Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 508
________________ चूर्णिभाष्यावचूरी उ० ६ सू०६-१० प्रस्खलनादिकारणेसाव्या ग्रहणे साधोविधिः १५१ समर्था भवेत् निर्हर्तुम् निष्कासयितुं विशोधयितुं पादादुद्धर्तुम् तदा त णिग्गंथे नीहरमाणे वा विसोहमाणे वा णाइक्कमइ तच्च निर्ग्रन्थो निर्हरन् वा विशोधयन् वा नातिक्रामति तीर्थकराज्ञां नोलवयति ॥ सू०५॥ सूत्रम्-णिग्गंथीए अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च णिग्गंथी णो संचाएइ णीहरित्तए वा विसोहित्तए वा तं च णिग्गंथे णीहरमाणे वा विसोहेमाणे वा णाइक्कमइ ॥ सू० ६॥ छाया-निर्ग्रन्थ्या अक्षिणि प्राणो वा बीजं वा रजो वा पर्यापद्येत तच्च निर्ग्रन्थी नो शक्नोति निहत्तं वा विशोधयितुं वा तच्च निर्ग्रन्थो निर्हरन् वा विशोधयन् वा नातिकामति ॥ सू० ६॥ __चूर्णी-णिग्गंथीए' इति । निर्ग्रन्ध्याः 'अच्छिसि' अक्षिणि-नयने पाणे वा प्राणो वा-प्राणः क्षुद्रजन्तुर्मशकादिः वीए वा बीजं वा लघुतमं फलादेबीजम्'रए वा रजो वा-धूलिकणो वा कारणवशात् श्रमण्या नेत्रे 'परियावज्जेज्जा' पर्यापद्येत परिपतेत् नेत्रे समापतितं भवेत् 'तं च णिग्गंथी णो संचाएइ णीहरित्तए वा विसोहित्तए वा' तच्च निर्ग्रन्थी नो शक्नोति निर्हर्नु वा विशोधयितुं वा तत्र तं श्रमण्यक्षिपतितं क्षद्रजीवमशकादिकम् यदि निम्रन्थी श्रमणी निहत निष्कासयितुं विशोधयितुमपाकत्तुं न शक्नुयात् तदा "तं च निग्गंथे णीहरमाणे चा विसोहेमाणे वा नाइक्कमई" तं च निर्ग्रन्थो निर्हरन् वा विशोधयन् वा नातिकामति ॥ सू० ६ ॥ सूत्रम्-णिग्गंथे णिग्गंथिं दुग्गंसि वा विसमंसि वा पव्वयंसि वा पक्खलमाणिं वा पवडमाणिं वा गिह्रमाणे वा अवलंबमाणे वा णाइक्कमइ ॥सू० ७॥ छाया-निन्थो निग्रन्थी दुर्गे वा विषमे वा पर्वते वा प्रस्खलन्ती वा प्रपतन्ती वा गृहन् वा अवलम्वमानो वा नातिकामति ॥ सू० ७॥ चूर्णी-णिग्गंथे णिग्गंथिं' इति । निम्रन्थः निर्ग्रन्थीं कदाचित् दुग्गंसि वा दुर्गे वा पर्वतादिविकटभूमौ विसमंसि वा विषमे उच्चनीचप्रदेशे पिच्छलप्रदेशे वा 'पव्वयंसि वा पर्वते वा पक्खलमाणि वा' प्रस्खलन्ती चरणादिसंकाचेन पतन्तीमिव भवन्ती वा पवडमाणि वा प्रपतन्ती वा पतितुमारब्धां गिण्हमाणे वा गृह्णन् हस्तादिना तस्या ग्रहणं कुर्वन् अवलंबमाणे वा अवम्बमानो वा पतन्त्याः देहयष्टयाद्याश्रयेण साहाय्यं कुर्वन् इत्यर्थः णाइक्कमइ नातिकामति ॥ सू० ७॥ सत्रम-णिग्गंथे णिग्गंथि सेयंसि वा पंकंसि वा पणगंसि वा उदगंसि वा ओकसमाणि वा ओबुडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ॥ सू० ८॥ छाया-निर्ग्रन्थो निग्रंथीं सेके वा पङ्के वा पनके वा उदके वा अवकर्षन्ती वा अवब्रुडन्ती वा गृखन् वा अवलम्वमानो वा नातिकामति ॥ सू०८॥

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536