Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 507
________________ वृहत्कल्पसूत्रे 'विसोहेमाणी वा' विशोधयन्ती समुद्धरन्ती णाइक्कमइ नातिक्राम्यति तीर्थकराज्ञाम् , सा तीर्थकराज्ञाया उल्लङ्घन न करोति, जिनाज्ञाविराधिका न भवतीत्यर्थः ॥ सू० ३ ॥ सूत्रम्-णिगंथस्स य अच्छिसि पाणे वा वीए वा रए वा परियावज्जेज्जा तं च णिग्गंथे नो संचाएइ णीहरीत्तए वा विसोहित्तए वा तं णिग्गंथी णीहरमाणी वा विसोहेमाणी वा, गाइक्कमइ ॥ सू० ४॥ छाया-निर्ग्रन्थस्य चाक्षिणि प्राणो वा, वीज वा, रजो वा, पर्यापद्येत तच्च निर्ग्रन्थो नो शक्नुयात् निहतम् वा, विशोधितुं वा, तं निग्रन्थी निहरन्ती वा विशोधयन्ती वा नातिकामति ॥ सू० ४ ॥ चूर्णी-णिग्गंथस्स य इति निर्ग्रन्थस्य श्रमणस्य अच्छिसि अक्षिणि नेत्रे पाणे वा प्राणो वा-क्षुदजीवो मशकादिर्वा वीएवा बीजं वा शालिगोधूमादिबीजं, 'रए वा' रजो वा-धूलिकणो वा पारियावज्जेज्जा पर्यापयेत परिपतेत् , नेत्रे यदि क्षुद्रजन्तुप्रभृतिकं वस्तु नेत्रकष्टकारकं पतितं भवेदित्यर्थः, तं च निगंथे नो संचाइए णीहरित्तए वा-विसोहित्तए वा तच्च निर्ग्रन्थोऽन्यः कोऽपि श्रमणः न शक्नुयात् निहत्तुं वा विशोधयितुं वा तद् नेत्रपतितं क्षुद्रजीवादिकम् निर्ग्रन्थोऽन्यः श्रमणः साधुः नेत्रपतितं क्षुद्रजीवादिकं साधुनेत्रात् निर्हत्तुं निष्कासयितुं विशोधयितुं वा न शक्नुयात् समर्थो न भवेत् तदा तं णिग्गंथी णीहरमाणी वा विसोहेमाणी वा णाइक्कमइ तच्च श्रमणनेत्रपतितक्षुद्र जीवादिकं श्रमणस्याऽशक्तौ सत्यां निग्रंन्थी श्रमणी निहरन्ती साधुनेत्रात् क्षुदजीवादिकं नि सारयन्ती विशोधयन्ती अपनयनं कुर्वन्ती नातिकामति तीर्थकराज्ञां नोल्लयति ।। सू० ४ ॥ सूत्रम्-निग्गंथीए य अहे पायंसि खाणू वा कंटए वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिगंथी णो संचाएइ णीहरित्तए वा विसोहित्तए वा तं च णिग्गंथे नीहरमाणे वा विसोहेमाणे वा णाइक्कमइ ॥ सू० ५ ॥ छाया-निर्ग्रन्थ्याश्चाधः पादे स्थाणुर्वा कण्टको पा हीरकं वा शर्करं वा पर्यापद्येत तंच निर्ग्रन्थी नो शक्नुयात् निर्हर्नु वा विशोधयितुं वा तं च निर्ग्रन्थो निर्हरन वा विशोधयन् वा नातिकामति ॥सू० ५॥ ची-णिगंथीए य' इति निम्रन्थ्याः अहे पायंसि अधः पादे चरणस्याधोभागे पादतले इत्यर्थः खाणू वा स्थाणुर्वा पूर्वोक्तस्थाणुकण्टकहीरकशर्करादिकं परियावज्जेज्जा पर्यापयत संलगेत स्थाणुप्रभतिना पादो विद्ध इत्यर्थ. तं च निग्गंथी नो संचाइए णीहरित्तए वा विसोहित्तए वा तच्च निम्रन्थी नो शक्नुयात् निहत्ते वा, विशोधयितुं वा, तत्र तत् श्रमणीपदसंलानकण्टकादिकं श्रमणी स्वयं यस्याः पादे स्थाण्वादि लग्न तद्व्यतिरिका वा साध्वी नो शक्नुयात न

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536