________________
५४०
वृहत्कल्पसूत्रे वणादिपु किञ्चिद् एकवारम् आलेपनं कर्तुं विलेपयितुं-विशेपेण लेपयितुं अनेकवारम् न कल्पते इति सम्बन्धः । किं सर्वथैव न कल्पते ? इत्याह-'नन्नत्थ' इत्यादि, नान्यत्र गाढागाढेभ्यो रोगात भ्यः गाढागाढेभ्यः अत्यन्तप्रगाढेभ्यः भयङ्करेभ्यः रोगातकेभ्यः सर्पादिविपत्रणसद्योघातिक्षुद्रव्रणप्रभृतिप्राणघातकरोगरूपातङ्केभ्यः अन्यत्र न कल्पते, पूर्वोक्तकारणे कल्पते इति भाव. ॥ सू० ४८ ॥
पूर्व परिवासितालेपनेनाऽऽलेपननिषेधः प्रतिपादितः, तत्प्रसङ्गात् सम्प्रति परिवासिततैलादिना गात्राभ्यगनम्रक्षणनिषेधं प्रतिपादयितुमाह-नो कप्पइ' इति ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा परिवासिएणं तेल्लेण वा घएण वा णवणीएण वा वसाए वा गायाइं अभंगित्तए वा मक्खित्तए वा नन्नस्थ गाढागाढेहिं रोगायंकेहि ।। सू० ४९॥
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन तैलेन वा घृतेन वा नवनीतेन वा वसया वा गात्राणि अभ्यङ्गितु वा म्रक्षितु वा, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४९ ॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा परिवासितेनप्रथमप्रहरानीतचतुर्थप्रहरप्राप्तेन तैलेन वा-तिलसर्पपादिजन्यस्निग्धद्रवपदार्थजातेन, घृतेन वा प्रसिद्धेन, नवनीतेन वा-म्रक्षणेन 'मक्खन' इति भाषाप्रसिद्धेन, वसया वा स्निग्धरसविशेषेण वा गात्राणि हस्तपादमुखाद्यङ्गानि अभ्यङ्गितुं वा-प्रचुरतैलादिना उद्वर्त्तयितुम् , म्रक्षितु वा स्वल्पेन तैलादिना म्रक्षण कर्तुं वा न कल्पते इति पूर्वेण सम्बन्धः । यद्येवं परिवासितेन तैलादिना गात्राणामभ्यङ्गनं म्रक्षण च न कल्पते तर्हि अपरिवासितेन तत्तत्प्रहरानीतेन तत्तत्प्रहरेऽभ्यङ्गनं म्रक्षणं च निर्ग्रन्थनिर्ग्रन्थीनां कल्पते, इत्यायातम् तत्राह-परिवासितेन अपरिवासितेन वा तैलादिना मुनीनां गात्राम्यननं न कल्पते, तस्य शरीरविभूषासूचकत्वात्, शरीरविभूषाया भगवता निषिद्धत्त्वाच्च, उक्तं च".... ...कि विभूसाए कारणं" इति दशवैकालिसूत्रोक्तभगवद्वचनात् निर्ग्रन्थनिर्ग्रन्थीनां तैलाद्यभ्यतनं न कल्पते । अथ च तैलाद्यभ्यगने संयमविराधना आत्मविराधना चापि संभवेत. तत्र संयमविराधना अभ्यङ्गितम्रक्षिते गात्रे सचित्तरजो लगति, तद्गन्धेन च पिपीलिकादित्रसप्राणिनो लगन्ति तेषां विराधनेन संयमविराधना भवेत् , पुनश्च तैलादिना चीवराणि मलिनीभवन्ति, तेषां धावनेऽधावने वा द्विधापि दोपाः समापतन्ति, यथा--यदि धाव्यन्ते तदा प्राणिनामुत्प्लावना भवेत् उपकरणशरीरयोर्वकुशत्वं भवति । यदि न धाव्यन्ते तदा निशिभक्कदोपापत्तिर्भवेत् । अभ्यङ्गितम्रक्षिते शरीर ‘पादयोधूलिर्मा लगतु' इति वुद्ध्या पादौ वनादिना पिनह्यति तेन