Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 493
________________ १३६ पृहत्कल्पसूत्रे स्थातुं निषत्तुं वा नोचितमिति ॥ सू० ३६ ॥ सम्प्रति निम्रन्थविषये विघिसूत्रमाह-'कप्पई' इति । कल्पते निम्रन्थानां सावश्रये सावष्टम्मे आसने स्थातुं निषत्तुं वा , यतो ग्लानत्वादिकारणान्निरालम्बमुपवेष्टुमशक्तानां निम्रन्थानां सावष्टम्भमासनं कल्पते, निर्ग्रन्थीनां सर्वथा न कल्पते इति भावः ।। सू० ३७ ॥ पूर्व सावष्टम्भासनविषये निर्ग्रन्थीनां निपेधसूत्रं, निर्ग्रन्थानां च विधिसूत्रमुक्तम् , सम्प्रति सविषाणपीठफलकविषये तदेवाह-'नो कप्पइ' 'कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निगंथीणं सविसाणंसि पीटंसि वा फलगंसि वा चिट्ठित्तए वा निसीइत्तए वा ॥ सू० ३८॥ कप्पइ निग्गंथाणं सविसाणंसि पीहँसि वा फलगंसि वा चिट्टित्तए वा निसीइत्तए वा ॥ सू० ३९ ॥ छाया-नो कल्पते निर्ग्रन्थीनां सविपाणे पीठे वा फलके वा स्थातुं वा निषत्तुं वा ॥ सु० ॥ ३८ ॥ कल्पते निर्ग्रन्थानां सविपाणे पीठे वा फलके वा स्थातुं वा नियतु वा ॥ सू० ॥ ३९ ॥ चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनां सविषाणे-विषाणं शृङ्गम् , विषाणमिव विषाणं शृङ्गाकार उपर्युत्थितः काष्ठविशेषः, तेन सहितं सविषाणम्-तस्मिन् सविषाणे सशृङ्गे पीठे काष्ठनिमितासनविशेषे, फलके वा शयनपट्टके स्थातुम् ऊर्ध्वस्थानेन निपत्तुम्-उपवेष्टुं न कल्पते इति सम्बन्धः । यस्य पीठस्य फलकस्य वा उपरि शोभार्थ शृङ्गाकारम् ऊर्ध्वलम्बकाष्ठं निर्मितं भवेत् तादृशे पीठे फलके वा स्थाननिषीदनकरणे ऊर्ध्वकाष्ठरूपतदाकारावलोकनेन उदीर्णमोहत्वेन भुक्तभोगिनीनां निम्रन्थीनां पादकर्मस्मृतिकरणादिदोषसंभवात्, अभुक्तभोगिनीनां च कौतुकसंभवात् निम्रन्थीनां सविषाणपीठफलकादौ स्थानदि कत्तुं नोचितमिति भावः ॥ सू० ३८ ॥ विधिमाश्रित्य निर्ग्रन्थसूत्रमाह-कप्पइ' इति । पूर्वोक्ते सविषाणे पीठे वा फलके वा स्थातुं निषत्तुं वा निम्रन्थानां कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः ॥ सू० ३९ ॥ पूर्व सविषाणपीठफलकविषये निर्ग्रन्थीनां निषेधसूत्रम् , निर्ग्रन्थानां च विधिसूत्रं प्रतिपादितम् , सम्प्रति सवृन्तकालावुविषये तदेव सूत्रद्वयमाह-'नो कप्पइ' 'कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारित्तए वा परिहरित्तए वा ॥सू०४०॥ कप्पइ निग्गंथाणं सर्वेटगं लाउयं धारित्तए वा परिहरित्तए वा ॥ सू०४१॥ छाया-नो कल्पते निर्ग्रन्थीनां सवृन्तकम् अलावु धारयितुं वा परिहत्तं वा ॥ सू०४० ॥ कल्पते निम्रन्थानां सवृन्तकम् अलायु धारयितुं वा परिहत्ते वा ॥ सू०४१ ॥

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536