SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा यत् 'जगचिन्तामणि' इत्यादि उच्चार्यते, तत्प्रथमम्। विशाललोचनदलसूत्रं द्वितीयम्। भोजनात्प्राक् प्रत्याख्यानपारणविधौ तृतीयम्। भोजनात् पश्चात् चतुर्थम्। दैवसिकप्रतिक्रमणे 'चैत्यवंदन करूं? इत्युक्त्वा यत् 'सकलकुशल' इत्यादि उच्यते, तत्पंचमम्। नमोऽस्तु' सूत्रं षष्ठम्। संथारापोरिसीविधौ तु चउक्कसाय' इत्यादिरुपं तु सप्तमम्। प्रश्नः अधुना तु चतुरिं स्वाध्यायो न दृश्यते। उत्तरः साक्षान्न दृश्यते, स्थापनारुपेण तु क्रियत एव। तथाहि, प्रातः प्रतिलेखनानन्तरं यत् ‘सज्झाय करुं?' इत्याधुच्यते, तत्प्रथमः स्वाध्यायः। चतुर्थप्रहरे प्रतिलेखनविधौ पुनरपि 'सज्झाय करूं?' इत्याधुच्यते, तद् द्वितीयः स्वाध्यायः। सायंकाले प्रतिक्रमणे तु 'देवसिअपायश्छितं' कायोत्सर्गानन्तरं पुनस्तदेवोच्यते तत्तृतीयः स्वाध्यायः। रात्रिकप्रतिक्रमणे तु सज्झाय संदिसाह?' इत्याधुक्त्वा यद् ‘भरहेसरसूत्रं उच्यते, तच्चतुर्थः स्वाध्याय इति।। प्राक्काले हि साधवः प्रहरचतुष्कमध्ये सूत्राध्ययनात्मकं स्वाध्यायं अकुर्वन्। परन्तु कालादिदोषेण तदाचारपालनं व्युच्छिन्नप्रायं संजातं, ततश्च संविग्नगीताथैः इयं अनन्तरोक्ता स्वाध्यायचतुष्ककरुणस्वरुपा सामाचारी समातेति सम्भाव्यते।। प्रश्नः साधवो द्वितीयप्रहरेऽर्थस्वाध्यायं कुर्वन्त्येव, रात्रावपि द्वितीयप्रहरे स्थविरा अर्थस्वाध्यायं कुर्वन्ति। ततश्च दिवसमध्ये षट्कालं स्वाध्यायः सम्भवति, न तु चतुःकालमिमि।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy