________________
चूर्णिमायावचूरी उ० ५ सू० ४९-५१
परिहारकल्पस्थितस्य प्रायश्चित्तविधिः १४१
गर्वनिर्दिवतादयो दोषा भवन्ति । पुनश्च यावत्कालं गात्रस्याभ्यङ्गादि करोति तावत्कालं सूत्रार्थपरिमन्थो भवेत् , मुनिना च सर्वसामयिकत्वात् क्षणमपि निरर्थकं न नेतव्यमिति भगवदाज्ञाभगदोषोऽवश्यम्भावीति । आत्मविराधना-तैलादिनाऽभ्यङ्गिते गात्रे तद्गन्धेन समापतिताः पिपीलिकादिप्राणिनः क्षतं करोति, स्नग्ध्येन पादं वा प्रस्खलतीत्यादिनाऽऽत्मविराधनासंभवः, तस्मात् परिवासितेनापरिवासितेन वा तैलाद्यभ्यगनं निर्ग्रन्थनिर्ग्रन्थीनां न कल्पते इति भावः । किं सर्वथा न कल्पते । तत्राह-'नन्नत्थ' इत्यादि, नान्यत्र- अन्यत्र न, केभ्यः ! इत्याह-गाढागाडेभ्यः-गाढदुःखजनकेभ्यः रोगातङ्केभ्यः, गाढागाढरोगातङ्कान् विहायान्यत्र न कल्पते, तथाविधे कारणे कल्पते, कारणं यथा-अध्वगमनेनातीव श्रान्तत्वम्, वातरोगेण कटिबन्धनम् , कच्छुपामा दिपीडितत्वं च भवेत्, इत्यादिकारणे तैलाद्यभ्यङ्गनं यतनया कर्त्तव्यमिति भावः ।। सू० ४९ ॥
पूर्वसूत्रे गात्राणामभ्यङ्गन म्रक्षणं च निषिद्धम्, सम्प्रति--उपलेपनम् उद्वर्तनं च निषेधयितुमाह-'नो कप्पई' इत्यादि ।
सूत्रम्--नो कप्पइ निग्गथाण वा निग्गंथीण वा परिवासिएण कक्केण वा लोद्धेण वा पधृवणेण वा अन्नयरेण वा आलेवणजाएण गायाइं उवलित्तए वा उव्वहित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहि ।। सू० ५० ॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन कल्केन वा लोध्रेण वा प्रधूपनेन वा अन्यतरेण वा-आलेपनजातेन गात्राणि उपलेपयितु वा उद्वर्त्तयितुवा, नान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः ॥ सू० ५० ॥
चूर्णी- 'नो कप्पइ' इति । नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा परिवासितेन पर्युषितेन प्रथमप्रहरानीतचतुर्थप्रहरप्राप्तेन कल्केन वा उत्कालितसुगन्धिद्रव्यविशेषेण, लोभ्रेण वा स्निग्धचूर्णरूपसुगन्धिद्रव्यविशेषेण, प्रधूपनेन वा अगुरुचन्दनप्रभृतिसुगन्धिधूपनद्रव्येण, एवम् अन्यतरेण वा एतादृशेन केनापि अनेकविधसुगन्धिद्रव्यमध्यादेकेन सुगन्धिद्रव्यरूपेण आलेपनजातेन आलेपनयोग्यद्रव्यविशेषेण गात्राणि-अङ्गानि मुखहस्तपादादीनि उपलेपयितुं वा सामान्येन लेपितानि कत्तुं वा, तथा उद्वर्तयितुम् उपमर्दयितुं वा न कल्पते इति सम्बन्धः । किं सर्वथा न कल्पते ? इत्याह—'नन्नत्थ' इत्यादि, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः, गाढागाढेभ्यः अत्यन्तमरणादिभयजनकेभ्यः रोगातङ्केभ्यः, रोगरूपातङ्केभ्यः-कुक्षिशूलहृदयशूलमस्तकशूलरक्तविकारादिजनितविषमग्रन्थिप्रभृतिरूपेभ्यः, मरणादिभयजनकरोगातकान् विहाय