________________
प्रमादादिरुपोऽशुभभावो हि संज्वलनोदयेन भवति, स उदयोऽत्र नास्ति।
प्रश्नः यदि अपवादे कर्मबन्धो न भवति, तर्हि अपवादस्य गुरुसमीपे आलोचना करणीया न वा?
उत्तरः करणीयैव, यद्यपि संज्वलनोदयस्याभावाद् अतिचारो नास्ति, तथाऽपि अनाभोगप्रभृतिकारणवशात् सूक्ष्मोऽपि दोषस्तत्र भवति, तर्हि तन्निवारणार्थं आलोचनैव औषधम्। ___अयं भावः-संज्वलनोदये तु दोषः स्फुट एव यदुत 'मम रागादिभावः संजातः, ततश्च तत्र तु आलोचना कर्तव्यैव। परन्तु पुष्टकारणवशाद् यतनापूर्वकं दोषस्य सेवने यद्यपि निश्चयदोषः स्फुटो नास्त्येव, तथाऽपि तत्र संभावना विद्यते यदुत अनाभोगवशात् स्पष्टमज्ञायमानः सूक्ष्मो निश्चयदोषस्तत्र समुद्भूतो भवेत्।' ततश्च तस्यापि निवारणार्थं आलोचना कर्तव्यैव भवति।
'मम रागादिदोषः संजात' इति अनुभवकाले तु संज्वलनोदयस्य निश्चयं कृत्वा स्फुटदोषनिवारणार्थं आलोचना क्रियते।
'मम रागादिदोषः संजात' इति अनुभवाभावकाले तु छद्मस्थताजन्यस्य संज्वलनोदयस्य संभावनामात्रं कृत्वाऽस्फुट-दोषनिवारणार्थं आलोचना क्रियते-इति निष्कर्षः।
प्रश्नः केवलं संज्वलनोदयो भवेत्, न तू विपरीतमाचरणं तदा किं आलोचना करणीया न वा?