Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 500
________________ चूर्णिभाष्यावचूरी उ०५ सू० ५२ निर्ग्रन्थ्याः पुलाकभकाहारविधिः १४३ wwwwwwwwwwwww छाया-निर्ग्रन्थ्या च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टया अन्यतरत् पुलाकभक्त प्रतिगृहीतं स्यात् , सा च संस्तरेत् कल्पते तस्याः तद्दिवसं तेनैव भकार्थेन पर्युषितुम् , नो तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम् , सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपातप्रत्ययेन प्रवेष्टुम् ॥ सू० ५२ ॥ ॥ पञ्चमोद्देशः समाप्तः ॥५॥ चूर्णी-'निग्गंथीए य' इति । निर्ग्रन्थ्याश्च साध्व्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुप्रविष्टया-प्रवेशं कृतवत्या यदि अन्यतरत्-बहूनां मध्यादेकम् , पुलाकं त्रिविधं भवति-धान्यपुलाकम् , गन्धपुलाकम् , रसपुलाकं चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम्-एलालवड्गजातिफलादीनि यानि उत्कटगन्धानि द्रव्याणि, तद्बहुलं भक्तम्, रसपुलाकम् क्षीर-द्राक्षा-खजूरादिरसरूपम् , एषां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निम्रन्थी संयमसाररहितां कुर्वन्ति प्रवचनं वा निस्सारं कुर्वन्ति ततस्तानि पुलाकानि प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निर्ग्रन्थीं मदविह्वलां कुर्वन्ति तेन सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति-तत् पूर्वोक्तं पुलाकमक्तं कदाचित्-अनाभोगादिकारणात् प्रतिगृहीतं स्वीकृतं स्यात् तदा यदि सा च निग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकभक्तेन निर्वाहं कुर्यात् निर्वोढुं समर्था भवेत् तदा कल्पते तस्याः तं दिवस तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम्-तं दिवस व्यत्येतं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि जिह्वालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकभक्तेन भुक्तेन नो संस्तरेत् क्षुधापरीषहसहनसामर्थ्याभावात त दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निम्रन्थ्याः कल्पते द्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृहे प्रवेश कत्तुं कल्पते, तदिवसनिर्वाहसामर्थ्ये सति द्वितीयवारं भिक्षार्थं न गच्छेदिति भावः । एकवार. गृहीतपुलाकभोजनेन यथाशक्यनिर्वाहसामर्थ्य सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निर्ग्रन्ध्या आज्ञाभगादयो दोषा भवन्ति, सयमात्मविराधना च भवेत् , तत्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यपुलाके भुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके भुक्ते

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536