्तं तु साधुरिति महतामपि तिरश्चां परितापोपद्रवौ सम्भवतः। एवं मनुष्यस्त्रीणामपि भुकंपवह्निनदीपूरशत्रुनृपादिजन्येन भयेन सर्वत्र सर्वेषां धावनादौ प्रमादादिवशतः साधुनिमित्तं संघट्टपरितापोपद्रवा हिंसात्मकदोषरुपाः सम्भवन्त्येव, परन्तु ते तु मनुष्यपुरुषाणामपि सम्भवन्तीति तेऽत्र न ग्राह्याः, केवलं सम्भावनयाऽत्र प्रदर्शिताः। 'दिवसमांहि चारवार सज्झाय, सातवार चैत्यवंदन कीधा नहिं' इति। 'दिवसमध्ये चतुर्वारं स्वाध्यायः, सप्तवारं च चैत्यवंदनं न कृतम्' इति। अत्र दिवसोऽष्टप्रहररुपोऽवगन्तव्यः, न तु सूर्योदयादारभ्य सूर्यास्तं यावत्। तथा च एकस्मात्सूर्योदयाद् द्वितीयसूर्योदयपर्यन्तः कालोऽत्र दिवसः। ततश्च तस्मिन् दिवसे चतुर्वारं स्वाध्यायः करणीयः, तथाहि, दिनस्य प्रथमे चरमे च प्रहरे रात्रेश्च प्रथम चरमे च प्रहर इति । तथा सप्तवारं चैत्यवंदनमित्थम् - रात्रिकप्रतिक्रमणे 'इच्छाकारेण संदिसह भगवन्! चैत्यवंदन करूं?'
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy