SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ व्यवहारः क्रियते यदुत 'अनेन स्थापनादोषः सेवित' इत्यादि, स शुद्धो व्यवहारः, यस्मात् तत्र निश्चययुक्तो व्यवहारोऽस्ति। प्रश्नः यदा केवलं संज्वलनोदयो भवति, विपरीतमाचरणं न भवति, अर्थात् केवलं मनोदोषो विद्यते, न तु वचःकायदोषः, तदा किं कर्मबन्धो भवति न वा? उत्तरंः अवश्यं भवति, यस्मात्कर्मबन्धोऽध्यवसायाधीन एव, न तु बाह्यक्रियाधीन इति। प्रश्नः यदा संज्वलनोदयो न भवति, केवलं विपरीतमाचरणं भवति तदा यदि तद् अतिचारो न गण्यते, तर्हि किंगण्यते? उत्तरः अपवादो गण्यते। 'पुष्टकारणवशाद् यतनापूर्वकं उत्सर्गविपरीतमाचरणं हि अपवाद' इति अपवादव्याख्या। ग्लान्यादिकं पुष्टकारणं, तत्र आधाकर्मिकादीनां महतां दोषानामनासेवनं स्थापनादिरुपस्याल्पस्यैव दोषस्य सेवनं यतना, निर्दोषभिक्षात्मकस्योत्सर्गस्य त्यागं कृत्वा तद् विपरीतं स्थापनादोषाचरणं उत्सर्गविपरीतमाचरणम्' इति अयमपवादो भवति। प्रश्नः अत्रापवादे कर्मबन्धो भवति न वा? उत्तरं : न भवति, यस्मात्पापकर्मबन्धोऽशुभभावाधीनः, अत्र तु अशुभभावो नास्ति।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy