________________
प्रश्नः स्वप्नस्तु निद्रादशायां संभवति, निद्राधमाणश्च जीवः कथं शीलविराधनां कुर्यात् ? जागृतदशायामेव शीलविराधनाकरणसंभवात्।।
___ उत्तरंः अहो मन्दप्रज्ञता भवताम्। अत्र हि एतदेवोक्तं यदुत 'स्वप्ने तेन साधुना एतद् दृष्टं यदुत' मया शीलं विराधितम्' इति। अत एतदेव अत्र तात्पर्यं यदुत रात्रौ साधुना जागृतदशायां शीलविराधना कृता न, किन्तु निद्रादशायां स्वप्ने स्वेन क्रियमाणा शीलविराधना दृष्टा इति।
एतच्च दुःस्वप्नं उच्यते। तथा च सप्तदशपापस्थानानां स्वप्ने दर्शनं कुस्वप्नं, मैथुनस्य स्वप्ने दर्शनन्तु दुःस्वप्नं
उच्यते।
प्रश्नः सप्तदशानां एकस्य च भेदः किमर्थं कृतः? अष्टादशान्येव युगपदेव किमर्थं नोक्तानि?
उत्तरः रात्रौ कुसंस्कारवशात्स्वप्ने मैथुनस्य संभव इतरपापापेक्षयाऽधिकः, तथा व्यवहारतो मैथुनमेव इतरपापापेक्षया साधुजीवने महान् दोषः, ततश्चेतरपापेभ्यस्तस्य विभागेन निरुपणं कृतम्। अत एव च तस्य प्रायश्चित्तं सागरवरगंभीरा' पर्यन्ताश्चत्वारो नामस्तवाः सन्ति। अर्थादितरपापापेक्षया तस्य प्रायश्चित्तमधिकं अस्ति।
प्रश्नः अस्य निष्कर्षस्त्वेवम्-यदुत यदि कुस्वप्नं दृश्यते, तर्हि 'निम्मलयरा' पर्यन्ताः चत्वारो नामस्तवा गणनीयाः, यदि तु दुःस्वप्नं दृश्यते, तर्हि 'गंभीरा' पर्यन्ताः चत्वारो नामस्तवा गणनीयाः। यदि तु किमपि न दृश्यते, तर्हि किमपि न गणनीयमिति।