Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भाष्यम् उ० ५ सू० १६
निर्मथ्या आचारप्रकल्पे नष्टे पददानाऽदानविधिः १३७
माचारकल्पाध्ययनं पुनः स्मरिष्यामीति कथयित्वा यदि संस्थापयेद् विस्मृतं पुनरपि संस्मरेत् 'एवं से कप्पई' एवं प्रकारेण पुनः स्मृते आचारकल्पाध्ययने सति तस्य कल्पते 'आयरियत्तं वा जाव गणावच्छेययत्वं वा' आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा 'उदिसित्तए वा धारित्तए वा' उद्देष्टुं वा धारयितुं वा.कल्पते इति सम्बन्धः 'से य' स च यदि 'संठवेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् तदा 'एवं से नो कप्पइ' एवं-संस्मरणाभावे तस्य नो कल्पते 'आयरियत्तं वा जाव गणावछेययचं वा' आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा 'उघिसिचए वा धारित्तए वा' उद्देष्टुं वा धारयितुं वेति ।। सू० १५ ॥
निग्रन्थसूत्रमभिधाय सम्प्रति निम्रन्थीसूत्रमाह-'निग्गंथीए णं' इत्यादि।
सूत्रम्-णिग्गंथीए णं नवडहरतरुणीए आयारपकप्पे नाम अज्झयणे परिस्मठे। सिया, सा य पुच्छियन्वा केणं ते कारणेणं अज्जे ! आयारपकप्पे नाम अज्झयणे परिमटे. किं आवाहेणं उदाहु पमाएणं ? सा य वएज्जा नो आवाहेणं पमाएणं, जावज्जीवाए तीसे तप्पत्तियं नो कप्पई पवत्तिणितं वा गणावच्छेइ णित्तं वा उदिसित्तए वा धारित्तए वा, सा. य वएज्जा-आवाहाएणं नो एमाएणं सा य संठवेस्सामित्ति संठवेज्जा एवं से कप्पड़ पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसित्तए वा धारित्तए वा, सा य संठवेस्सामीति नो संठवेज्जा एवं से नो कप्पई पवत्तिणित्तं वा गणावच्छेइणित्तं वा उदिसित्तए वा धारित्तए वा ॥ सू०१६॥
छाया-निर्ग्रन्थ्याः खलु नवडहरतरुण्याः आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्टं स्यात् सा च प्रष्टव्या-केन ते कारणेन आय! आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्टम? किम आवाधेन उताहो प्रमादेन ? सा च वदेत् नो आवाधेन प्रमादेन, यावज्जीवं तस्यास्तत्प्रत्ययं नो कल्पते प्रचत्तिनीत्वं वा गणावच्छेदिनीत्वं वा 'उद्देष्टुवा धारयितं वा। सा च वदेत् आवाधेन नो प्रमादेन सा च संस्थापयिष्यामीति संस्थापयेत् एवं तस्याः कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिनीत्व वा उद्देष्टु वा धारयितुं वा, सा च संस्थापयिज्यामीति नो संस्थापयेत् एवं तस्याः नो कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिनीत्वं वा उद्देष्टु वा धारयितुं वा ॥ सू०१६ ॥
भाष्यम्-'णिग्गंथीए णं' निर्ग्रन्थ्याः खलु श्रमण्याः 'नवडहरतरुणीए' नवडहरतरुण्याः , तत्र नवदीक्षिता नवा त्रिवर्षात्मकदीक्षापर्यायवती, डहरा-जन्मपर्योयेण अष्टादशवर्षिका, तरुणीअधिगतयुवावस्था, जन्मतश्चत्वारिंशद्वर्षिका वा, उक्तञ्च. व्य. १८