SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ षट्पदिका नाम 'जु' इतिनाम्ना प्रसिध्दो जीवविशेषः। संघट्टो नाम सामान्येन स्पर्शः। 'देहरे गोचरी बाहिरभूमि मार्गे जता आवता स्त्रीतिर्यंचतणा संघट्ट-परिताप-उपद्रव हुआ' इति। जिनचैत्ये गोचर्यां स्थण्डिलभूमौ च यद् मार्गे गमनमागमनं च कृतं, तस्मिन् मनुष्यस्त्रीणां तिरश्चां च संघट्टः परिताप उपद्रवश्च संजातः। अत्र उपाश्रयाच्चैत्यादौ गमनं, चैत्यादिभ्यश्चोपाश्रये आगमनमित्येवं गमनागमनं वाच्यम्। तथा मार्गे' इतिपदं चैत्ये गोचर्यां स्थण्डिलभूमौ च योजितम्। यस्मात्रिष्वपि यद् गमनागमनं भवति, तन्मार्ग एव भवति। यदि वा मार्गे गमनागमनं स्वतन्त्रमेव विहाररुपं गणयितुं शक्यते, न कश्चिद् दोषः। संघट्टो नाम सामान्येन स्पर्शः, परितापो नाम विशेषस्पर्शजन्या अनागाढा पीडा, आगाढा वा पीडा, उपद्रवो नाम मरणम्। एतानि त्रीणि च मनुष्यस्त्रीणां तिरश्चां वा संजातानि गमनागमने। प्रश्नः अत्र स्पर्शः परिताप उपद्रवश्च हिंसात्मको दोषः प्रतिपादयितुमिष्यते, न तु अब्रह्मचर्यसम्बन्धी दोषः।न हि परिताप उपद्रवश्चाब्रह्मचर्यसम्बन्धी दोषो भवितुमर्हति। इत्थं च मनुष्यस्त्रीणां स्पर्शरुपो यो दोषः प्रतिपादितः, सन
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy