Book Title: Vyavaharasutram evam Bruhatkalpsutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 498
________________ चूर्णिमायावचूरी उ० ५ सू० ४९-५१ परिहारकल्पस्थितस्य प्रायश्चित्तविधिः १४१ गर्वनिर्दिवतादयो दोषा भवन्ति । पुनश्च यावत्कालं गात्रस्याभ्यङ्गादि करोति तावत्कालं सूत्रार्थपरिमन्थो भवेत् , मुनिना च सर्वसामयिकत्वात् क्षणमपि निरर्थकं न नेतव्यमिति भगवदाज्ञाभगदोषोऽवश्यम्भावीति । आत्मविराधना-तैलादिनाऽभ्यङ्गिते गात्रे तद्गन्धेन समापतिताः पिपीलिकादिप्राणिनः क्षतं करोति, स्नग्ध्येन पादं वा प्रस्खलतीत्यादिनाऽऽत्मविराधनासंभवः, तस्मात् परिवासितेनापरिवासितेन वा तैलाद्यभ्यगनं निर्ग्रन्थनिर्ग्रन्थीनां न कल्पते इति भावः । किं सर्वथा न कल्पते । तत्राह-'नन्नत्थ' इत्यादि, नान्यत्र- अन्यत्र न, केभ्यः ! इत्याह-गाढागाडेभ्यः-गाढदुःखजनकेभ्यः रोगातङ्केभ्यः, गाढागाढरोगातङ्कान् विहायान्यत्र न कल्पते, तथाविधे कारणे कल्पते, कारणं यथा-अध्वगमनेनातीव श्रान्तत्वम्, वातरोगेण कटिबन्धनम् , कच्छुपामा दिपीडितत्वं च भवेत्, इत्यादिकारणे तैलाद्यभ्यङ्गनं यतनया कर्त्तव्यमिति भावः ।। सू० ४९ ॥ पूर्वसूत्रे गात्राणामभ्यङ्गन म्रक्षणं च निषिद्धम्, सम्प्रति--उपलेपनम् उद्वर्तनं च निषेधयितुमाह-'नो कप्पई' इत्यादि । सूत्रम्--नो कप्पइ निग्गथाण वा निग्गंथीण वा परिवासिएण कक्केण वा लोद्धेण वा पधृवणेण वा अन्नयरेण वा आलेवणजाएण गायाइं उवलित्तए वा उव्वहित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहि ।। सू० ५० ॥ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन कल्केन वा लोध्रेण वा प्रधूपनेन वा अन्यतरेण वा-आलेपनजातेन गात्राणि उपलेपयितु वा उद्वर्त्तयितुवा, नान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः ॥ सू० ५० ॥ चूर्णी- 'नो कप्पइ' इति । नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा परिवासितेन पर्युषितेन प्रथमप्रहरानीतचतुर्थप्रहरप्राप्तेन कल्केन वा उत्कालितसुगन्धिद्रव्यविशेषेण, लोभ्रेण वा स्निग्धचूर्णरूपसुगन्धिद्रव्यविशेषेण, प्रधूपनेन वा अगुरुचन्दनप्रभृतिसुगन्धिधूपनद्रव्येण, एवम् अन्यतरेण वा एतादृशेन केनापि अनेकविधसुगन्धिद्रव्यमध्यादेकेन सुगन्धिद्रव्यरूपेण आलेपनजातेन आलेपनयोग्यद्रव्यविशेषेण गात्राणि-अङ्गानि मुखहस्तपादादीनि उपलेपयितुं वा सामान्येन लेपितानि कत्तुं वा, तथा उद्वर्तयितुम् उपमर्दयितुं वा न कल्पते इति सम्बन्धः । किं सर्वथा न कल्पते ? इत्याह—'नन्नत्थ' इत्यादि, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः, गाढागाढेभ्यः अत्यन्तमरणादिभयजनकेभ्यः रोगातङ्केभ्यः, रोगरूपातङ्केभ्यः-कुक्षिशूलहृदयशूलमस्तकशूलरक्तविकारादिजनितविषमग्रन्थिप्रभृतिरूपेभ्यः, मरणादिभयजनकरोगातकान् विहाय


Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536