SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ संक्षेपत आलोचयति 'अनेरो' इत्यादि। __ प्रतिपादितेभ्योऽतिचारेभ्यो येऽन्ये केचिदपि दिवससम्बन्धिनः पापात्मका दोषाः संजाताः, तेषां सर्वेषामपि मिच्छा मि दक्कडं मनसा वचसा कायेन च ददामीति रात्रिकातिचारोक्तवदवसेयम्। प्रश्नः पापदोष' इतिपदद्वयग्रहणस्य काऽऽवश्यकता? उत्तरं : द्वे अपि पदे समानार्थे, केवलं श्रोतुः स्वप्रज्ञानुसारेणान्यतरेण पदेन बोधः स्यात्, ततश्च बोधसुकरतार्थं पदद्वयं गृहीतम्। यदि वा पापपदं अशुभाध्यवसायप्रतिपादकं, दोषपदं अशुभक्रियाप्रतिपादकं, ततश्च पापेन युक्तो यो दोषः, स पापदोष इत्यर्थः कर्त्तव्यः। न हि केवलं अशुभाध्यवसायरहितोऽशुभक्रियारुपो दोषस्तात्त्विको दोषः, किन्तु अशुभाध्यवसायसहित एवेति सारः। ॥ समाप्ता दैवसिकातिचारवृत्तिः ॥ यदीयसम्यक्त्वबलात्प्रतीमो, मवादृशानां परमस्वभावम्। कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तब शासनाय|| नमोऽस्तु तस्मै जिनशासनाय।।
SR No.032145
Book TitleSutra Rahasyam
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2018
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy