________________
चूर्णि भाग्यावचूरी उ० ५ ० ४७-४९
पर्युषिताहारादिनिषेधः १३९
"
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितम् संगृहीतं प्रथमप्रहरे आनीतं चतुर्थप्रहर प्राप्त भोजनजातम् अशनादिचतुर्विधं यावत् - न्यूनान्यूनम् तत् कियदित्याह - ' तयप्पमाणमेत्तं वा' इति, त्वक्प्रमाणमात्रमपि तिलतुषत्रिभागमात्रमपि, एतच्चाशनस्य घटते । भूतिप्रमाणमात्रमपि, भूतिः - भस्म भूतिशब्देन भस्म चप्पु - टिका गृह्यते तेन भूतिचप्पुटिकामात्रमपि इत्यर्थो बोध्यः संयोजिताङ्गुष्टतर्जनीभ्यां गृहीतं द्रव्यं भूति प्रमाणमात्र कथ्यते तच्च सक्तुकादीनां शुष्कचूर्णद्रव्यादीनां च घटते । तोयबिन्दुप्रमाणमात्रमपि पानकद्रव्यस्य विन्दुप्रमितमपि परिवासितं प्रथमप्रहरस्थापितस्य चतुर्थ प्रहरः प्राप्तः, तादृशम् आहारम् - किमपि भोज्यपेयपदार्थजातम् आहर्तुम् - भोक्तुं न कल्पते इति । यद्वा परिवासितं रजन्यां स्थापितं पूर्वोकप्रमाणमात्रमपि आहारं भोक्तुं न कल्पते । रजन्यां स्थापितवस्तुमात्रस्य मुनीनां परिभोगो न कल्पते, तस्य सन्निधिसंचयदोषापत्तेः, सन्निधि - संचये साधुत्वमपि नश्यति, उक्तञ्च दशवैकालिकसूत्रे षष्ठाध्ययने"लोहस्सेसणुप्फासे, मन्ने अन्नयरामवि ।
जे सिया संनिहिकामे, गिही पव्चइए न से || गा० १९ ॥ " लोभस्य एष अनुस्पर्शः, मन्ये अन्यतरोऽपि ।
यः स्यात् संनिधिकामः गृही प्रव्रजितो न सः ॥ गा० १९ ॥ इतिच्छाया ॥ संक्षेपार्थः - 'मन्ये' इति भगवद्वाक्यम्, मन्ये अहं निश्चिनोमि अन्यतरोsपि बहूनां मध्ये एकः एषः लोभस्य अनुस्पर्शः प्रभावः, लोभस्य बहूनां प्रभावाणां मध्ये एष पूर्वोक्तः संनिधिरूप एकः प्रभावोऽस्ति, एवमहं मन्ये, अतः यः संनिधिकामः-संनिधिवाञ्छकः स्यात् सः गृही–गृहस्थ एव मन्तव्यः न तु सः प्रव्रजितः - साधुरिति । इत्येवं भगवद्वचनात् परिवासितमाहारजातं निर्ग्रन्थनिर्ग्रन्थीनां भोक्तुं न कल्पते इति भावः । किं सर्वथा न कल्पते ? इत्यपवादमाह–‘नन्नत्थ' इत्यादि, नान्यत्र - अन्यत्र न, केभ्यः ? इत्याह- गाढागाढेभ्यो रोगात - केभ्यः गाढागाढरोगातङ्कान् विहाय, अन्यत्र न कल्पते इत्यर्थः ॥ सू०४७॥
पूर्वं परिवासिताहारनिषेधसूत्रं प्रोक्तम्, सम्प्रति परिवासितालेपननिषेधसूत्रं प्रतिपादयति'नो कप' इत्यादि ।
सूत्रम् - नो कपड़े निग्गंथाण वा निग्गंथीण वा परिवासिएणं आलेवणजाएणं आर्लिपित्तए वा विलिंपित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहिं ॥ सू० ४८ ॥
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन आलेपनजातेन आलेपयितु वा विलेपयितुं वा, नान्यत्रं गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४८ ॥
चूर्णी - 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीना वा परिवासितेनप्रथम प्रहरगृहीतचतुर्थ प्रहर प्राप्तेन आलेपनजातेन केनापि लोधादिनिर्मितालेपनेन आलेपयितुं