SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ परन्तु एतन्नास्ति। अधुना तु स्वप्नं भवेन्न वा, तथाऽपि सागरवर' पर्यन्ताश्चत्वारो नामस्तवा एव गण्यन्ते, न तु अनन्तरोक्तो विभागो दृश्यते। किमत्र कारणम् ? उत्तरंः गाढनिद्रायां यानि कुस्वप्नानि दुःस्वप्नानि वाऽऽगच्छन्ति, तानि निद्रानाशे साधवः प्रमादादिवशान्न स्मरन्ति, ततश्च यदि कायोत्सर्ग न कुर्यात्, तर्हि तेषां स्वप्नानां प्रायश्चित्तं न स्यात्। तस्मादधुना एषा सामाचारी यदुत 'स्वप्नमागच्छतु मा वा,' तथाऽपि 'सागरवर' पर्यन्ताश्चत्वारो नामस्तवाः परिगणनीया एवेति। प्रश्नः कुस्वप्नादि केन कारणेन भवन्ति? उत्तरंः पूर्वसंस्कारवशात्, वायुप्रकोपवशात्, देवादिवशाद्वा भवन्ति। प्रश्नः कुस्वप्नादिकं विनाऽपि वीर्यनाशो यदि भवेत्, तर्हि तस्य प्रायश्चित्तार्थं कायोत्सर्गः कर्तव्यो न वा? उत्तरंः कायोत्सर्गस्तु कुस्वप्नादिनिमित्तमेव कर्तव्यः, वर्तमानकाले तु कुस्वप्नादिनिर्णयाभावेऽपि सामाचारीवशात् स कर्तव्य एव, वीर्यनाशस्तु वायुप्रकोपजन्यो गुरुसमीपे आलोचनीयः, पश्चाद्गुरवो यत्प्रायश्चित्तं ददति, तत्कर्तव्यम्। 'मन आहट्ट दोहट्ट चिंतव्यु...' इति। रात्रौ मनसि आर्तध्यानं रौद्रध्यानं वा चिन्तितम्। प्रश्नः ध्यानपदस्य कोऽर्थः? उत्तरंः स्थिरोऽध्यवसायो ध्यानम्। दुःखनिवारणादिसम्बन्धि तद् आर्तध्यानम्। हिंसामृषादिसम्बन्धि तद्
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy