SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 'ज्ञानादिगुणयुतानां' इति वा स्तुतिः उच्चार्यते। तथा यदि वयं जानीमो यदुतास्या भूमेः स्वामी अस्यां भूमौ कायिकापरिष्ठापनार्थं नानुज्ञां दद्यात्, ततस्तदनुज्ञां अगृहीत्वैव अन्धकाराद्यालम्बनं गृहीत्वा कायिका परिष्ठापयामः, तर्हि तत्रापि अदत्तादानदोषो ध्रुवः। पश्चात्स्वामिना ज्ञाते सति कलहसंभवः, वसतेर्निष्काशनं, शासननिन्दा, भविष्यत्कालेऽन्येषां साधूनामपि वसतिदाननिषेध इत्यादयो बहवो दोषाः सम्भवन्ति। ततश्च गूढरीत्या स्वामिना सह कपटं कृत्वा कायिकापरिष्ठापनं अत्यन्तमनुचितं, दुर्लभबोधितादिकारणं च। उच्चारपरिष्ठापनायामपि एतत्सर्वं विचारणीयमेव। तथा षोडशकप्रकरणे हरिभद्रसूरिभिः 'गुरुदोषारम्भितया' इत्यादिगाथायां उक्तमस्ति यदुत 'अल्पदोषनिवारणार्थं गुरुदोषसेवनं मिथ्यात्वस्य चिह्नम्' इति। प्रकृते च षट्कायरक्षार्थं निर्दोषभूमौ परिष्ठापनेऽल्पदोषनिवारणं भवत्येव, परन्तु यदि तदर्थं स्वाम्यदत्तकलहशासनहीलनावसतिविच्छेद-दुर्लभबोधितादयो गुरुदोषा भवेयुः, तर्हि स संयमी परमार्थतो मिथ्यात्व्येव संभवति। तस्मात् सर्वेणाऽपि संयमिना अस्मिन्विषये विवेकोऽत्यन्तं समादरणीयः। तथा चायं निष्कर्षः- भूमेः स्वामी यदि अनुज्ञापयितुं शक्येत, तर्हि प्रथमं साक्षादेवानुज्ञाग्रहणं कर्तव्यम्। तदशक्यतायां प्रस्तुतवाक्योच्चारणं कर्तव्यम्। यदि वा तच्छक्यतायामपि अदृश्यस्वामिभूतदेवानुज्ञाग्रहणार्थमपि
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy